________________
| संचीयते भुर्भुरः संचयः । शृश् हिंसायाम् । शीर्यते समंतात् शिशिरः पुञ्जः ॥१०॥ पृपलिभ्यां टित् पिप् च पूर्वस्य ॥११॥ आभ्यां टिदः प्रययो भवति अनयोश्च सरूपे द्वे रूपे भवतः पूर्वस्य च स्थाने पिप इसादेशो भवति । पृश् पालनपूरणयोः। पृणाति छायया पिप्परी वृक्षजातिः। पल गतौ । पलयातरं पिप्पली औषधजातिः। टित्करणं ड्यर्थम् ॥११॥ क्रमिमथिभ्यां चन्मनौ च॥१२॥ आभ्यामः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च स्थाने यथासंख्यं चन् मन् इत्यादेशौ भवतः। क्रमू पादविक्षेपे । कामति सुखमनेनास्मिन्या चक्रमः संक्रमः। मथे विलोडने । मथति चित्तं रागिणां मन्मथः कामः ॥१२॥ गमेर्जम् च वा ॥ १३ ॥ गमेरः प्रत्ययो भवति सरूपे द्वे च रूपे भवतः पूर्वस्य च जम् इबादेशो वा भवति । गम्लं गतौ । गच्छति पादविहरणं करोति जङ्गमः चरः॥ गच्छत्यमाध्यस्थ्यं गङ्गमः चपलः ॥१३॥ अदुपान्त्यऋद्भ्यामश्चान्तः॥ १४ ॥ अकारोपान्त्याहकारान्ताच धातोरः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य चान्तोऽकारो भवति । पलफलशलगतौ । शालशलः। सल गतौ । सलसला हल विलेखने । हलहलः। कलि शब्दसंख्यानयोः। कलकल मलि धारणे । मलमलः। घटिप् चेष्टायाम् । घटघटः। वद व्यक्तायां वाचि। ववदः। पदिच् गतौ । पदपदः। ऋदन्तः। डु इंग् करणे । करकरः। मंत् माणसागे । मरमरः । दृङ्न आदरे । दरदरः । सं गतौ । सरसरः । दृग्ट् वरणे । वरवरः । अनुकरणशब्दा एते ॥१४॥ मषिमसेर्वा ॥२५॥ आभ्यामः प्रत्ययो भवति सरूपे च दे॒ रूपे भवतः पूर्वस्य चान्तोकारो वा भवति । मप हिंसायां। मषमपः। मष्मपः। मसैच परिमाणे । मसमसः। मस्मसः ॥१५॥ हृसृफलिकषेरा च ॥१६॥ एभ्योऽ: प्रत्ययो भवति सरूपे च द्वे रूपे भवत. पूर्वस्य चाकारोऽन्तो भवति । हंग् हरणे । हरति नयति शस्त्राण्यस्खलन लक्ष्यम् हराहरः योग्याचार्यः। सं गतौ । धावति वायुना नीयमानः समन्तात् सरासरः सारङ्गः फलनिष्पत्तौ । फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलमरण्यम् । कष हिसायाम् । कति विदारयति कपाकपः कृमिजातिः ॥१६॥ इदुदुपान्त्याभ्यां किदिदुतौ च ॥१७॥ इकारोपान्त्यादुकारोपान्त्याच कित् अः प्रययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य च यथासंख्यमिकारोकारौ चान्तौ भवतः। किलत् श्वैत्यक्रीडनयो । किलिकिलः। हिलत् हावकरणे । हिलिहिलः। शिलत् उञ्छे । शिलिशिलः। छुरत् छेदने । छुरुच्छु । मुरत् संवेष्टने । मुरुमुरः। घुरत् भीमार्थशब्दयो। धुरुधुरः । पुरत् अग्रगमने । पुरुपुरः। पुरत् ऐश्वर्यदीप्यो । सुरुसुरः। कुरत् शब्दे । कुरुकुरः। चुरण स्तेये । चुरुचुर । हुल हिसासंवरणयोश्च । हुलहुलः । गुजत् शब्दे । गुजुगुज । गुडत् रक्षायाम् । गुडगुडः। कुटत् कौटिल्ये । कुटुकुटः। पुटत् संश्लेषणे । पुटुपुटः। कुणत् शब्दोपकरणयो। कुणुकुणः। मुण प्रतिज्ञाने । मुणुमुणः। अनुकरणशब्दा एते ॥१७॥ जजलतितलकाकोलीसरीसृपाद्यः ॥१८॥ एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये । अस्य द्वित्वे पूर्वस्य जभावः। जजलः। यस्य जाजलिः पुत्रः। तिलत् स्नेहने । अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्याकारे तितलः। कुल वन्धुसंस्त्यानयोः। अस्य द्वित्वे पूर्वस्य च काभावे कालोली क्षीरकाकोलीति च वल्लीजातिः। सप्तं गतौ। अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे सरीसृपः उरगजातिः। आदिग्रहणाद्यथादर्शनमन्येऽपि ॥१८॥ बहुलं गुणवृद्धी चादेः॥१९॥धातो. किदः प्रत्ययो भवति सरूपे च द्वे रूपे भवतः पूर्वस्य