________________
कामुका येच्छां विना कामयते । कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः। आगामुकः स्वगृहम् । घातुकः । आघातुको व्याधः । वर्षकः प्रवर्षकः पर्जन्यः । ३० अ० भावुकः । प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः । उपस्थायुको गुरुम् । गुणानधिष्ठायुकः ॥ ४० ॥ लषपतपदः ॥५॥२॥४१॥ शीलादौ सवर्थे वर्तमानेभ्य एभ्य उकण् मृत्ययो भवति । अपलपतीत्येवंशीलमपलापुकं नीचसांगत्यम् । अभिलाएकः । उत्पातुकं ज्योतिः । प्रपातुका गर्भाः। उपपादुका देवाः । योगविभाग उत्तरार्थः ॥४१॥ *भूषाकोधार्थजसगधिज्वलशुचश्चानः ॥५॥२॥४२॥ भूपार्थेभ्यः क्रोधार्थेभ्यो जुमुधिज्वलशुचिभ्यः लपपतपदिभ्यश्च शालादा सत्यर्थ वर्तमानेभ्योऽनः प्रत्ययो भवति । भूपार्थे, भूपयतीत्येवंशीलो भूषणः कुलस्य । मण्डना गगनस्य भाः । प्रसाधनः । क्रोधार्थे, क्रोधनः । कांपनः । रोपणः । जवतिः सीत्रो वेगाख्ये संस्कारे वर्तते । तेन चल्पद्वारेण न सिध्यतीतीहोपादानम् । जवनः । र, सरणः । गृधू , गर्धनः । ज्वर ज्वलनः। शुच, शोचनः । लप् , अभिलपणः । पत, पतनः । पदेरिदित्त्वादुचरेणैव सिद्धे सकर्मकार्य वचनम् । अर्थस्य पदनः । ग्रन्थस्य पदनः। पदनः क्षेत्राणाम् । उत्तरत्र सकर्मकेभ्योपि विधिरित्येकेषां दर्शनम् । तथा चोकणा वाधितोऽपि असरूपत्वात्पदेरनः प्रत्यत्यो भनिष्यतीति चेत् एवं तर्हि शीलादिप्रत्ययेष्वसरूपत्वेन शीलादिनखयो न भवतीति ज्ञापनार्थ पदिग्रहणम् । तेन चिकीर्षिता कटम अलंकर्ता कन्यामिति न भवति । कथं तर्हि गन्ता खेलः आगामुकः भविता भावुकः जागरिता
जागरूकः विकत्थनः विकत्थी भासनं भासुरम् वर्धनः वर्धिष्णुः अपलापुकः अपलापी कम्पना कम्पा शाखा कमना कामुका युपतिः । कचित्समावेशोऽपि भवति । S: एतदथेमेव च न ण्यादि । (५-२-४५ ) सूत्रे दीपिग्रहणम् । अन्यथा रेणानोऽस्य वाव्येत इति तदनर्थकं स्यात् । अनस्यैव विपये समावेश इत्येकं ॥ ४२ ॥
चलशब्दाथोंदकर्मकात् ॥५॥२॥४३॥ चलनार्थाच्छब्दार्थाच धातोः शीलादौ सत्ययें वर्तमानादकर्मकादविद्यमानकर्मकादविवक्षितकर्भकादा परोऽनः प्रत्ययो भवति । चलतीत्येवंशीलश्चलनः । कम्पनः । चोपन । चेष्टनः। शब्दयतीत्येवंशोल: शब्दनः। लणः। आक्रोशनः। अकर्मकादिति किम् । पठिता विद्याम् ॥ ४३ ॥ इडितो व्यज्जनाद्यन्तात् ॥५॥२॥४४॥ व्यञ्जनमादिरन्तश्च यस्य स व्यञ्जनाद्यन्तः । इदनुबन्धात् अनुवन्धाच व्यञ्जनायन्ताद्धातो: शीलादो सत्यर्थे वर्तमानादनः प्रत्ययो भवति । इदित सर्धि स्पर्धन । डिल वृत वर्तनः । वृधड वर्धनः । रतश्च विपण एव लोपे व्यञ्जनान्तत्वात् इहापि भवति । चिनिण चेतनः । गुपि 'जुगुप्सनः । मानि मीमांसनः । इडित इति किम् । स्वप्ता । व्यञ्जनायन्तादिति किम् । एधिता। शयिता। अकमेकादित्येव । बसिता वसं, सेविता विषयान् । कथमुत्कण्ठावर्धनैरिति । नात्र कर्मपठीसमासो वृधेरकर्मकत्वात । किंतु तृतीयासमासः । उत्कण्ठया वर्धनैः वर्धमानोत्कण्ठाशीलैरिति ॥-कामुका अन्यस्येति । 'शकमेएकस्य' इत्यग कमिवर्जनाना पष्ठीनिषेध ॥-भूपाकोधार्थ-1-वेगाख्ये इति । स्थितिस्थापकभावनादिभेदाविधा सरकार । वेगाख्यस्तु चलनस्य हेतुरेव न तु चलनमित्यर्थ ॥-अपलापुक इति । निरुपसर्गस्य उकणचरितार्थत्वमतो न समानविषयता ॥-इडितो-॥-इहापि भवतीति । अन्यथाऽनेकस्वरात् 'निन्दहिस'-इति णक स्यात् ॥-जुगुप्सन इति । नन्वयाकारस्य विषयेऽपि लोपे सनन्तस्य द्वित्वाभावादनो न प्रायोति । न । अत्र गुपे स्वार्थ एव सन् ततश गुपिलक्षणेऽपयो कृत लिक समुदायस्यापि विशेषकमिति न्यायात गुपिरेव
॥१७॥