________________
उन्याद्यर्थः ॥ २० ॥ तौ माङयाक्रोशेषु ॥ ५ । २ । २१ ॥ माङयुपपदे आक्रोशे गम्यमाने सति तो शत्रानशौ प्रत्ययौ भवतः। 'बहवचनादसत्यपि । मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः । मा जीवन्यः परावज्ञादुःखदग्धोऽपि जीवति ॥ तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥१॥ शत्रानशोरनुवृत्तावपि तौ ग्रहणमवधारणार्थम् । तेनात्र विषये असरूपविधिनाप्ययतनी न भवति । भवतीत्यपि कश्चित् ॥ २१ ॥
वा वेत्तेः कसुः॥५॥२॥ २२ ॥ सत्यर्थे वर्तमानाद्वेत्तेः कसुप्रत्ययो वा भवति । पक्षे यथामाप्तम् । विद्वान् । साधुस्तत्वं विद्वान् विदन् वेति । विदुपा कृतं, विदता कृतम् । हे विद्वन् । हे विदन् । वैदुषः। वैदतः । विद्वद्भक्तिः। विदद्भक्तिः । विद्वानास्ते । विदन्नास्ते । विद्वालेलभते । विदलेलभते । द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्वयादेव न वर्तमाना । ककारः 'किकार्याद्यर्थः । उकारो ड्याद्यर्थः ॥ २२ ॥ “पूड्यजः शानः ॥५॥२॥ २३ ॥ सत्यर्थे वर्तमानाभ्यां पवतियजिभ्यां परः शानः प्रत्ययो भवति । कृत्त्वात् कतरि । पयते । पवमानः । मलयं पवमानः। यजति यजते वा यजमानः। आनशा योगे न पष्ठीसमासो न च यजेरफलवति कर्तरि सोऽस्तीति वचनम् । एवमुत्तरत्रापि । शकारः शिकार्यार्थः ॥ २३ ।। वयाशक्तिशीले ॥५॥२॥ २४ ॥ सत्यर्थे वर्तमानाद्धातोर्वयःशक्तिशीलेषु गम्यमानेषु शानो भवति । वयः प्राणिनां कालकृता बाल्यावस्था । कतीह शिखण्डं वहमानाः । लियं गच्छमानाः । शक्ति सामर्थ्य, कतीह हस्तिनं निनानाः । समश्नानाः । शीलं स्वभाव । कतीहात्मानं वर्णयमाना । परान्निन्दमानाः । अनभिधानान्न बाऽसरूप शतः॥२४॥ ·धारीडोऽकृच्छेऽतृश् ॥५।२।२५॥ लक्षणभावो विवक्षित । क्रमेण हि प्रतीयमानयोरर्थयोलक्ष्यलक्षणभाव स्वाजन्यजनकभावो वा । अत्र तु तुल्यकालतैव क्रिययोरऽत एव तद्योतको चशब्दो प्रयुज्यते इति । स मैन्न इत्युभयन सवध्यते इति द्रव्यलक्षणे न भवति क्रियालक्षणेऽपि न भवति । तवाहि-कुत्रापि एकस्मिन् प्रमातरि पचनपठनयोलक्ष्यलक्षणभावो येन गृहीत स एव प्रवीति व पचति च स पठति च । एव पचनक्रिया लक्षण पठनक्रिया लक्ष्या । चादियोगाऽभावे तु शत्रानशौ भवत एव । यथा पचन् पचमानो वा स पठति ॥-तो माङया--बहुवचनादसत्यपीति । तेन ये केचित्सत्यसति वा आक्रोशास्तेषु शत्रानो भवत इति व्याख्येयम् ॥-मा पचन् वृपल इत्यादि । मा पाक्षीत् मा पक्त मा जीवी दिल्यादि वाक्यमऽर्थकथनम् । यावता आक्रोशविवक्षायामनेन शत्रानशावेव । असरूपविधिनाप्यनायतनी नेटा । केचिद सरूपविधिमिच्छन्ति तन्मतेन या वाक्यम् । यहा मा केदयमान मा प्राणान् धारयति यन्तरेग या वाक्यम् ॥-वा वेत्तेः- 'असरूपोऽपवादेन'-इत्यनेन 16 विकल्पे सिद्दे वाग्रहणमन्त्र प्रकरणे असरूपविधेर्लक्ष्यानुरोधार्थम् । अत एव 'वय शक्ति'-इत्यत्रानभिधानान्न वाऽपरुप शतृरित्युक्तम् ॥-फित्कायाद्यर्थ इति । आदिपदात् 'शृगुदन्त'-इत्यादि ॥-पूज्यजः-॥-मलय पवमान इति । 'तृनुदन्त '-इत्यनेन आनहारा कर्मपष्ठीनिषेधे मलयस्य सबन्धी पवमान इति सवन्यपष्ठीसमास । मनु पूट आत्मनेपदित्वात् यथेरप्युभयपदित्वात् फलवकर्तरि 'शबानशो'-इत्यनेनैव वानश् सिद्ध किमनेनेत्याह-आनशा योगे न पष्ठीसमास' । तृप्ताति निषेधात् ।-धारीडो-॥ इइ इत्यात्मनेपदित्वात्कलवररुरि धारेच सामान्यसूत्रेण शतून प्राप्नोतीति सूत्र कर्त्तव्यम् । तथापि प्रत्ययान्तर मा विधायि शतरेव विधीयता सूत्रसामथ्यादिड आत्मनेपदिनोऽपि भविष्यति । नेवम् । इड आत्मनेपदिस्वेऽपि विधानसामात् शत् स्यात् धारेस्तु फलवाकर्तरि अकृच्छ एवार्थे शतरिति नियमार्थ स्यात् । यहा धारीत्युभयपदी ततश्च ययुभयपविनामकृच्छ्रे शतृ स्यात् तदा धारेरेवेति नियम स्यात् ॥
NANABAR