________________
नामावयवे धातौ परे परेण ऋकारेण सहितस्यारादेशो वा भवति । प्रार्षभीयति । केचित्तु पक्षे हस्वत्वमपि मन्यन्ते । प्रऋषभीयति । उपसर्गस्येत्येव । इहर्षभीयति । ऋतीत्येव । उपोष्ट्रीयति । ऋकारमिच्छति उपर्कारयति ॥ १० ॥ लत्यात्वा । १ । २ । ११ ॥ उपसर्गस्य संवन्धिनोऽवर्णस्य कृति ऌकारादौ नामाard anal परे परेण लकारेण सहितस्याल वा भवति । अलोऽपवादः । उपाल्कारयति । उपकारयति । अत्रापि पक्षे हस्वत्वमिच्छन्त्येके । उपलकारीयति । उपसर्गस्येत्येव । इहल्कारयति । लृतीति किम् । लृकार मिच्छति उपकारयति ॥ ११ ॥ ऐदौत्संध्यक्षरैः । १ । २ । १२ ॥ अवर्णस्य स्थाने संध्यक्षरैः परैः सहितस्यैत् औत् इत्यादेशावासन्नौ भवतः । एवं चैकारैकाराभ्यां सहितस्यैकारः, ओकारौकाराभ्यां सहितस्य चौकारः । तवैषा । खद्वैषा । तवै
1
| सैन्द्री । तवदनः । खद्दौदनः । तवैौपगवः । खद्दौपगवः । अवर्णस्येत्येव । दध्येतत् । दध्यैच्छत् । मध्वोदनः । साध्वौषधम् । संध्यक्षरैरित्यैत्वनिर्देशादुपसस्येति निवृत्तम् ॥ १२ ॥ ऊटा । १ । २ । १३ ॥ अवर्णस्य परेणोटा सहितस्य स्थाने औकारादेशो भवति आसन्नः । धौतः । धौतवान् । लावयति पावयति इति किपि णिलोपे ‘अनुनासिके च छ्छः शूद्' ( ४ । १ । १०८ ) इत्यूटि, लौ: पौ: । ओकारापवादो योगः ॥ १३ ॥ प्रस्यैवैष्योढोढ्यूहे स्वरेण | १ | २ | १४ || प्रशब्दसंबन्धिनोऽवर्णस्य एप एण्य ऊढ ऊढि ऊह इत्येतेषु परेषु परेण स्वरेण सहितस्य स्थाने ऐदौतावादेशौ भवत आसन्नौ । मैषः । प्रैष्यः । प्रौढः । प्रौढिः । मौहः । ऊहे नेच्छन्त्येके । प्रस्येति किम् । अपोदः । उपोढः । एपादिष्विति किम् । प्रेतः । प्रोतः । कथं प्रेपः प्रेष्यः । ईषे ईष्ये च भविष्यति । यदापि आ ईष्य एष्य इति तदापि 'ओमाङि ' ( १ । २ । १८ ) इसवर्णलोपे प्रेष्य इत्येव भवति । ' अस्मिन्प्राप्ते यो विधिरारभ्यते स तस्य वाधको भवति' इति न्यायात् 'उपसर्गस्यानिषेधेदोति' ( १ । २ । १९ ) इत्यस्यैवायं वाधको न ओमाङीत्यस्य । अथेह कस्मान्न भवति ते प्रेष्यते प्रोढवानिति । अर्थवद्ग्रहणेऽनर्थकस्याग्रहणात् । कथं तर्हि ऊढिशब्दस्य ण्यन्तस्य सार्थकस्य प्रयोगे प्रोढयतीति । ऊढशब्देन सार्थकेन स्याद्यन्तेन साहचर्याण्ण्यन्ते औवाभावात् । प्रौढादिशब्दात्तु णौ मौढयतीत्यादि भवत्येव ॥ १४ ॥ स्वैरस्वैर्यक्षौहिण्याम् । १ । २ । १५ ॥ धातुर्नाम्नीत्यनेन विशेष्यत इत्याह- नामावयवे – इति ॥ ऐदौत् ॥ नन्वत्र त्रिमात्रचतुर्मात्रयोरादेशिनो स्थाने कथ द्विमात्रावेवादेशौ भवत । यावता 'स्थान्यासन्न' इति न्यायात्रिमात्री चतुर्मात्री चप्राप्तुत इति ॥ सत्यम् ॥ सध्यक्षरेरिति बहुवचन द्विमात्रादेश प्रतिपत्त्यर्थम् । अन्यथैकवचनेन निर्दिशेत् । एतदर्थं च सत् उपसर्गनिवृत्तिमपि करोति इत्याह-संध्यक्षरैरिति ॥ - ऊदा ॥ ऐदीदिति समुदायानुवृत्तावपि 'आसन्न ' इति न्यायादौदेव भवतीत्याह - औकारादेश इति ॥ - लो: । पौ इति ॥ अकारस्याप्युदाहरणमिदमेव ॥ लूपूभ्यामजन्ताभ्यामलन्ताभ्या वा लवमाचष्टे पत्रमाच 'णिज् बहुलम् इति णिचि किवादि पूर्ववत् ॥ प्रस्यै ॥ अवर्णस्य कार्यिणोऽनुवृत्तेस्तस्य च प्रशब्देन सामानाधिकरण्यायोगात् अवयवावयविसबन्धे षष्ठीत्याह - प्रशब्द संबन्धिनो ऽ वर्णस्येति ॥ यदा आ ईष्य इति क्रियते तदापि 'ओमाडि ' इत्यस्य विषयेऽपि ' उपसर्गस्यानिणे ' इत्यस्य प्राप्तिरेव ' उभयो स्थाने ' इति न्यायेन आई इत्येतयोरुभयो स्थाने निष्पन्नस्य एतो यदा आडा व्यपदेशस्तदा ‘ओमाडि ' इत्यस्य अन्यथा ' उपसर्गस्य - इत्यस्येत्यत आह- यस्मिन् प्राप्ते इति ॥ प्राप्त एवेत्यवधारण व्याख्यानात् ॥ - स्वैर || यथा सममात्रौषधनिप्पन्नश्णपि
I
****