________________
श्रीमश०
पं० अ ।
॥१०॥
secacee
उपर्युषोऽग्नि । अपो विमति अन्– मेघ । सरसि रोहति सरसिरुहं पत्रम् । नखानि मुञ्चन्ति नखमुचानि धनपि । काकेभ्यो गृहनीया. कारगुहास्तिलाः । धर्माय प्रददाति वर्मपद । एवं कामपद । शब्दशद । शास्त्रेण प्रजानाति शास्त्रज्ञ । एवमागममज्ञ ॥ १४४ ॥ दुहेर्डेघः ॥५।१ । १४५ ॥ नाम्न पराईघ प्रत्ययो भवति । कामान्दुग्धे पूरयति कामदुधा । धर्माय दुग्धे धर्मदुघा । असरूपत्वात् किम् । कामधुक् । डकारोऽन्त्यस्वरादिलोपार्थः ॥१४५॥ भजो विण ॥५।२।१४६॥ नाम्न परादपिण् प्रत्ययो भवति । अर्धं भजते अर्धभाक् । पादभाक् । दूरभाक् । प्रभाक् । विभाक् । णकारो वृद्ध्यर्थ । इकार उच्चारणार्थः । बकारो विकिपो. सारूप्यार्थस्तेनात्र विपये किप् न भवति ॥ १४६ ॥ मन्वनक्कनिप्विच क्वचित् ॥ ५ ॥१॥ १४७ ॥ नाम्नः पराद्धातोरेते प्रत्ययाः कचिल्लल्यानुसारेण भवन्ति । मन् , इन्द्रं शृणाति इन्द्रशर्मा । मुशर्मा । सुवर्मा । सुदामा । अश्वत्थामा । कचिद्रहणात्केवलादाप । शर्म । वर्म । हेम । दामा । पामा । वन् , भूरिदावा । घृतपावा । अग्रेगावा । विजावा । 'वन्याङ् पश्चमस्य ' (४-२-६५) इत्यात्वम् । कनिए , प्रातरित्वा प्रातरित्वानौ । सुधीवा । सुशीवा । केवलादपि । कृत्वा । कृत्वानौ । धीवा । पीवा । विच , कीलालपाः। शुभंयाः । पाप्मरेट् । केवलादपि । रेट् । रोट् । वेट् । जागः। ककारपपारौ किपित्कार्यार्थी ॥ १४७ ॥ 'क्किप् ।।५।१।१४८॥ नाम्नः पराद्धातोः किप् प्रत्ययो भवति कचित् । 'उखेन उखया वा संसते उखासत् । वहात् भ्रश्यति वहाभ्रट् । 'घञ्युपसर्गस्य बहुलम् ' (३-२-८६ ) इति बहुलग्रहणादुखवयोदीर्घः । पर्णानि ध्वंसते पर्णधवत् । शकान् यति शकहूः । परिव्ययति परिवीः । यवलूः । खलपूः । अक्षयूः । मित्रभूः । प्रतिभूः। कटचिकी । केवलादपि । पाः । वाः। की। गी। ऊ। लूः। क्रुङ । पक् । सदिसद्विपद्रुहदुइयुजविदभिदछिदजिनीराजिभ्यश्च । दिवि सीदति दिविषत् । सप्तम्या अलुप् । भीरुष्ठानादित्वात्पत्वं च । घुसत् । अन्तरिक्षसत् । सभासत् । प्रसीदति प्रसत् । उपसत् । अण्डं सूते अण्डमूः। शतसूः। प्रमः । मित्रं दृष्टि मित्राद्वद् । प्रविट् । द्विषो जेनीयिपीष्ट वः । मित्राय द्रुह्यति मित्रध्रुक् । प्रधुक् । विध्रुक् । गां दोग्धि गोधुक् । कामधुक् । प्रधुक् । अञ्च युनक्ति युज्यते वा अश्वयुक् । प्रयुक् । युङ । युञ्जौ। युजः। तत्त्ववित् । वेदवित् । पवित् । निर्विविदे विदां वरः। विदेरविशेषेण ग्रहणम् । लाभार्थान्नेच्छन्त्येके । काष्ठं भिनत्ति काष्ठभित् । बलभित । गोत्रभित । भिद् । रज्जु छिनत्ति रज्जुच्छित् । तमश्छिद् । भवच्छित् । मच्छित् । छिन् । शत्रु जयति शत्रुजित् । प्रसेनजित्। कर्मजित् । प्रजित् । अभिजित् । सेनां नयति सेनानीः। अग्रणीः । ग्रामणीः । प्रणी। नीः । नियौ । नियः। विश्वास्मिन् राजते विश्वाराट् । 'विश्वस्य वमुराटो' (३-२-८१ ) इति दीर्घः। राजराद । सम्राट् । विराट् । राद् । अञ्चेः, दध्यञ्चति दध्यङ् । देवमञ्चति देवद्यङ् । विष्वद्यङ् । तिर्यङ् । सध्यङ् । सम्यङ् । पाङ् । प्रत्यङ् । केवलान्न भवति । तथा ऋतौ ऋतुम् ऋतवे ऋतुप्रयोजनो वा यजते ऋत्विग् याजकः । 'ऋत्विज् -(२-१-६९) इत्यादिस्त्रेण गत्वम् । धृष्णोति दधृक् प्रगल्भः। दधृमिति निर्देशात् द्वित्वम् । उस्निह्यति
दस्युक्तम् '-इति समासार्थमत्र पाठोऽन्यथा 'नाम्युपान्त्य '-इति सिध्यति । एव धर्मप्रद इत्यत्रापि । अन्न हि ' उपसर्गादातो डोऽश्य ' इति डे समासो न स्यात् ॥-विप् ॥-उखेन उखया वेति । पुते वर्तमान उखशब्द. पुत्री स्थाल्यां नित्यत्रीति वैयाकरणा मन्यन्ते ॥-पा इति । 'ईय॑ञ्जने '-इत्यत्र
११
vN