________________
श्री मश० ॥ १९ ॥
'भज्यते स्वयमेवेत्येवंशीलं भङ्गुरं काष्ठम् । भासते भासुरं वपुः । मेद्यति मेदते वा मेदुरः । घकारो गत्वार्थः ॥ ७४ ॥ वेत्तिछिदभिदः कित् ।। ६ । २ । ७६ ।। एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किद् घुरः प्रत्ययो भवति । वेत्तीसेवंशीलो विदुरः । छिद्यते भिद्यते स्वयमेव छिदुरः भिदुरः । कित्त्वाद्गुणो न भवति । वेतीति तिब्निर्देश इतरविदित्रयव्युदासार्थः ॥ ७५ ॥ भियो रुरुकलुकम् ॥ ५ । २ । ७६ ॥ शीलादौ सत्यर्थे वर्तमानाद्विमेते रुरुकलुक इति मत्पयत्रयं विद्भवति । विभेतत्येिवंशीलो भीरुः । भीरुकः । भीलुकः । ऋफिडादित्वात् लत्वं प्रयोगानुसारणाद्वरीय इति लाघवार्थ लुकवचनम् ॥ ७३ ॥ सृजीणनशरप् ॥ ५ ॥ २ ॥ ७७ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कितु द्वरप् प्रत्ययो भवति । सरतीत्येवंशीलः सत्वरः । सत्वरी । जिवरः । जित्वरी । इण् इत्वरः । इत्वरी | क्रूरकर्मणि पथिके नीचे दुर्विधे । नश्वरः । नश्वरी । टकारो ङयर्थः । पकारस्तागमार्थः ॥ ७७ ॥ गत्वरः ॥ ५ ॥ २ ॥ ७८ ॥ गमेटुप् मकारस्य च तकारो निपात्यते । गत्वरः । गत्वरी ॥ ७८ ॥ सभ्याजसहिंसदीपकम्पकमनमो रः ॥ ५ । २ । ७९ ॥ स्म्यादिभ्यः शीलादौ सवर्थे वर्तमानेभ्यो रः प्रयो भवति । स्मयत इत्येवंशीलं स्मेरं मुखम् । अजसिति 'जनूच मोक्षणे नञ्पूर्वः । न जस्पति अजस्रं श्रवणम् । अजस्रा प्रवृत्तिः । अजस्रः पाकः । अजस्रं पचति । अजस्त्रशब्दोऽय स्वभावात्सातत्यविशिष्टां क्रियामाह । तेन धात्वर्थ एव कर्तरि र प्रत्ययोऽन्यथा क्रियाभिधानानुपपत्तेः । तेनाजत्रो घट इति न भवति । अजलमि त्यव्ययमपि नित्यार्थ क्रियाविशेषणमस्ति । हिस हिस्रो व्याधः । दीप दीमो दीपः । कम्प् कम्प्रः । कम् कामयते कम्रा युवतिः। बहुलाधिकारात् कर्मण्यपि । कम्पते कम्रः । तत एव कमितेत्यपि । नम्, नमतीति नम्रः । अजसिकमिनमिभ्य कर्मकर्तर्येवेच्छन्त्येके ॥ ७९ ॥ तृषि षिस्वपो नजिङ् ॥ ५ । २ । ८० ॥ तृपिधूषिस्वषिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिङ् प्रत्ययो भवति । तृष्यतीत्येवं शीलस्तृष्णक् । तृष्णजौ । धृष्णक् । वृष्णों । स्वप्न । स्वमौ । ङकारो गुणप्रतिषेधार्थः । इकार उच्चारणार्थः । घृपो नेच्छन्त्येके ॥ ८० ॥ स्वेशभासपिसकसो वरः || ५ | २ | ८१ ॥ स्थादिभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो वरः प्रत्ययो भवति । तिष्ठतीत्येवंशीलः स्थावरः । स्थावरा । ईश्वरः । ईश्वरा । कथमीश्वरी । ' अश्वोरीचा ' इत्यौणादिके वरट भवति । भारः । भाear | पेस्वरः । पेस्वरा । विकearः । विकस्वरा । प्रमदेरपीति कचित् । प्रमाद्यति प्रमद्वरः ॥ ८१ ॥ `यायावरः ॥ ५। २ । ८२ ॥ यातेर्धातोः शीलादौ सत्यर्थे वर्तमानाद्यङन्ताव वर प्रत्ययो निपात्यते । कुटिलं यातीत्येवशीलो यायावरः ॥ ८२ ॥ *दिद्युद्ददृज्जगज्जुहू वाक्प्राद्धीश्री ब्रूसूज्वायतस्तूकट भूपरिव्राद्भाजादयः किपः ॥ ५ । २ । ८३ ॥ एते शब्दाः किवन्ताः शीलादौ सत्यर्थे निपात्यन्ते । द्योतते
घुरप्रत्ययस्य कर्त्तरि विधानादित्याह - भज्यते स्वयमेवेत्यादि । भासिमिदिविदां तु कर्त्तर्येव धुरोऽकर्मकत्वेन कम्मकर्तुरसभवात् ॥ स्म्यजस - ॥ जच् मोक्षणे इति । अन्येषामणिजन्ताना साहचर्यांचुरादिणिजन्तो न गृह्यते ॥ धात्वर्थ एव कर्त्तरीति । अन्यस्य धातोरर्थं इत्यर्थं । यथाऽजस. पाक इत्यत्र पचिधातो पाकलक्षणेऽर्थे ॥ यायावर - ॥ यायावरो गवर आचार्यो वा । तस्य च्छात्रा यायावरीया इति प्रसिद्धि ॥ यायावर इति । 'यो' ' इति यलुप् । योऽशिति' इति न व्यञ्जनादिव्यधिकारात् ॥ दिद्युत् – ||
पं