________________
श्रीदेमशा रसायुः भ्रमरः । 'संप्रदानाचान्यत्रोणादयः' इति यथायोगं प्रत्ययो वेदितव्यः ॥ १॥ अः ॥२॥ सर्वस्माद्धातोर्यथामयोगमकारः प्रत्ययो भवति । जुन ॥२१॥ भवः । तरः । वरः । प्लवः । शयः । शरः । परः । करः । स्तवः । चरः । वदः ॥२॥ म्लेच्छीडेहस्वश्च वा ॥३॥ आभ्यामः प्रत्ययो भवति दीर्घस्य
च इस्वो वा भवति । म्लेच्छ अव्यक्तायां वाचि । म्लिच्छ: मूकः । म्लेच्छः कुमनुष्यजातिः । इंडिक स्तुतौ । इड: ईडो देवताविशेषौ मेदिनी च ॥ ३ ॥ नजः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥४॥ नजः परेभ्य एभ्यो डित् प्रत्ययो भवति । क्रमू पादविक्षेपे । न कामति नक्रः जलचरो ग्राहः । गम्लं गतौ । नगः वृक्षः पर्वतश्च । शमूच उपशमे । नशः यक्षः। खनूग अवदारणे । नखः करजः। नास्य खमस्तीति वा नख इत्यपि । कमुङ् कान्तौ । नाकः स्वर्गः। नात्राकमस्तीति नाक इत्यपि । नखादित्वात् 'अन् खरे' इत्यन् न भवति । डिक्करणमन्त्यस्वरादिलोपार्थम् ॥ ४ ॥ तुदादिविपिगुहिभ्यः कित् ॥५॥ | तुदादिभ्यो विपिगुहिभ्यां च कित् अप्रत्ययो भवति । तुदः । नुदः । क्षिपः । सुरः । बुधः । मुरत् ऐश्वर्यदीहयोः । तुदादिर्न धातुगणः किं तर्हि भिन्न इति । तेन बुधादीनामिति लिङ्गपरिणामस्तु ज्ञेयः । शिवः । तदादीनां यथासंभवं कारकविधिः । विष्लूकी व्याप्ती । वेवेष्टि विपम् प्राणहरं द्रव्यम् । गुहौग संवरणे । गृहति गुहः स्कन्दः । गुहा पर्वतैकदेशः ॥ ५॥ विन्देनलुक् च ॥६॥ विन्देः कित् अ प्रययो भवति तत्संनियोगे च नस्य लुक् च ॥ विदु अवयवे । विदः गोत्रकृक्षजातिश्च ॥ ६ ॥ कृगो दे च ॥७॥ करोतेः कित् प्रत्ययो भवति अस्य च धातोट्टै रूपे भवतः ॥ डुकुंग करणे । चक्रं रथाङ्गमायुधं च ॥ ७ ॥ कनिगदिमनेः सरूपे ॥८॥ किदिति निवृत्तम् । एभ्योकारः प्रत्ययो भवति एपांच सरूपे समानरूपे दे उक्ती भवतः । कनै दीप्तिकान्तिगतिः । कनति दीप्यते कन्कनः कान्तः । गद व्यक्तायां वाचि । गदति अव्यक्तं वदति, गद्यतेऽव्यक्तं कथ्यते वा गद्गदोऽव्यक्तवाक् , गद्गदमव्यक्तं वचनम् । मनिच ज्ञाने । मन्मनः अविस्पष्टवाक् । सरूपग्रहणं 'व्यञ्जनस्यानादेर्लुक्' इत्यादिकार्यानिवृत्त्यर्थम् ॥ ८॥ तष्टित् ॥ ९॥कारान्तादातोरकार प्रययो भवति स च बहुलं टित् धातोश्च सरूपे द्वे रूपे भवतः । दृश् विदारणे । दीयते भिद्यतेऽनेन श्रोत्रमिति दर्दरः वाद्यविशेष. पतिश्च । दर्दरी सस्पलाण्टः। कृत विक्षेपे । कर्करः क्षुद्राश्मा । कर्करी गलन्तिका। वृग वरणे । वर्वरः म्लेच्छजातिः । वर्वरी केशविशेषः । भृश् । भर्जने । भर्भरः छमवान् । भर्भरी श्रीः॥ नृप अप जरसि । जर्जर: अदृढः । जर्जरी खी । अझरः वायविशेषः । झझरी झल्लरिका । गत निगरणे । गर्गरः राजर्पि । गर्गरी महाकुम्भः । मृश् हिंसायाम् । मर्मरः शुष्कपत्रप्रकरः । तद्धोऽन्योऽपि क्षोदासहिष्णुनिवश्च । मर्मरायां यामित्पत्र टित्त्वेऽपि लीन भवति बहुलाधिकारात् ॥ तत एव च ऋकारान्तादपि । धू सेचने । घर्घरः
सदोषाव्यक्तवाक् । घरी किकणिका ॥९॥किच ॥१०॥कारान्तादातोर्यथादर्शनं किदकारः प्रययो भवति धातोश्च सरूपे को भवतः । मृश् हिसायाम् । मूर्यतेऽनेन || मुरः ज्वलदङ्गारचूर्णम्। पृश् पालनपूरणयोः । पूर्यते जलपातेन पुपुरः फेनः । तृ प्लवनतरणयोः । तीर्यतेऽनेनास्मिन्वा तिर्तिरः संक्रमः । भृश् भर्जने च । भूगते । ॥२