________________
श्रीहेमश०
स्वैर स्वैरिन् अक्षौहिणीत्येतेषु अवर्णस्य परेण स्वरेण सहितस्य ऐत् औत् इत्येतावादेशौ भवतः । स्वस्येरः स्वैर । घन् । स्व ईरोऽत्रेति स्वैरमास्यताम् । स्वय
लघुन्या मीरति इर्ते वा स्वैरः । नाम्युपान्त्यलक्षणः कः । स्वयमीरितुं शीलमस्येति स्वैरी । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वैरिणी। अक्षाणामूहोऽस्यामस्तीति अक्षौहिणी । स्वैरशब्दान्मत्वर्थीयेनैव इना सिद्धे पृथक् स्वैरिन्ग्रहणं ताच्छीलिकादिणिन्नन्तेऽपीरिन्शब्दे ऐत्वार्थम् ॥१५॥ अनियोगे लुगवे । १।२। ॥ १६ ॥ नियोगो नियमोऽवधारणम् , तदभावोऽनियोगोऽनवलुप्तिः । तद्विषये एवशब्दे परेऽवर्णस्य लुग्लोपोऽदर्शनं भवति । इहेब तिष्ठ। अयेव गच्छ । स्वेच्छावृत्तिरत्र गम्यते नावधारणम् । नियोगे तु इहैव तिष्ठ, मागाः । ये त्वनियोगेऽव्यापारणे इच्छन्ति तन्मते शास्त्रलोकप्रतीतप्रयोगविरोधः । तथा हि'अमैवाव्ययेन' [२।२।२० पा०] 'धातोस्तन्निमित्तस्यैव' [६।१।८० पा०] 'तपस्तपःकर्मकस्यैव' [३।१।८८1 पा०] 'लङः शाकटा| यनस्यैव' [ ३ । ४ । १११ पा०] । येनैव हेतुना वाक्यं भवति तेनैव वृत्तिरपि प्रामोति । यथैव तर्हि । इहैव स्यादिति । 'यदैव पूर्वं जनने शरीरम्' । - दृशैव कोपारुणया रिपोरुरः ॥ अद्यैवावा रणमुपगतौ तातमम्बाश्च नत्वा । तरसैव कोऽपि भुवनैकपुरुषस्तपस्यतोति । कथं शकानामन्धुः शकन्धुः । अटतीत्यटा, कुलात् कुलस्य वाऽटा कुलटा । पततोति पतः, पतोऽञ्जलेः पतञ्जलिः । सीन्नोऽन्तः सीमन्तः केशविन्यास एव । प्रार्थनायाऽध्ययनं प्रध्ययनम् । हलस्य ईपा हलीपा । एवं लागलीपा । मनस् ईषा मनीपा । हलीशा । लागलीशेत्यादि पृषोदरादित्वाद्भविष्यति । कथं तुबै स्वै नुवै न्वै । निपातान्तरमेतत् ॥ १६ ॥ वौष्ठौतौ समासे । १।२ । १७ ॥ ओष्ठशब्दे ओतुशब्दे च परेऽवर्णस्य लुग्वा स्यात् , तो चेन्निमित्त
सम इत्यवयवधर्मेण समुदायस्य व्यपदेश एवमिहापि स्वेरावयवयोगात समुदायोऽपि त्र्यात्मक स्वैर , स्वैर्यवयवयोगात् स्वैरी, अक्षौहिण्यवयवयोगादक्षौहिणी ॥ तत स्वैरथासौ स्वैरी च स चासावक्षौहिणी 2
चेति कर्मधारय । यथा 'मर्यादाभिविधौ च य ' इत्यत्र समुदायोऽवयवशब्देन मर्यादावयवत्वान्मर्यादा, अभिविध्यवयवत्वादभिविधिरिति व्यपदिश्यते ततो विशेषणसमासो भवति । समुदाये च स्वैरस्वैX क्षौहिणीरूपे कार्यासभवादवयव एवं स्वैर इत्यादि कार्यभागिति ॥ सौत्रो वा निर्देश । तेनेतरेतरयोगे बहुवचन समाहारे च इस्वत च न भवति ॥ एवमन्यत्रापि ॥ तथात्र सूत्रे विषयसप्तमी । तेन | * स्वैरादिपु निष्पत्स्यमानेषु योऽकार इत्यर्थ ॥ स्वेन आत्मना ईर स्वैर ॥ 'कारक कृता' इति समास । ईर इति सामान्येन घनन्तस्य कान्तस्य च परिग्रह इत्युभयत्रापि कार्यम् । स्वैरशब्दस्य ध- |
अन्तस्यापि अनादिदर्शनान्मत्वर्थीयेनाप्रत्ययेन कत्रभिधान भवति ॥-स्वयमीरतीति ॥ युजादित्वात्याक्षिकणिजन्ततया प्रयोगोऽयम् ॥-ऐत्वार्थमिति ॥ अन्यथा णिनि स्वेरीति अनिष्टरुपमापयेत ॥अनियोगे-॥ अवधारणमवश्यभाव इत्यर्थ ॥-इहेवेति ॥ वाक्यालकारे एक्शब्द ॥-अमैवेति ॥ एतेषु सर्वेषु स्वरूपाख्यानमेवास्ति न तु व्यापारणमिति । यद्यव्ययेन सह समासस्तदा अमाऽमन्तेनैवेत्यर्थ , निमूलकाप कपतीत्यादाविति ॥--वृत्तिरपीति ॥ मुमूर्षइत्येवरूपा सन्प्रत्ययस्य वा वृत्ति प्रवृत्तिरित्यर्थ ॥ सीम्नोऽन्त एकदेश ॥-प्रध्ययनमिति ॥ प्रशब्दस्य डेप्रत्ययान्तस्य हितादित्वात् समासः ॥-वै इति ॥ तुशब्दस्योकारलौपे से इति रूप मन्यते पर., ततः केन सूत्रेणोवर्णलोप इति परस्याशयः ॥-वौष्ठौ--॥ अत्र सौत्रत्वात्समाहारोऽन्यथा 'प्राणिदुर्य-इति 'स्वैः' इति व्या