________________
॥११॥
श्रीहेमश || भोक्ता । प्रभोक्ता उपभोक्ता संभोक्तेति बहुलाधिकारान्न भवति । शील इति किम् । उष्णभोज आतुरः ॥ १५४ ॥ साधौ ॥ ५।१।१५५ ॥ नाम्नः परात्सा- १६
धावर्थे वर्तमानादातोणिन् प्रत्ययो भवति ।अशीलार्थ आरम्भः । साधु करोति साधुकारी । साधुदायी। चारुनी । सुष्टुगामी । बहुलाधिकारात साधु वादयति वादको वीणाम् साधु गायतीत्यादौ न भवति ॥ १५५ ॥ "ब्रह्मणो वदः ॥५॥१॥ १५६ ॥ ब्रह्मन् शब्दात्पराद्वदणिन् प्रययो भवति । ब्रह्म ब्रह्माणं वा वदति व्रमवादी । अयमप्यशीलार्थ आरम्भः जात्यर्थोऽसरूपविधि निकृत्त्यर्थश्च ॥ १५६ ॥ वताभीक्ष्ण्ये ॥५॥१॥ १५७ ॥ तं शाखितो नियमः । आभीषण्यं पौनःपुन्यम् । तयोर्गम्यमानयो नः परादातोणिन् प्रत्ययो भवति । व्रते अश्राद्धं भुङ्क्ते अश्राद्रभोजी । अलवणभोजी । स्थण्डिलस्थायी । स्थण्डिलवर्ती । वृक्षमूलवासी । पाशायी । तदन्यवर्जनमिह व्रतं गम्यते । आभीक्ष्ण्ये, पुनः पुनः क्षीरं पियन्ति क्षीरपायण 'उशीनराः । तक्रपायिणः सौराष्ट्राः । कपायपायिणो 'गान्धाराः । सौवीरपायिणो बाजीकाः । व्रताभीक्ष्ण्य इति किम् । स्थण्डिले शेते स्थण्डिलशय । बहुलाधिकारादाभीक्ष्ण्येऽपीह न भवति । कुल्मापखादाथोलाः । अशीलार्थ जात्यर्थ च वचनम् ॥ १५७॥ करणायजो भूते ॥५॥१॥ १५८ ॥ करणवाचिनो नाम्नः पराद्भतेऽर्थे वर्तमानायजेणिन् प्रत्ययो भवति । अग्निष्टोमेनेष्टवान् अनिष्टोमयाजी । भवति हि सामान्यविशेपयोभदविवक्षायां सामान्ययजौ विशेषयजिरग्निष्टोमः करणम् । भूत इति किम् । अनिष्टोमेन यजते । करणादिति किम् । गुरुनिष्टवान् ॥ १५८ ॥ निन्ये व्याप्यादिन् विक्रियः॥५॥११५९ ॥ व्याप्यान्नान्नः परात् विपूर्वात क्रीणाभूतेऽर्थे वर्तमानात् कुत्सिते कतरीन् प्रत्ययो भवति । सोमं विक्रीतवान् सोमविक्रयी, घृतविक्रयी, तैलविकयी, ब्राह्मणः। निन्य इति किम् । धान्यविक्रायः, घृतविक्रायः, तैलविक्रायः वणिक् । व्याप्यादिति किम् । ग्रामे विक्रीतवान् । भावेऽलन्तस्य मत्वीयेनेना सिध्यति कुत्सायामणवाधनार्थ वचनम् ॥ १५९ ॥ दनो णिन् ॥५॥१॥ १६० ॥ व्याप्यानाम्नः पराभूतेऽर्थे वर्तमानात् हन्तेर्निन्ये कर्तरि णिन् प्रययो भवति । पितृव्यं हतवान् पितृव्यघाती । मातुलघाती । असरूपत्वादणपि । पितृव्यघातः। मातुलघातः । केचित्त्वसरूपविधि नेच्छन्ति । निन्य इत्येव । शत्रु हतवान् शत्रुघातः । चौरघातः। व्याप्यादित्येव । दण्डेन हतवान् । घन्तान्मत्वथींयेनेना सिद्ध भूतकु त्साभ्यामन्यत्र शत्रुधातीखादौ मत्वर्थीयनिवृत्त्यर्थ वचनम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेअप ॥१६० ॥ 'ब्रमभ्रूणवृत्रात् किम् ॥५॥१॥ १६१॥ ॥-ब्रह्मणो-॥-निवृत्त्यर्थधेति । 'फमणोऽण्' इत्यादे ॥-बताभी-॥ सूगत्वासमाहार । कर्मधारयो वा ॥-अश्राद्धभोजीति । प्रादः पितृदेवत्य कर्म तदुदिप यन्मियते पिण्डादिक तदपि श्चाद्धम् ॥ तदन्यवर्जनमिति । तस्याश्राद्धस्यान्यत् श्राद्ध तस्य वर्जनम् ॥-उशीनरा इति । उश्यते स्थादिस्वारक । गौरादित्यात् टी उशी नगरी तस्या नरा ॥-सौराष्ट्रा इति। सुराष्ट्रशब्द एकवचनान्तोऽपि केपा मते इति 'बहुविषयेभ्य ' इति नाफा कि पणेव। यद्वा सुराष्ट्रा नगरी तस्यां भया ।।-गान्धारा इति। गन्धारदेशस्येने तस्येदमण् ।-हनो णि-11-मत्वर्थीयनिवृत्त्यर्थमिति । हनन घात. घजि पश्चान्मत्वर्थीयो न ॥-एव पूर्वसूत्रेऽपीति। पूर्वसूनेऽनुक्तमपि द्वितीयमिद फल द्रष्टव्यम् । इए तु इदमेव ततोऽसरूपत्यादणगानुज्ञात । घमन्तादित्याचार-पेच्छत्यन्य इति पर्यन्त पूर्वसुनेपीत्या शेयम् ॥-ब्रह्मभू
38॥