________________
Deser
ब्रह्मादिभ्यः कर्मभ्यः परामृतेऽर्थे वर्तमानाद्धन्तेः किम् प्रत्ययो भवति । ब्रह्माणं हतवान् ब्रह्महा । भ्रूणहा । वहा । 'कि' (५-१-१४८) इत्यनेनैव सिद्धे नियमार्थं वचनम् । चतुर्विधश्चात्र नियमः । ब्रह्मादिभ्य एवं हन्तेभूते किप् नान्यस्मात् । पुरुष हतवान् पुरुपघातः । मधुहा अहिहा गोत्रहा हिमहा तमोपहा असुरहा आखुहा इत्यादिषु वर्तमानभविष्यतोः कालमात्रे वा 'किप (६-१-१४८ ) इत्यनेनैव किम् । तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद्धातोः किम् । ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव न तु किप् । ब्रह्मविदादयस्तु भूताविवक्षायाम् । तथा ब्रह्मादिभ्यो हन्तेर्भूते किवेव नान्यः प्रत्ययः । ब्रह्माणं हतवान् ब्रह्महा इति किबेव । भवति नाणिनौ । ब्रह्मनादयस्तु कालसामान्येन 'ब्रह्मादिभ्यः'-(५-३-८५) इति टक्मत्यये साधवः । कथं वृत्रस्य इन्तुः कुलिशमिति । केवलादेव हन्तेस्तुच् पश्चात्रेण संवन्धः। 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति किपाऽणादिरेव वाव्यते न क्तक्तवत् । तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले कि नान्यस्मिन् । ब्रह्माणं हन्ति हनिष्यति वा ब्रह्मधात इत्यणेव । तदेतत्सर्वं बहुलाधिकाराल्लभ्यते ॥१६१॥ कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥५॥१॥१६२॥ सुशब्दात्पुण्यादिभ्यश्च कर्मभ्यः परात्करोते तेऽर्थे वर्तमानात् किम् भवति । सुष्ठ कृतवान् सुकृत । पुण्यं कृतवान् पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । इदमपि
नियमार्थ वचनम् । त्रिविधश्चात्र नियमः । एभ्यः कृग एव भूते किप नान्यस्माद्धातोः । मन्त्रमधीतवान् मन्वाध्याय 'इत्यणक्ता एव भवन्ति न किए । मन्त्रवित् ११३ पापनुत इत्यादौ तु भूताविवक्षायां किम् । तथा एभ्यः कृगो भूत एव किए । इह न भवति । कर्म करोति करिष्यति वा कमकारः मन्त्रकारः । पदकारः। तथा
एभ्यः परात्कृयो भूते किवेव नान्यः प्रत्ययः। तेन कर्मकृतवान् कर्मकार इति न भवति । एभ्य एव भूते कृगः किविति धातुनियमो नेप्यते । तेन शास्त्रकृत् तीर्थकुत् वृत्तिकृत सूत्रकृत् भाप्यवृदित्यादयः सिद्धाः॥१६२॥सोमात्सुगः।।५।१।१६३।।कर्मणः परात् सुनोते तेऽर्थे वर्तमानात् कि भवति । सोमं सुतवान् सोमसुत् । अयमपि नियमाओं योगः। चतुर्विधश्चात्रापि नियमः । सोमादेवेति नियमात् सुरां सुतवान् सुरासाव इसण् । सुरासुदिति भूताविवक्षायाम् । सुग एवेति नियमात् सोमं पीतवान् सोमपा इति विच । भूत एवेति नियमात सोमं सुनोति सोष्यति वा सोमसाव इत्यण् । किवेवेति नियमात् सोमं सुतवान् इत्यण न भवति ॥ १६३ ॥ अग्नश्चः ॥५॥१॥ १६४ ॥ अग्नेः कर्मणः पराचिनोभूतऽर्थे वर्तमानात् किम् भवति । अग्निं चितवान् अग्निचित । अत्रापि चतुर्विधो नियमः । अग्नेखोत नियमात् कुड्यं चितवान् कुड्यचाय इत्यण् । चेरेवेति नियमादग्नि कृतवानग्निकार । भूत एवेति नियमादग्नि चिनोति चेष्यति वाग्निचायः । किवेवेति नियमादग्नि चितवानियण न भवति ॥ १६४॥ कर्मण्यग्न्यर्थे ॥५।१।१६५ ॥ कर्मणः पराद्भतेऽर्थे वर्तमानचिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये किए भवति । श्येन इव चीयते स्म श्येनचित् । एवं कङ्कचित् । रथचक्रचित् । अग्न्यर्थ इष्टकचय उच्यते । बहुलाधिकारादिविषय एवायं द्रष्टव्य । कोचत्तु संज्ञाशब्दत्वात् ॥-कालमात्रे वा कियिति । कया रीत्या मधोर्हन्ता कोऽर्थ । मधुहननयोग्य काल इति वाक्ये विपि मधुहेत्यादि ।-ब्रह्मघात इति । 'प्रमादिभ्य' इति टक्प्रसङ्गेऽपि बहुलमण् । -कृग सुपुण्य-1-इत्यणक्ता एवेति । अण् च तो चाणक्ता क्तवतुर्दर्शित एव क्तप्रत्ययस्तु आरम्भे व क स एव गृह्यते । अन्यस्य भावकर्मणोविंधानात् । 'गत्यर्थ '-इत्यस्य तु सकर्मकत्वादप्राप्ति
AnnAmAnanRAPARAAAAAAAApronunmann-manna