________________
****
निमित्तिनावेकत्र समासे भवतः । विवोष्ठी । विवौष्ठी । विम्बष्ठा । विवौष्ठा | स्थूलोतुः । स्थूलौतुः । समास इति किम् । हे राजपु
पश्य । हे छात्रस्वरं शृणु । अवर्णस्येत्येव । शुच्योष्ठी ॥ १७ ॥ *ओमाङि । १ । २ । १८ ॥ अवर्णस्य ओमि आङादेशे च परे लुग्भवति । आङ दोर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादिति आङिति आङादेशो गृह्यते । अयोङ्कारः । सोमित्यवोचत् । आङि, *आ ऊढा ओढा ओढा अद्योढा । सा ऊढा सोढा । आ ऋश्यात् अश्यत् । अद्य अर्थात् अद्यर्थ्यात् । खट्टा अर्थात् खर्थ्यात् । आ इहि एहि । उप एहि उपेहि । परा एहि परेहि । एवमुपेतः। ओमाङीति किम् | तवौदनः । अवर्णस्येत्येव । आॠनोः अतः। *दध्यतः ॥ १८ ॥ उपसर्गस्यानिणेधेदोति । १ । २ । ॥ १९ ॥ उपसर्गसंवन्धिनोऽवर्णस्येणेधतिवर्जिते एकारादावोकारादौ च धातौ परे लुग्भवति । मेलयति । परेलयति । परोखति । उपसर्गस्येति किम् । प्रगता एलका अस्मात्मैलको देश' । अनिणेधिति किम् । उपैति । परैति । उपैधते । परैधते । एदोतीति किम् । उपायते । प्लायते || १९|| * वा नाम्नि |१।२।२० ॥ नामवयव एकारादावोकारादौ च धातौ परे उपसर्गसंबन्धिनोऽवर्णस्य लुग्वा भवति । उपेकीयति । उपैकीयति । प्रोषधीयति । प्रौषधीयति ॥ २० ॥ * वर्णादेरस्वे खरे यवरलम् । १ । २ । २१ ॥ इवर्णोवर्णवर्णलवर्णानामस्व स्वरे परे यथासंख्यं य्व् र् ल् इत्येते आदेशा भवन्ति । दध्यत्र । नद्येषा । मध्वत्र । वध्वासनम् । *पित्रर्थः । क्रादयः । लनुबन्धः । लाकृतिः । इवर्णादेरिति किम् । पचति । अस्व इति किम् । दधदम् । स्वर इति किम् । मधु पिवति । *केचित्त्रिवर्णादिभ्यः परान् यवरलानिच्छन्ति । दधियत्र । तिरियङ् । मधुवत्र । भूवादयः । तन्मतसंग्रहार्थमिवर्णादेरिति पञ्चमी व्याख्येया ॥ २१ ॥
1
वृत्त्या निषेध स्यात् ॥ यद्वा, पुटापुटिकेतिवत् ओष्ठावयवयोगात् समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः ॥ - तौ चेन्निमित्तेति ॥ तेन आ ईषत् ओष्ठोऽनेनैवाडो लोपे ओष्ठ, परम ओष्ठो यासा ता परमौष्ठा इत्यत्र लुग् न भवति ॥ विम्व्या फल – बिम्बम् ॥ ' हेमादिभ्योऽञ् ' ॥ - ओमाङि ॥ आ ऊढा ओढेति ॥ ' गतिकन्यः - इति समास ॥ ऋशे सौत्रात गत्यर्थात् स्तुत्यर्थाद्वा 'ऋशि जनि ' – इति किति ये ऋश्य – खटुर्यात् ॥ निक्षेपणीयेत्यादिक्रिया योज्या ॥ तथा-दध्यतौरिति । भक्षणीय वर्जनीय देति योग ॥ -उपस॥ इण् च एच इणेत्, न इणेत् अनिणेत् । अनिणेच तत् एच अनिषेधेत् । अनिषेधेच ओघेत्यादिविग्रह ॥ न विद्येते इणेधी यत्र सोऽनिणेधू स चासावेच ततो द्वन्द्व इति वा ॥ वा नानि ॥ - उपेकीयतीति ॥ अत्र पस्य 'घुटस्तृतीय इति रत् न । 'असिन्छ पहिरङ्गम्' इति न्यायात् ॥ न च वाच्य 'स्वरस्य परे ' - इत्यस्य 'न सधि - इत्यादिना बाधितत्वात् प्राप्नोतीति । यतस्तत्र परिभाषापि 'असिद्ध पहिरङ्गम् - इत्यनेन न्यायेनावाधि । तत्र सूत्रे सधावपि सिदे द्विग्रहणात् ॥ इवर्णा ॥ " केचिदिति ॥ देवनन्यादय || अस्त्रे स्वरे इति असमस्त निर्देश स्वरसबन्धनिवृत्त्यर्थ ॥ तेन ' एदैतोऽयाय्' इत्यादी स्वरस्यैवानुवृत्तिर्न स्वस्व इत्यस्य । तेन रायैन्द्रीत्यादी स्वेऽपि भवति ॥ पित्रर्थ इति ॥ पित्रे अयमिति अस्वपदेन विग्रह ' तदर्थार्थेन ' इति । अर्थशब्देनैव चतुर्थ्यां अभिहितत्वात् वाक्याभावेऽर्थशब्देन नित्यसमा