SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Dee उन्नाति वा उष्णिक छन्दः । उष्णिगिति निर्देशात दलोपषत्वादि । कथं दिश्यते दिक् सृज्यते सक् । क्रुत्संपदादित्वात् कि । ककारः किकार्यार्थः। पकारः पित्काथा इकार उच्चारणार्थः॥१४८॥स्पृशोऽनुदकात्॥५।२।१४९॥उदकवर्जितानाम्नः परात स्पृशेः किए प्रत्ययो भवति । घृतं स्पृशति घृतस्पृक्। एवं मर्मस्पृक् । व्योमस्पृक् । मत्रेण स्पृशति मन्त्रस्पृक् । कर्मोपपदादेवेच्छन्त्यन्ये। अनुदकादिति किम् । उदकस्पर्शः । उदकेन स्पष्र्टी । अनुदक इति पयुदासाश्रयणादुदकसदृशमनुपसर्ग नाम गृह्यते । तेनेह न भवति । उपस्पृशति॥१४९॥ *अदोऽनन्नात्॥५।१।१५०॥ अन्नवर्जितानाम्नः पराददेः किए प्रखयो भवति । आममत्ति आमात् । सस्यात् । अनन्नादिति किम् । अन्नादः। बहुलाधिकारात्कणादः। पिप्पलादः। किप सिद्धोऽन्नमतिषेधार्थ वचनम्॥१५०॥ 'क्रव्यात्कव्यादावामपकादौ॥५।१।१५१॥ क्रव्यात् । क्रव्याद इत्येतौ शब्दौ यथासंख्यं किवणन्तौ साधृ भवतः यधामात्पकाचाभिधेयौ भवतः । क्रव्यमत्ति क्रव्यात् 'आममांसभक्षः । क्रव्यादः पकमांसभक्षः । क्रव्याद इति नेच्छन्त्यन्ये । आममांसवाच्यपि क्रव्यशब्दः क्रव्याद इति निपातनसामर्थ्यात् वृतौ पकमांसे वर्तते । अथवा कृत्तविकृत्तशब्दस्य पकमांसार्थस्य पृपोदरादित्वात् क्रव्यादेशः। सिद्धौ प्रययौ विषयनियमार्थं वचनम् ॥१५॥ यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्सकौ च ॥५।१।१५२॥ सदादेरन्यशब्दा समानशब्दाचोपमानभूताद् व्याप्ये कर्मणि वर्तमानात्पराव दृशेाप्य एव टक्सको किप् च प्रत्यया भवन्ति । त्यदादि, स्य इव दृश्यते त्यादृशः। त्सादृशी । सादृक्षः। त्याहक्षा । त्यादृक् । एवं तादृशः। तादृशी । तादृक्षः। तादृक्षा । ताहक् । अन्य, अन्यादृशः। अन्यादृशी। अन्यादृक्षः। अन्यादृक्षा । अन्यादृक् । समान, सदृशः। सदृशी । सदृक्षः। सहक्षा । सहा । केचित्सकमपि टितं मन्यन्ते । तन्मते त्यादृक्षीत्यायेव भवति । एभ्य इति किम् । वृक्ष इव दृश्यते । उपमानादिति किम् । स दृश्यते । व्याप्ये वर्तमानादिति किम् । तेनेव दृश्यते । तस्मिन्निव दृश्यते । अस्मिन्निव दृश्यते । व्याप्य एवेति किम् । तमिव पश्यन्तीत्यत्र कतरि न भवति । वचनभेदान्न यथासंख्यम् ॥१२॥ कर्तुर्णिन् ॥५।१११५३ ॥ कर्तृवाचिन उपामानभूतानाम्नः पराद्धातोणिन् प्रत्ययो भवति । कृत्त्वात् कर्तरि । उष्ट्र इव क्रोशति उष्टकोशी । वाङ्क्षरावी। खरनादी। सिहनी । कतरिति किम् । शालीनिव कोद्रवान् भुङ्क्ते । उष्ट्रमिवाश्वमारोहति । उपमानभूतादित्येव । उष्टः क्रोशति । अशीलार्थो जात्यर्थश्च आरम्भः॥ १५३ ॥ "अजातेः शीले ॥५॥१॥ १५४ ॥ अजातिवाचिनो नाम्नः पराद्धातोः शीलेऽर्थे वर्तमानात् णिन् प्रत्ययो भवति । उष्णं भुङ्क्ते इत्येवंशील उष्णभोजी । शीतभोजी । अजातेरिति "प्रसज्यप्रतिषेधादसत्ववाचिनोऽप्युपसोद्भवति । उदासरतीत्येवंशील उदासारी । प्रत्यासारी । प्रस्थायी। पतिवोधी । प्रयायी । प्रतियायी । उदाङ्मयाभ्यां परं *सर्ति वर्जयित्वा अन्यस्माद्धातोरुपसर्गपरान्नेच्छन्त्यन्ये । अजातेरिति किम् । ब्राह्मणानामन्त्रायता । शालीन् साक्षात् व्यञ्जनग्रहणात् किप्लोपे ईत्व न ॥-अदोन-॥ ननु लक्ष्यानुसारेण ' किप्' इति किम् भविष्यति किमनेन । सत्यम् । तस्यैव प्रपञ्चोऽयमिति ॥-क्रव्यात् ॥-आममांसभक्ष इति। आमं च तत् मांसं चाममांस तत् भक्षयतीति ‘शीलिकामि '-इति ण ॥-कृत्तविकृत्तशब्दस्यति । विशेषेण कृत्तं विकृत्त पूर्व कृतं पश्चाद्विकृत्तं कृतं च तद्विकृत्त च कृत्तविकृतं तस्प ॥अजातेः-॥-प्रसज्यप्रतिषेधादिति । पर्युदासानयणे तु जातिवाचिनो व्यरूपनिषेधादजातिवाचिनोऽपि व्यवचनादेव स्यात् ॥-सति वर्जयित्वेति । उत्पतिभ्यामाङ सत्तेरिति परसूत्रमत्रार्थे
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy