________________
जीर्थतेर्भूतार्थवृत्तेरतुमत्ययो भवति । जीर्यति स्म जरन् । जरती । असरूपत्वात् जीर्ण: जीर्णवान् । ऋकारो दीर्घत्वप्रतिषेधार्थः ॥ १७३ ॥ क्तक्तवतू ||५|२| १७४|| धातोर्भूतेऽर्थे वर्तमानात् क्तक्तवतू मसयौ भवतः । क्रियते स्म कृतः । करोति स्म कृतवान् । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः । अत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात्तस्य च निर्वृत्तत्वाद्भूत एव धात्वर्थ इसादिकर्मण्यप्यनेनैव क्तक्तवतू सिद्धौ ॥ १७४ ॥ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ ॥ अगणित पञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् ॥ रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १ ॥
11
11
11
॥
11
॥ द्वितीयः पादः ॥
'श्रुसद्वस्भ्यः परोक्षा वा ॥५|२||| भूत इति अनुवर्तते । शृणोत्यादिभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षा विभक्तिर्वा भवति । उपश्राव । उपसमाद । अनूवास । वावचनात् "यथास्वकालमद्यतनी ह्यस्तनी च । उपाथौपीत् । उपाशृणोत् । उपासदत् । उपासीदत् । अन्ववात्सीत् । अन्ववसत् । एवं शुश्रुवे अभावि अश्रूयतेत्यादि । अन्ये तु श्रवादिभ्यो भूतमात्रे कसुमेवेच्छन्ति न परोक्षाम् । ह्यस्तनीमपीच्छत्यन्य । बहुवचनं व्याप्यर्थम् । तेन भूतानद्यतनेऽपीयं ह्यस्तन्या न वाध्यते । असरूपत्वादेवाद्यतन्यादिसिद्धौ वावचनं विभक्तिष्वसरूपोत्सर्गविभक्तिसमावेश निषेधार्थम् ॥ १ ॥ तत्र कसुकानो तहत् ॥ ५ । २ । २ ॥ तत्र परोक्षामात्रविषये धातोः परौ कसुकानौ प्रत्ययौ भवतः तौ च परोक्षावद् व्यपदिश्येते । तत्र कतुः परस्मैपदत्वात् कर्तरि । कानस्त्वात्मनेपदत्वाद्भावकर्मणोरपि । शुश्रुवान् । उपशुश्रुवान् । सेदिवान् । उपसेदिवान् । प्रसेदिवान् । आसेदिवान् । निपेदिवान् । ऊपिवान् । अनूपिवान् । अध्यूपिवान् । पेचित्रान् । पाचयांचलवान् । जग्मिवान् । पपिवान् । पेचानः । चक्राणः । परोक्षावद्भावात् द्विर्वचनादि । परोक्षावद्भावादेव कित्त्वे सिद्धे किकरणं संयोगान्तधात्वर्थम् । तेनाजिवान् । वभज्यान् । सस्वजानः । एषु कित्त्वात् नलोपः । ऋदन्तानां गुणप्रतिषेधार्थ च । शिशीर्वान् । तितीर्वान् । पुपूर्वान् । कर्मणि, शशिराणः । ततिराणः । पपुराणः । बहुलाधिकारात् श्रुतदवसि
शासनवृत्ते पञ्चमाध्यायस्य न्यासत प्रथम पाद समाप्त ॥ ॥ - श्रुसद्वस्भ्यः ॥ - यथास्वकालमिति । स्वकालस्यानतिक्रमेण । तथा asयतनेऽद्यतनो अनद्यतने तु ह्यस्तनी ॥ ह्यस्तनीमपीच्छत्यन्य इति । न केवल भूतमात्रे परोक्षां यस्तनीमपीत्यर्थ ॥ - विभक्तिष्विति । तेन विभक्तीनामेवान्योन्यमसरूपविधिर्नास्ति प्रत्ययेन तु विभक्तीनामस्त्येव तेनोपश्रुतवानित्यादि सिद्धम् ॥ - निषेधार्थमिति । तेन 'अयदि ' - इति सूत्रे वर्त्यन्तीविपये ह्यस्तनी न ॥ - तत्र क्कसु - ॥ - नलोप इति । अन्यथा ' इन्ध्यसयोगात् ' - इत्यसयोगान्तादेव किरवेऽत्र नलोपो न