________________
VASNA
नैगम”रूढिभवं हि सुसाधु॥२॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ॥ यत्"न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदृह्यम् ॥३॥ इति ॥१३॥
॥ऑ॥
॥ उणादिवितिः॥ श्रीसिद्धहेमचन्द्रव्याकरणनिवेशिनामुणादीनाम् ॥ आचार्यहेमचन्द्रः करोति विकृतिं प्रणम्यहम् ॥ १॥ कृवापाजिस्वदिसाध्यशौढलासनिजानिरहीणभ्य उण् ॥ १॥ करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां विपये बहुलमुण प्रत्ययो भवति । डु कुंग करणे, कंग्ट् हिसायां वा निरनुवन्धग्रहणे सामान्यग्रहणात् । करोति करति कृणोति वा कारुः कारी नापितादिः इन्द्रश्च । वां गतिगन्धनयोः, पै ओ वै शोपणे वा । वाति वायति वा द्रव्याणि वायुः नभवान् । पां पाने । पिवन्त्यनेन तैलादि द्रव्यं पायुः अपानमुपस्थश्च । पातिपायत्योस्त्वर्थासंगतेन ग्रहणम् । जि अभिभवे । जयत्यनेन रोगान् श्लेष्माणं वा जायुः औपवं पित्तं वा । बदि आस्वादने । स्वद्यते इदमनेन चा स्वादुः रुच्यः । स्वदनं वा स्वादुः । साधंट संसिद्धौ। उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा सानोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः संयतः । उभयलोकफलं वा साधयति साधुः धर्मशीलः । अशौटि व्याप्तौ । अश्नुते तेजसा सर्व केदारं ना इत्याशुः सूर्यो बीहिश्च । अशनं वा आशु लिभम् । अश्नुते इति वा आशुः शीघ्रगामी शीघ्रकारी च । दृ भये, दृश् विदारणे वा । दरति दृणाति दीयते वा दारु काष्ठम् भव्यं च । ष्णे | वेष्टने । स्नायति स्नायुः अस्थिनहनम् । पण भक्तो, पणूयी दाने वा। सनति सनोति वा मृगादीनिति सानु पर्वतैकदेशः । जनैचि प्रादुर्भावे। जायतेऽनेनाकुञ्चनादि
जानु जरुजङ्घासंधिमण्डलम् । जानीत्याकारनिर्देशात् 'न जनवधः' इति प्रतिपिद्धापि वृद्धिर्भवति । रह त्यागे । रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीर ३४ वा राहुः सैहिकेयः । इणक् गतौ । एत्यायुः पुरुषः शकटम् औषधम् जीवनम् पुरुरतापुत्रो वा । जरायुः गर्भवेष्टनम् जलमलम् वा । जटायुः पक्षी | धनायुः देश।
इत्यादिसिद्ध्यर्थ सूत्रान्तर न प्रारेभे इति सशेपविधित्वम् ॥-नैगमेति । निगम आमायस्तत्र भव नेगमम् ॥-रुढिभवं होति । हि यस्मात् बाहुलकात् नैगमरूढिभव सुसाधु भवति शब्दजातम् ॥-नाम च धातुजमाहेति । न केवल पचेत्यादि पद धातुज नामापि धातुजमाह ॥-न पदार्थविशेषसमुत्थमिति । प्रकृत्यादिरिह पदार्थ उच्यते । पदमऽर्थ प्रयोजन यस्येति कृत्वा । स हि पदसिद्ध्यर्थमेवोपादीयते । पदार्थस्य विशेषस्तस्मात्समुत्तिष्ठति ' स्थापासान क ' । प्रकृतिप्रत्ययोपदर्शनेन यन्त्रोक्तमित्यर्थ ॥ ॥ इत्याचार्यः पञ्चमस्याध्यायस्य द्वितीय पाद सपूर्णः ॥