________________
NAGAR
पन्थान इति तद्योगाद्यथा मञ्चाः क्रोशन्तीति ॥ १२१ ॥ कूलादुद्रुजोरहः ॥५।१ । १२२ ॥ कूलात्कर्मणः पराभ्यामुट्ठ उद्बह् इत्येताभ्यां परः खश् भवति । १९ कूलमुद्रुजो गजः। कूलमुद्रहा नदी ॥ १२२॥ वहाभाल्लिहः ॥५॥१॥ १२३ ॥ बहाभ्राभ्यां कर्मभ्यां पराल्लिहेः खश भवति । वहं लेढि वहलिहो गाः। अभ्रलिहः मासादः ॥ १२३ ॥ बहुविध्वरुस्तिलात्तुद्ः ॥५।१।१२४ ॥ एभ्यः कर्मभ्यः परात्तुदेः स्वश् भवति । वहुं तुदति बहुतुदै युगम् । विधुतुदो राहुः।। * अरुंतुदः पीडाकरः । तिलंतुदः काकः । बहोः केचिदेवच्छन्ति ॥ १२४ ॥ ललाटवातशर्धात्तपाजहाकः ॥५॥ १ ॥ १२५ ॥ ललाटादिभ्यः कर्मभ्यः परेम्यो यथासंख्यं तप अज् हाक् इत्येतेभ्यः खश् भवति ललाटं तपति ललाटंतपः सूर्यः । बातमजन्ति वातमजा मृगाः । शर्धजहा मापाः । खशः शिवादजेवी आदेशो न भवति । हाकः ककारो हाङो निसर्थः ॥ १२५ ॥ *असूोग्राद् दृशः ॥५।१ । १२६ ॥ असूर्योग्राभ्यां कर्मभ्यां परात् दृशः खश् भवति । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। दृशिना संबद्धस्य नबः सूर्येण सहासामर्थेऽपि गमकत्वात्समासः । उग्रं पश्यति उग्रंपश्यः ॥ १२६ ॥ इरंमदः ॥६।११२७॥ *कर्मण इति निवृत्तम् । इरापूर्वान्मावतेः खश् श्याभावश्च निपात्यते । इरा मुरा तया माधति इति इरमदः ॥१२७॥ नग्नपलितप्रियान्धस्थूलसुभगाढचतदन्ता
व्यर्थेऽच्वे वःखिष्णुखुकञ्॥१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्व्यन्तेभ्यश्व्यर्थे वर्तमानेभ्यः पराद्भवतेः खिष्णुखुको प्रत्ययो भवनः । अनग्नानग्नो भवति नग्नं भविष्णुः। नग्नंभावुकः। पलितंभाविष्णुः। पलितंभावुकः। प्रियंभविष्णुः। प्रियंभावुकः स्थूलं भविष्णुः। स्थूलभावुक । सुभगंभविष्णुः। सुभगंभावुकः। आढयं- ४ भविष्णुः। आढचंभावुकः। तदन्तेभ्यः। अनननोऽननो भवति अनग्नंभविष्णुः। अनमंभावुकः । असुननः सुननो भवति मुनग्नेभविष्णुः सुनग्नंभावुक: इयादि। च्च्यर्थ इति किम् । नमो भविता । अच्चेरिति किम् । आढचीभविता । तृच् । उपपदविविपु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ॥१२८॥ कृगः खनट् करणे ॥५।१।१२९॥ ननादिभ्योऽच्व्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात्करोतेः करणे खनट् प्रययो भवति। करण इति कर्तरीत्यस्यापवादः । अनग्नो नग्नः क्रियतेऽनेन नग्नकरणं द्यूतम्। एवं पलितंकरणं तैलम्। मियंकरणं शीलम्। अन्धकरणः शोक-। स्थूलंकरणं दधि। सुभगंकरणं रूपम्। आढचंकरणं वित्तम्। नदन्तेभ्योऽपि। अनननोऽनमः क्रियतेऽनेनानगंकरणः परः। सुन करणः। अपलिकरणो रस इसादि । व्यर्थ इत्येव। नग्नं करोति छूतेन। नात्र प्रकृतिविकारभावो विवक्ष्यते। अच्चरित्येवा नग्नीकुर्वन्त्यनेन । अत्र खनट्मतिपेधसामर्थ्यांदनडपि न भवति। नहि नग्नीकरणमित्यत्रानटखनटो रूपे समासे स्त्रियां वा विशेपोऽस्ति । केचित्तु च्च्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं द्यूतम् ॥१२९॥ "भावे चाशिता
भुवः खः॥५।१।१३०॥ आशितशब्दात्पराद्भवतेभावे करणे चाभिधेये खः प्रययो भवति। आशितेन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः। आशितो भवखनयाशितंभवा पञ्चपूली। असरूपत्वादनडाप। आशितस्य भवनम्। न घज् सरूपत्वात् । आशित इति निर्देशादश्नातेः कर्तरि को ॥-बहुविध्वर-॥-अरुंतुद इति । मोन्ते 'सयोगस्य'-इति सलोप ॥-असूर्यो-॥-गमकत्वादिति । वाक्यार्थप्रतिपादकत्वादित्यर्थ ।।-इरंमदः ॥-कर्मण इति निवृत्तमिति । निपातनात् धातारकर्मकत्वाहा ॥-कृगः खनट-॥-विशेषोऽस्तीति । व्यन्तत्वाटव्ययत्व 'सित्यनव्यय'-इति मोन्तोऽपि न भवति ॥-भावे चाशिता-॥-कतरिक्त इति । शीदनादित्वात् 15
Ceeeeeeee