________________
इत्येवंशीलो दियुत । दिद्युतौ । दृणातीति ददृत् । ददृतौ । गच्छतीति जगत् । जुहोतीति जुहूः । एषु द्वित्वम् । दृणातिजुहोत्यो ईस्वत्वदीर्घत्वे च । वक्तीति वाक् । पृच्छतीति प्राद् । प्राशौ । शब्दमाद् | तत्त्वमाद् । दधाति ध्यायति वा धीः । श्रयतीति श्रीः । शतं द्रवतीति शतद्रः स्रवतीति स्रु । जवतीति ज्रः । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटमूः । परिव्रजतीति परिवाद् । परित्राजौ । एपु दीर्घत्वम् । दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः । बहुलाधिकारादशीलादौ अपि ।
। सुधीः । प्रधीः | आधीः । भ्राजादि, विभ्राजत इति विभ्राद् । विभ्राजौ । भासत इति भाः । भासौ भासः । पिपर्तीति पूः । पुरौ । पुरः । धूर्वी धूः । धुरौ । धुरः । विद्योतते विद्युत् । विद्युतौ । ऊर्जयतीति ऊ । ऊजौं । ऊर्जः । ग्रावाणं स्तौति ग्रावस्तुत् । ग्रावस्तुतौ । पचतीति पक् । शक्नोतीति शक् । भिनत्तीति भित् । वेत्तीति वित् । शोकच्छित् । ' भुवः संज्ञायामेव ' । भूः पृथिवी । शंभूः शिवः । आत्मभूः कामः । मनोभूः स एव । स्वयंभूर्ब्रह्मा । स्वभूर्विष्णुश्च । मित्रभूर्नाम कश्चित् । प्रतिभूः उत्तमर्णाधमर्णयोरन्तरस्थः । इन्भूः व्यसनसहाय । कारभूः पण्यमूल्यादिनिर्णेता । वर्षाभूर्ददुर औषधि । पुनर्भूः पुनरूढा औषधि संज्ञायाम् । अन्यत्र, भविता । शीलादिषु असरूपविधिर्नास्ति । तेन 'सामान्यलक्षणः किप् न मानोतीति पुनर्विधीयते । शीलादिप्रत्ययानां पूर्णोऽवधिः । केचित्तु संज्ञाशब्दानां शीलाद्यर्थेषु कामचारस्ते यथाकथंचिद्युत्पादनीया इति मन्यन्ते ॥ ८३ ॥ शंसंस्वयंविप्राद्भुवो डुः ॥ ५ । २ । ८४ ॥ एभ्यः परागुवः सर्थे वर्तमानाड्डु प्रत्ययो भवति । शं सुखं तत्र भवति शंभुः शंकरः । संभुर्जनिता । स्वयंभुः । विभुः व्यापकः । प्रभुः स्वामी । वहुलाधिकारात् शंभुः संज्ञायाम् । अन्ये त्वसंश्यामपि । मितावादयस्त्वौणादिका ॥ ८४ ॥ पुव इत्रो दैवते ॥ ५ । २ । ८५ ॥ सामान्यनिर्देशात्पवतेः पुनातेश्च दैवते देवतायां कर्तरि समर्थे इत्रः प्रत्ययो भवति । पुनाति पवते वा पवित्रोऽर्हन् स मां पुनातु । करणेऽप्यन्ये ॥ ८५ ॥ ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ॥ सत्यर्थे वर्तमानात्पुत्रः करणेो भवति ऋपौ संज्ञायां च । पूयतेऽनेनेति पवित्रोऽयमृषि' । नाम्नि दर्भः पवित्रः । वहिः पवित्रम् । यज्ञोपवीतं पवित्रम् ।" ओघोपकरणं पवित्रम् | पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषौ कर्तर्यपि केचित् ॥ ८६ ॥ लूधूखनचरसहार्तेः ॥ ५ । २ । ८७ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रो भवति । लुनात्यनेन लवित्रम् । धुवत्यनेन धुवित्रम् । धूनतोरपि कथित् । धवित्रम् । सुवत्यनेन सवित्रम् । निरनुवन्ध निर्देशात् धूग्मुङोर्न भवति । खनित्रम् । चरित्रम् । सहित्रम् । ऋच्छतीति वानेनारित्रम् । वहेरपि कश्चित् । वहित्रम् ॥ ८७ ॥ नीदावासू
| - जगदिति क्रियाशब्दोऽय तेन जगतौ जगत इति ॥ विष्टपवाचकस्तु गमेद्द्वेि चेति साधुस्तस्य च जगती जगन्तीति द्विवचनबहुवचने सति भवत ॥ - वाक् इति । निपातनात् कर्मण्यपि ॥ - पूरिति । पिपत्तति पृश् इत्यस्य धात्वन्तरेण वाक्य तच्चार्थकथनमेव । पुणातीत्येवशीला इति तु कार्यम् ॥ - शीलादिष्विति । ननु तृन्नादीना पक्षेऽसरूपत्वात् सामान्यकिषु भविष्यति किमनेनेत्याहअसरूपविधिर्नास्तीति ॥ - सामान्यलक्षणः क्विविति । भ्राजादिभ्य इति शेष । दिद्युदादयस्तु निपातनीया एवाऽनेन सूत्रेण तेषां किप् इत्यनेन सिद्ध्यभावात् ॥ ऋषिनाम्नोः ॥ -- ओघोपकरणमिति । वहति प्रापयति निरवद्यां सर्वसावद्यविरतिमिति अचि 'म्यकू' इति साधु । यहा उड् शब्दे जयते शब्यते उपादेयतया लोकोत्तरे मधाधेति घ
323