________________
म्लादिभ्यः केचिदेवेच्छन्ति ॥ ३१ ॥ त्रसिधिघृषिक्षिषः क्तुः ॥ ५ । २ । ३२ ॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यः क्तुः प्रत्ययो भवति । त्रस्तुः । गृध्नुः । धृष्णुः । क्षिष्णुः ॥ ३२ ॥ सन्भिक्षाशंसेरुः ॥ ५ । २ । ३३ ॥ शीलादौ सत्यर्थे वर्तमानात् + सनप्रत्ययान्ताद्धातोर्भिक्षाशंसिभ्यां च पर उः प्रत्ययो भवति । चिकीर्षुः। जिहीर्षुः। भिक्षुः। आशंसिति आङः शमुङ् इच्छायामित्यस्य ग्रहणम् । न तु शंस स्तुतौ चेत्यस्य । तत्राङ्योगस्यानियतत्वात् । आशंसुः । स्तुत्यर्थस्यापीच्छसन्यः ॥ ३३ ॥ विन्द्विच्छू || ५ | २ | ३४ ॥ शीलादौ सत्यर्थे वर्तमानाद्वेतोरेच्छतेश्व उः प्रत्ययो यथासंख्यं नोपान्त्यछकारान्वादेशौ च निपात्यन्ते । वेदनशीलो विन्दुः । एपणशील इच्छुः । कथमपां विन्दुः । विन्देरवयवार्थात् औणादिक उः । अन्ये त्वस्यैव निपातनं क्रियानिमित्तस्तु विन्दुरित्यनागमिक एवेत्याहुः । सर्वविदीनां सर्वेषीणां च निपातनमिदमित्यन्यः ||३४|| वन्देरारुः || ५ | २|३५|| शीलादौ सत्यर्थे वर्तमानाभ्यां शृश्वन्दिभ्यामारुः प्रत्ययो भवति । शृणातीत्येवंशील शरारुः । विशीर्यते विशरारुः । वन्दते वन्दारुः ॥ ३५॥ दासिशदसदो रुः || ५ | २ | ३६ || शीलादौ सयर्थे वर्तमानेभ्यो दारू पट्टे सि शद सद इत्येतेभ्यो रुः प्रत्ययो भवति । ददाति दयते यच्छति यति दाति दायति वेत्येवंशीलो दारुः । कथं द्यति तदिति दारु काष्ठम् । औणादिकः कर्मणि रुः । धयति धारुर्वत्सो मातरम् । सिनोति सेरुः । शीयते शत्रुः । सीदति सद्गुः । एभ्य इति किम् । दूधातीत्येवंशीलो दधिर्गाः । ग्रहणाद्दारूपमिह गृह्यते न संज्ञा ॥ ३६ ॥ शीश्रद्धानिद्रातन्द्रादधिपतिगृहिस्टहेरालुः ॥ ५ । २ । ३७ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य आलुः प्रत्ययो भवति । शेते इसे वंशीलः शयालुः । श्रत्पूर्वी धाग् श्रद्धत्ते श्रद्धालुः । निद्राति निद्रायति वा निद्रालुः । तत् द्राति द्रायति वा तन्द्रालुः । निपातनात्चदो दस्य नः । तन्द्रेति सौत्रो वा । दयते दयालुः । पतिगृहिस्पृहयोऽदन्ताश्रौरादिकाः । पतिगृही सौत्राविकारान्तौ वा । पतयति पतयालुः । गृहयति गृह्यालुः । स्पृहयति स्पृहयालुः । मृगयतेरपि कश्चित् । मृगयालुः । लज्जालुः ईर्ष्यालुः शलालुप्रभृतयस्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्तौ ॥ ३७ ॥ ङौ सासहिवावहिचाचलिपापति ॥ ५ । २ । ३८ ॥ शीलादौ सत्यर्थे वर्तमानानां सहिवहिचलिपतीनां यङन्तानां ङौ सति यथासंख्यमेते निपात्यन्ते । अत एव वचनात् ङिरपि । सासह्यते इत्येवंशीलः सासहिः । वावह्यते वावहिः । चाचल्यते चाचलिः । पनीपत्यते पापतिः । निपातनात् न्यागमाभावः । ङाविति उकारः ' तुन्तुदन्ताव्ययकस्वान - - (२-२-९० इत्यत्र विशेषणार्थः ॥ ३८ ॥ सस्त्रिचक्रिधिजज्ञिनेमि ॥ ५ । २ । ३९ ॥ एते शीलादौ सत्यर्थे कृतद्विर्वचना डिप्रत्ययान्ता निपात्यन्ते । सरतीत्येवंशीलः सस्रिः। करोति चक्रिः । दधाति दधिः। जायते जानाति वा जज्ञिः। नमति नेमिः । द्विर्वचनाभाव एत्वं च निपातनात् ॥ ३९॥ *कमगमहनवृषभूस्थ उकण् ॥ ५ । २ । ४९ ॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण् प्रत्ययो भवति । शृणातीत्येवंशीलः शारुकः । प्रशारुकः शरः । कामुकः । कामुकी रिरंसुः । ॥ सन्भिक्षा- ॥ गर्गादौ जिगीपुशब्द पाठात्सन्निति सन्प्रत्ययान्तस्य ग्रह । न भिक्षादिसाहचर्यात् सनतिसनोत्यर्द्धात्वो प्रत्ययाप्रत्ययमोरिति न्यायाद्वा इत्याह- सन्प्रत्ययान्तादिति ॥ गृकमगम