________________
थीहेमश० ॥२५॥
उ०वि०
ees
अौ व्यक्तिम्रक्षणगतिषु । अञ्जकः हिंसः। जल घात्ये । जलूका जलजन्तुम वल पाणनधान्यावरोधयोः। वलूकः उत्पलमूलं मत्स्यश्च । तलण प्रतिष्ठायाम् । तलूकः लामिः । मलि धारणे । मलकः सरोजशकुनिः । मल्लि धारणे । मल्लकः कृमिजातिः। भलिण् आभण्डने । भालूकः ऋक्षः । मडु भूपायाम् । मण्डूका दुईरः। बन्धश् 18 बन्धने । बन्धूकः बन्धुजीवः ॥५६॥ शल्यर्णित्॥५९॥ आभ्यां णिदुका प्रत्ययो भवति । पलफलशल गतौ । शालूकं जलकन्दः वलवांथ । अण शब्दे। आणूकम् । अक्षिगलम् ॥ ५९॥ कणिभल्लेीर्घश्च वा ॥६०॥ आभ्यामूकः प्रत्ययो दीर्घश्चानयोर्वा भवति । कण शब्दे । कणूकः धान्यस्तोकः । काणूकः पक्षी । काणूकम् अशिमलः तमो वा । भल्लि परिभापणहिंसादानेषु । मल्लकः भाल्लकच ऋतः ॥ ६॥ शम्बूकशाम्बूकवृधूकमधूकोलूकोरुबूकवरूकादयः ॥ ११॥ एते ऊकप्रत्ययान्ता निपात्यन्ते । शमेवोऽन्तो दीर्घश्च वा । शम्बूकः शशः । शाम्बूकः स एव । दृश् वरणे । अस्य वृधभावश्च । वृधूकः मातृवाहकः । धुकं जलम् । मदेर्धश्च ।। मदयतीति मधूकः वृक्षः । अलेरुचोपान्त्यस्य । उलूकः काकारिः । उरु पूर्वाद्वातेः किच । उरु वाति उरुबूकः एरण्डः । वृधेर्लोपश्च । वर्धते इति वरूकः तृणजातिः। आदिग्रहणादनूकवाबदुकादयो भवन्ति ॥ ६१॥ किरोको रो लश्च वा ॥ १२ ॥ किरतेरका प्रत्ययो भवति रेफस्य च लकारादेशो वा भवति । करकः समुद्गः। कलाः लाञ्छनम् ॥ ६२ ॥ रालापाकाभ्यः कित् ॥ ६३ ॥ एभ्यः किदकः प्रत्ययो भवति । राक् दाने । रकः अवलीयान् । लारु दाने । लङ्का पुरी। पांक् रक्षणे । पकः कर्दमः । के शब्दे । कङ्कः पक्षी ॥ ६३ ॥ कुलिचिरिभ्यामिकक् ॥ ६४ ॥ आभ्यामिकक् प्रत्ययो भवति । कुल वन्धुसंस्त्यानयोः । कुलिङ्कः चटकः । चिर हिंसायाम् सौत्रः । चिरिङ्क जलयत्रम् ॥ ६४ ॥ कलेरविङ्कः ॥६५॥ कलेरविल्कः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलविङ्कः गृहचटकः ॥ ६५ ॥ क्रमेरेलकः ॥ ६६ ॥ क्रमू पादविक्षेपे इसस्मादेलकः प्रत्ययो भवति । क्रमेलकः करभः ॥६६॥ जीवेरातृको जैव च ॥ ६७ ॥ जीव प्राणधारणे इत्यस्मादातृकः पत्ययो भवति जैब् इत्यादेशश्च । जैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेषश्च । जैवावका जीवद्वत्सा खी ॥ ६७ ॥ हुभूलाभ्य आणकः ॥३८॥ एभ्य आणकः प्रत्ययो भवति । हुंग हरणे । हराणकः चौरः । भू सचायाम् । भवाणकः गृहपतिः । लाक् आदाने । लाणकः हस्ती ॥ ६८ ॥ प्रियः कित् ॥ ६९॥ प्रींगा तृप्तिकान्त्योरित्यस्मादाणकः प्रत्ययो भवति स च कित् । मियाणकः पुत्रः ॥ ६९ ॥ घालूशियिभ्यः॥ ७० ॥ योगविभाग उत्तरार्थः । एभ्य आणकः प्रत्ययो भवति । डु धांग्क धारणे च । घाणकः दीनारद्वादशभागः हविपां ग्रहः छिद्रपिधानं च । लगश् छेदने । लवाणकः कालः तृणजातिः दात्रं च । शिघु आघ्राणे । शियाणकः नासिकामलः ॥ ७० ॥ शीभीराजेश्चानकः ॥७१॥ शीभीराजिभ्यो धालुशियिभ्यश्चानकः प्रत्ययो भवति । शी स्वमे । शयानकः अजगरः शैलश्च । विभीक् भये । विभेत्यस्मादिति भयानकः भीमः व्याघ्रः वराहः राहुश्च । राजृग् दीप्तौ । राजानकः क्षत्रियः । हु धांग्क् धारणे च । धानकः हेमादिपरिमाणम् । लूगश् छेदने । लवानकः देशविशेषः दात्रं च । शिड्यन्त्यनेनेति शियानका
॥२५॥