________________
-
-
---
.--.--
.--.-
"...-
मायः परीपं च ॥७२॥ अणेति ॥ ७२ ॥ अणेडिदानका प्रत्ययो भवति । अण शब्दे । आनकः पटहः ॥ ७२ ॥ कनेरीनकः ॥ ७३ ॥ कनै दीप्तिकान्तिगतिपु इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः कनीनिका वाक्षितारका ॥ ७३ ॥ गुङ ईधुकधुकौ ॥ ७४ ॥ गुङ् शब्दे इत्यस्मादीधुकएधुक इत्येतौ प्रत्ययौ भवतः। गवीधुकं नगरम् धान्यजातिश्च । गवेधुका तृणजातिः॥ ७४ ॥ वृतेस्तिकः ।।७५॥ तूङ् वर्तने इत्यस्मात्तिकः प्रत्ययो भवति । वर्तिका चित्रकरोपकरणम् शकुनिः द्रव्यगुटिका च ॥७५॥ कृतिपुतिलतिभिदिभ्यः कित् ॥७६॥ एभ्यः कित्तिकः प्रत्ययो भवति । कृतैत छेदने । कृतिका नक्षत्रम् । पुतिलती सौत्रौ। पुत्तिका मधमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वानोलत्तिका गृहगोलिका । अवपूर्वादवलत्तिका गोधा । आलत्तिका गानप्रारम्भः। भिद्रूपी विदारणे । भित्तिका कुडयम् मापादिचूर्णम् शरावती च नदी ॥६॥ इष्यशिमसिभ्यस्तकक् ॥७७॥ एभ्यस्तकक् प्रत्ययो भवति । इषत् इच्छायाम् । इष्टका मृद्विकारः। अशौटि व्याप्तौ ।। अष्टकाः श्राद्धतिथयस्तिस्रः अष्टम्यः पितृदेवत्यं च । मसैच परिणामे । मस्तकः शिरः॥ ७७ ॥ भियो दे च ॥७८॥ वि भीक् भये इसस्मातका प्रत्ययो भवति । रूपे च भवतः । विभीतकः अक्षः ॥ ७८ ॥ हुरुहिपिण्डिभ्य ईतकः ॥७९॥ एभ्य ईतकः प्रत्ययो भवति । हृग् हरणे । हरीतकी पथ्या। रुहं जन्मनि । रोहीतकः वृक्षविशेषः। पिडुङ् संघाते । पिण्डीतकः करहाटः ॥ ७९ ॥ कुषेः कित् ॥८०॥ कुपश् निष्कर्षे इत्यस्मारिकदीतकः प्रययो भवति । कुषीतकः ऋषिः ॥८॥ बलिबिलिशलिदमिभ्य आहकः ॥ ८॥ एभ्य आहकः प्रत्ययो भवति । वल प्राणनधान्यावरोधयोः । बलाहकः मेघः वातश्च । बिलत् भेदने । विलाहकः वज्रः। वाहुलकान्न गुणः । शल गतौ । शलाहकः वायुः । दमूच् उपशमे । दमाहकः शिष्यः ॥८१॥ चण्डिभल्लिभ्यामातकः ॥ ८२॥ आभ्यामातकः मत्ययो भवति । चडुङ कोपे । चण्डातकं नर्तक्यादिवासः। भल्लि परिभाषणहिसादानेषु । भल्लातकः वृक्षः ॥८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥८३॥ एते आतकमत्ययान्ता निपात्यन्ते । श्लिषेर्मश्च परादिः। श्लेष्मातकः कफेलुः । अमेवृद्धी रश्चान्तः । आम्रातकः वृक्षः। नञः परस्य म्लायतमिल् च । अमिलातकम् वर्णपुष्पम् । पिपेस्तोऽन्तश्च । पिष्टात वर्णचूर्णम् । आदिग्रहणात्कोशातक्यादयो भवन्ति ॥ ८३ ॥ शमिमनिभ्यां खः॥ ८४ ॥ आभ्यां खः प्रत्ययो भवति । शमूच उपशमे । शङ्खः कम्बु निधिश्च । मनिच् ज्ञाने । महः मागधः कृपणः चित्रपटश्च । महा मङ्गलम् ॥ ८४ ॥ श्यतेरिच वा॥ ८५॥ शौच तक्षणे इयस्मात् खः प्रत्यय इश्चास्यान्तादेशो वा भवति । शिखा चूडा ज्वाला च । विशिखा आपणः। विशिखः बाणः । शाखा विटपः । विशाखा नक्षत्रम् । विशाखः स्कन्दः॥८५ ॥ पूमुहोः पुन्मूरौ च ॥८६ ॥ पूङ पवने मुहौच वैचित्ये इत्येताभ्यां खः प्रत्ययोऽनयोश्च यथासंख्यं पुन मूर इत्यादेशौ भवतः । पुखः वाणबुन्धभागः मङ्गलाचारश्च । मूर्खः अज्ञः ॥ ८६ ।। अशेर्डित् ॥ ८७ ॥ अशौटि व्याप्तावित्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकाशमिन्द्रियं च । | नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥ ८७॥ उषेः किल्लुक् च ॥८८ ॥ उषू दाहे इत्यस्मात् कित् सः प्रत्ययो
eeooooooooooooooopeeeee