________________
be
यावत । अन्ये त्वकर्मकादेवेति नेच्छन्ति ॥४४॥ 'न णित्यसददीपदीक्षः ॥५॥२॥ ४५ ॥ णिङन्तेभ्यो यान्तेभ्यः सूदादिभ्यश्च धातुभ्यः शीलादौ सत्यर्थेऽनः प्रत्ययो न भवति । भावयिता । हस्तायता । उत्पुच्छयिता । क्ष्मायिता । क्यूयिता । दायता । सूदिता । दीपिता । दीक्षिता । मधुसूदनारिसूदनवलमूदनादयो नन्यादिपु द्रष्टव्याः ॥४५॥ *द्रमक्रमो यङः॥दारा४६॥ *शीलादौ सत्यर्थे वर्तमानाभ्यां यङन्ताभ्यां द्रमिक्रमिभ्यामनः प्रत्ययो भवति । कुटिलं द्रमति क्रामतीत्येवंशीला दन्द्रमणः । चक्रमणः । सकर्मकार्थ वचनम् य इति प्रतिपेधनिवृत्त्यर्थ च । * 'अतः' (४-३-८२) इति हि लुक् प्रत्यये *विषयभूतेऽपि भवति ॥४६॥ यजिजपिदंशिवदादकः॥५।२।४७ । एभ्यो यङन्तेभ्यः शीलादो सत्यर्थे वर्तमानेभ्य ऊकः प्रत्ययो भवति । भ्रशं पुनःपुनर्वा यजतीत्येवंशीलो यायजूकः। जंजपूकः । दन्दशूकः । वावदकः । अन्येभ्योऽपीति केचित् । दंदहूकः । पापयूकः । निजागदूकः । नानशूकः । पंपशूकः ॥ ४७ ॥ जागुः ॥५॥२॥४८॥ शीलादौ सत्यर्थे वर्तमानाज्जागर्नेस्कः प्रत्ययो भवति । “यङ इति निवृत्तम् । जागतीत्येवंगीलो जागरूकः ॥ ४८ ॥ शमष्टकाद् घिनण् ॥ ५।२।४९॥ शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययो भवति । शाम्यतीत्येवंशीलः शमी। दमी । तमी । श्रमी । भ्रमी । क्षमी । प्रमादी । उन्मादी ।। लमी । वजन्तान्मत्वर्थीयेन सिध्यवि तन्वाधनार्थ तु वचनम् । अष्टकादिति किम् । असिता । गकारो वृद्ध्यर्थः। धकार उत्तरत्र कत्वगत्वार्थः। अभिधानात् घिनण अकर्मकेभ्यस्तैनेह न भवति । अरण्यं भ्रमिता । सकर्मकेभ्यस्तु यथादर्शनं दयिष्यामः ॥ ४९ ॥ युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः ॥ ५ । २ । ५०॥ एभ्यः शीलादौ सवर्थे वर्तमानेभ्यो घिनण् भवति । युज्यते युनक्ति वा इसेवंशीलो योगी । भुते भुनक्ति भुजतीति वा भोगी । भागी। कल्याणभागी। त्यागी । पाणयागी । रागी । 'अविनोश्च रजेः' (४-२-६०) इति नलोपः । देषी । दोपी । द्रोही । दोही । अभ्याघाती । अकर्मकादित्येव । गां दोग्धा । शत्रूनभ्यान्ता ॥ ५० ॥ आङ: क्रीडमुपः ॥ ५॥२॥५१॥ शीलादौ सत्यर्थे वर्तमानाभ्यामाङः पराभ्यामाभ्यां घिनण भवति । आक्रीडत इत्येवंशील आक्रीडी | आमोपी । शीलादिप्रत्ययान्ताः प्रायेण रूढिमकारा यथादर्शनं प्रयुज्यन्त इति उपसर्गान्तराधिक्ये न भवति । एवमुत्तरत्रापि ॥५१॥ दृष्टव्य । ननु तथापि सन्नन्तत्वात् 'सभिक्ष'-इत्यादिना उ प्रत्यय प्राप्नोति । नैवम् । विपवव्याख्यानात् । यद्यकारलोपेऽपि उ प्रत्ययस्तढा विपयव्याख्याफल न ॥-न णिज्य॥-भावयितेति । अनानेकस्वरत्वात् णकविषये णिलोपात् व्यञ्जनान्तत्वात् अन प्राप्त प्रतिपिध्यते । तत इटि सति ‘णेरनिटि' इत्युक्ते पुनर्विवत्तते । एवं हस्तयितेत्यादी भावना
॥-द्रमक्रमो-|-सकर्मकार्थमिति । 'इटित' इत्यनेन तु अकर्मकाद्विहित ॥-प्रतिपेधनिवृत्यर्थीमति । ननु यदि सकर्मकार्थमारम्भस्तदा न विधेय । यतोऽविवक्षितकर्मकाभ्यामाझ्याम् } 'इदिल ' इत्यनेन भविण्यतीत्याह ॥-य इतीति । ननु यहोऽकारान्तत्वात् कथ यान्तत्वमित्याह-अत इतीति ।-विषयभूतेऽपीति । अनेकस्वरत्वाण्णकस्य ॥
॥-जागुः ॥-यट इति निवृत्तमिति । अनेफस्वरत्वेनासभवात् ॥-आङः क्रीडमुपः ॥-शीलादिप्रत्ययान्ता इति । ननु पूर्वे आड्यमाड्यसाङ्मुपाक्रीडेति पठित्वा घिनणमाहुस्तेपा विशिष्टस्वरूपोपादानान् नोपसर्गान्तराधिक्ये भवति । इह तु आइ पराभ्यामित्युच्यमाने उपात्तोपसगात्पूर्वमन्यस्मिन्नुपसर्गे सत्यपि व्यवधानाभावात् तत परत्वस्य सभवादुपसर्गान्तराधिक्येऽपि
aasaasasraesed