________________
।
अः प्रत्ययो भवति । ऊर्ध्वः शेते ऊर्ध्वशयः । एवमुत्तानशयः । अवमूर्धशयः । बहुवचनं प्रयोगानुसरणार्थम् ॥ १३६ ॥ 'आधारात् ॥ ५ ॥ १ ॥ १३७ ॥ झापाखाचिनो नाम्नः परात् शीङः अप्रत्ययो भवति । खे शते खशयः । गर्तशयः । गुहाशयः । हृच्छयः । विलेशयः । मनसिशयः । * कुशेशय इति सप्तम्या अलुप् । गिरिश इति संज्ञायां लोमादित्वाच्छः । *क्रियार्थत्वे तु गिरिशय इति भवितव्यम् ॥ १३७ ॥ *चरेष्टः ॥ ५ । १ । १३८ ॥ आधारवाचिनो नाम्नः पराचरेष्टः प्रत्ययो भवति । कुरुषु चरति कुरुचरः । मद्रचरः । वनेचरः । निशाचरः । टकारो ङयर्थः । कुरुचरी । मद्रचरी । आधारादित्येव । कुरूंश्चरति । पञ्चालांचरति ||१३८|| भिक्षासेनादायात् ||५|१|१३९ ॥ अनाधारार्थ आरम्भः । एभ्यः पराचरेष्टो भवति । भिक्षां चरति भिक्षाचरः । भिक्षाचरी । सेनां चरति परीक्षते सेनाचरः तापसव्यञ्जनः । सेनया वा चरति सेनाचरः । आदाय गृहीत्वा चरति आदायचरः | आदानं कृत्वा चरतीयर्थः । किमादायेत्यविवक्षैव । एभ्य इति किम् । कुरूं रति ॥ १३९ ॥ पुरोऽग्रतोऽग्रे सर्तेः ॥ ५ । १ । १४० || एभ्यो नामभ्यः परात्सर्वेष्टो भवति । पुरः सरति पुरःसरः । पुरःसरी । अग्रतः सरति अग्रतःसरः। आद्यादित्वात् । अग्रे सरति अग्रेसरः। सप्तम्यलुप् । एकारान्तमव्ययं वा । सूत्रनिपातनाद्वैकारः । तत्राग्रं सरति अग्रेण वा सरति अग्रेसर इयपि भवति ॥ ४० ॥ * पूर्वात्कर्तुः ॥ ५ । १ । १४१ ॥ पूर्वशब्दात्कर्तृवाचिनः परात् सरतेष्टो भवति । पूर्वः सरति पूर्वसरः । पूर्वो भूत्वा सरतीत्यर्थः । कस्मात्पूर्व इति "अविवक्षैव । पूर्वसरी । कर्तुरिति किम् । पूर्वं देशं सरति पूर्वसारः ॥ १४१ ॥ स्थापानात्रः कः ॥ ५ । १ । १४२ ॥ नान्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समे तिष्ठति समस्थः। विषमस्यः कूटस्थः । कपित्थः । दधित्थः । महित्यः । अश्वत्थः कुलत्थः । द्विपः । पादपः । कच्छपः। अनेकपः । कटाहपः। नदीष्णः । आतपत्रम् । धर्मत्रम् | परत्वादयं 'शमो नाम्न्यः' (५-१-१३४) इत्यप्रत्ययं वाधते । शंस्थो नाम कश्चित् । संस्था इत्यरूपत्वात् किप् ॥ १४२॥ शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेज पं प्रियालस हस्तिसूचके ॥५।१।१४३॥ शोकापनुदादयः शब्दा यथासख्यं प्रियादिष्वर्थेषु कमययान्ता निपात्यन्ते । शोकमपनुदति शोकापनुदः प्रियः । पुत्रादिरानन्दकर एवमुच्यते । तुन्दं परिमार्ष्टि तुन्दपरिमृजोऽलसः । स्तम्बे रमते स्तम्बेरमो हस्ती । कर्णे जपति कर्णेजपः सूचकः । एष्विति किम् । शोकापनोदो धर्माचार्यः । तुन्दपरिमार्ज आतुरः। स्तम्बे रन्ता पक्षी । कर्णे जपिता मन्त्री || १४३|| मूलविभुजादयः || ५ | १|१४४ || मूलविभुजादयः शब्दाः कमत्ययान्ता नियतार्थधातूपपदा यथाशियोगं निपात्यन्ते । मूलानि विभुजति मूलविभुजो रथः । उर्व्या रोहति ' उवींरुहो वृक्षः । कौ मोदते कुमुदं कैरवम् । महीं धरति महीघ्रः शैल । उपसि बुध्यते
1
ऊर्ध्वादिविशेषणत्वात् । सत्यम् । सामान्यमिदमित्येकवचनम् । यथा पञ्चादौ घुट् ॥ आधारात् ॥ गर्त्तशय इति । फणगर्तेति पुखीत्वे गर्ने शेते इति वाक्यम् ॥ कुशेशय इति ॥ कचित्पुमान् जलजे तु कीवत्व स्यात् ॥ क्रियार्थत्वे इति । कलापके क्रियार्थत्वे तिपि साधित न तच्छिष्टसम्मतम् ॥ चरेष्टः ॥ - कुरुञ्चरतीति । प्राप्यात्कर्म्मण, काचदण् भवतीति यद्यणानीयते तदा समासोऽपि भवति तथाच |कुरुचार पञ्चालचार इत्यपि ॥ भिक्षासे ॥-तापसव्यञ्जन इति । तपोऽस्यास्ति ज्योस्नादित्वादन् तापसः । तस्य व्यञ्जनं चिह्न यस्य । यद्वा तपस इद तापसं तत् व्यञ्जनं यस्य । यद्वा तापस इति व्यज्यते | प्रकटीक्रियते ज्ञायते तापसव्यञ्जन. । यद्वा तापसे व्यञ्जन व्याजो यस्येति ॥ - पूर्वात्कर्तुः ॥ अविवक्षैवेति । तेन सापेक्षत्वात् समासो न प्राप्नोतीति न वाच्यम् ॥ मूलाविभुजा ॥ उचरुह इति ।