________________
पं० अ०
पाच यमयसः।।५।२२५२॥ शीलादौ सत्यर्थे वर्तमानाभ्यां पादाङश्च पराभ्यामाभ्यां घिनण् भवति । प्रयच्छतीत्येवंशीलः प्रयामी । आयामी । प्रयासी। आयासी ॥५२॥ मथलपः ॥२॥५३॥ प्रात्पराभ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् भवति । प्रमथतीत्येवंशीलः प्रमाथी । प्रलापी ॥५३॥ वेश्च द्रोः॥५॥ २०५४ । वेः प्राच पराच्छीलादौ सत्यर्थे वर्तमानाद् द्रवतेनिण भवति । विद्रवतीत्येवंशीलो विद्रावी । भद्रावी ॥ ५४॥ विपरिप्रात्सत्तेः ॥५।२।५५ ॥ विपरिप्रेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानात्सतेंघिनण् भवति । विसरतीत्येवंशीलो विसारी । परिसारी । प्रसारी ॥ ५५॥ समः पृचैपूज्वरेः॥५॥२॥५६॥ शीलादौ सत्यर्थे वर्तमानाभ्यां समः पराभ्यां पृणक्तिज्वरिभ्यां घिनण् भवति । संपृणक्तीत्येवंशीलः संपर्की । पिनिर्देशादादादिकस्य न ग्रहणम् । संपचिंता। संज्वरतीत्येवंशीलः संज्वारी । केचिद् ण्यन्तादपीच्छन्ति । संज्वरी । त्वरयतेरपि कश्चित् । संत्वरी । अकर्मकादित्येव । संपृणक्ति शाकम् ॥ ५६ ॥ संवेः सृजः ॥५।२। ५६ ॥ शीलादौ सत्यर्थे वर्तमानात् संविभ्यां परात्सजेपिनण् भवति । संसजतीत्येवंशील. संसृज्यते वा संसर्गी । विसर्गी ॥५७॥ संपरिव्यनुप्राददः॥ ५ ॥
२।५८॥ शीलादौ सत्यर्थे वर्तमानात्सपरिव्यनुप्रेभ्यः परादेषिनण भवति । संवदतीत्येवंशीलः संवादी । परिवादी। विवादी । अनुवादी । प्रबादी। परिपूर्वा| ण्यन्तादपीति केचित् ॥ ५८ ॥ वेर्विचकत्थसम्भूकषकसलसहनः ॥ ५ । २। ५९ ॥ एभ्यो विपूर्वेभ्य शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् भवति । विविनक्ति इत्येवंशीलो विवेकी । विकत्थी । विस्रम्भी। विकापी । विकासी। विलासी । विघाती ॥ १९ ॥ व्यपाभेलपः॥ ५। २ । ६० ॥ व्यपाभिभ्य पराच्छीलादौ सत्यर्थे वर्तमानाल्लर्घिनण् भवति । विलपतीत्येवंशीलो विलापी । अपलापी । अभिलापी ॥ ६०॥ संप्रादसात् ॥ ५। २ । ६१ ॥ संमाभ्या पराच्छीलादौ सत्यर्थे वर्तमानाद्वसतेर्षिनण् भवति । संवसतीत्येवंशील संवासी । प्रवासी । शनिर्देशाइस्तेनं भवति ॥ ६१॥ समत्यपाभिव्यभेश्चरः ॥ ५ । २।६२ ॥ सम् अति अप अभि व्यभि इत्येतेभ्य पराच्छीलादौ सत्यर्थे वर्तमानाचरेपिनण् भवति । संचरतीत्येवंशीलः संचारी । अतिचारी । अपचारी । अभिचारी । व्यभिचारी ॥ ६२ ॥ समनुव्यवाद्रुधः ॥५।२।६३ ॥ सम् अनु वि अब इत्येभ्य पराच्छोलादौ सत्य वर्तमानात् रुधेधिनण भवति । संरुन्धे इयेवंशीलः संरोधी । अनुरोधी। विरोधी । अवरोधी ॥६३ ॥ वेदहः ॥६।२ । ६४॥ विपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद् दहेपिनण भवति । विदहतीत्येवंशीलो विदाही ॥ ६४॥ परेदेविमुहश्च ॥५॥२॥ ६॥ देवीति देवधातोरण्यन्तस्य ण्यन्तस्य च ग्रहणम् । परिपूर्वाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यामाभ्यां दहश्च घिनण् भवति । परिदेवयते परिदेवयति वा परिदेवी । ण्यन्तान्नेच्छन्त्यन्ये । परिमोही । परिदाही ॥६५॥ क्षिपरदः ॥५॥२॥६६॥ परिपूर्वाभवतीत्याह-शीलादिप्रत्ययान्ता इत्यादि । शीलधर्मसाधुपु अर्थेषु ये प्रत्ययास्तदन्ता इमे प्रायेण रूढिशब्दप्रकारा यथा रुढिशब्मा रूढिविषय एव प्रवर्तन्ते तन च नियतरूपास्तथा इमेऽपि ये यथा प्रयोगे दरयन्ते यद्यदुपसर्गा सोपसर्गा अनुपसर्गा या ते तथैव प्रयोगानुसारेण प्रयोक्तव्या । तबाहे-कामु इति अनुपसर्ग एवं प्रयुज्यते न सोपसर्ग । एवमागामुक इति आटुपसंगपूर्व एव न त्वनुपसर्गोऽन्योपसर्गपूर्वो वा इत्येवमन्यदपि द्रष्टव्यमिति नोपसर्गान्तराधिये भवति ॥-पाच यम-॥ यथासख्य ययभिप्रेत स्पातठा प्राइ इति क्रियेत ।। --परेवि-॥-देवधातोरिति ।
॥१८॥