________________
पं०७० वि०
२३॥
गजैरिति वा सल्लकी । अली भूषणादिषु । अलका केशविन्यासः। अलका पुरी ॥२७॥ को रुरुटिरण्टिभ्यः ॥ २८ ॥ कुशब्दात परेभ्य एभ्योऽकप्रसयो भवति । रुक् शब्दे । कुरुषकः वृक्षः । रुटु स्तेये । कुरुण्टको वर्णगुच्छः । रण्टिः प्राणहारणे सौत्रः । कुरण्टकः स एव ॥ २८॥ ध्रुधून्दिरुचितिलिपुलिकुलिक्षिपिरपिाभिलिखिभ्यः कित् ॥ २९॥ एभ्यः किदकः प्रत्ययो भवति । धुं स्थैर्ये च । ध्रुवकः स्थिरः । ध्रुवका आवपनविशेषः । धून विधूनने । धुवकं धूननम् । धुवकः प्रधानं । स्त्री धुवका आवपनविशेषः । उन्दै केदने । उदकं जलम् । रुचि अभिपीत्या च । रुचकः आभरणविशेषः । तिलत् स्नेहने । तिलकः विशेषकः वृक्षश्च । पुलत समुच्छ्राये, पुल महत्त्वे वा । पुलकः रोमाञ्चः । कुल बन्धुसंस्त्यानयो । कुलकं संयुक्तम् । क्षिपीत् प्रेरणे। क्षिपक' वायुः । क्षिपका आयुधम् । थुपः सौत्रो इस्वीभावे । क्षुपकः गुल्मः । शुभच् संचलने । क्षुभकः पाञ्चालकः । लिखत् अक्षरविन्यासे । लिखकः चित्रकरः ॥२९॥ छिदिभिदिपिटेर्वा ॥३०॥ एभ्योऽक' प्रत्ययो भवति स च किवा । छिद्रूपी द्वैधीकरणे । छिदकः खड्गः शुरश्च । छेदकः परशुः। भिदृषी विदारणे । भिदकं जलं पिशुनश्च । भेदकं वज्रम् ।। पिट शब्दे च। पिटक क्षुद्रस्फोटकः। पेटकं संघातः ॥३०॥ कृषगुणवृद्धी च वा ॥३१॥ कृपेरकः प्रत्ययो भवति गुणवृद्धी चास्य वा भवतः। कृपंत विलेखने । कर्षक: कृपकः परशुः । कर्षकः कृषकः कुटुम्बी ॥ ३१ ॥ नजः पुंसेः ॥ ३२ ॥ नजः परात्पुंसण अभिमर्दने इत्यस्मात् किदकः प्रत्ययो भवति । नपुंसकं तृतीयामकृतिः । नखादित्वात् नजत न भवति ॥३२॥ कीचकपेचकमेनकाकधमकवधकलघकजहकैरकैडकाश्मकलमकक्षुल्लकवटकबकाढकादयः ॥ ३३ ॥ कीचकादयः शब्दा अकात्ययान्ता निपात्यन्ते । कचि बन्धने । अस्योपान्त्यस्यत्वं च । कीचकः वंशविशेषः । डु पचीं पाके । मचि कल्कने । मनिच ज्ञाने । एपामुपान्त्यस्यैत्वं च । पेचकः करिजघनभागः । मेचकः वर्णः । मेनका अप्सराः । अर्भश्चान्तः । अर्भका वालः । मां शब्दाग्निसंयोगयोः । अस्य धमादेशश्च । धमकः कीटः कर्मारश्च । अन्यत्रापि धमादेशो दृश्यते । क्ते, धान्तः । हन्तेर्वधश्च । वधकः हन्ता व्याधिश्च । वधकं पद्मवीजम् । अन्यत्रापि दृश्यते । वृत्रं हन्ति आचे वृत्रवधः शकः । वधिता निर्माचक । वध्यः । वधनम् । लघुङ् गतौ । नलुक् च । लघकः असमीक्ष्यकारी । जहातेट्टै रूपे अन्तलुक् च । जहका निमोंचकः कालः क्षुद्रश्च । इरिक गतिकम्पनयोः। इंडिक्स्तुतौ । अनयोर्गुणश्च । एरका उदकतृणजातिः। एडका अविजातिः। अशौटि व्याप्तौ । अस्य मोऽन्तः। अश्मका जनपदः। रभि क्रीडायाम् । अस्य लमादेशः । लमक ऋषिविशेषः। क्षुद्रंपी संपेपे । अस्य क्षुल्लादेशश्च । क्षुल्लकं दभ्रम् । क्षुध लातीति क्षुल्लः क्षुल्ल एव क्षुल्लक इति वा। वट वेष्टने। अस्य वोऽन्तश्च । वयका तृणपुजः॥ आङ्पूर्वात् ढोकतेचि । आढकम् मानम् । आदिग्रहणाहत्तन्त्रात कला आपिवन्तीति कलापकाः शाखाणि । कथण् वाक्यप्रवन्धे । कथयतीति कथक तोटकाख्यायिकादीनां वर्णयिता । एवमुपकचम्पकफलहकादयोऽपि ॥ ३३ ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकुदु पूमानिखजिभ्य आकः ॥ ३४ ॥ एभ्य आकः प्रत्ययो भवति । फलफलशल गतौ । शलि चलने च वा । शलाका एपणी पूरणरेखा द्यूतोपकरणं सुची च । वल पाणनधान्यावरो
RONI
॥२३॥