SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ जि, शत्रुजयः पर्वतः । धनंजयः पार्थः । तृ, रथंतरं साम । तप् शत्रुतपो राजा । दमिरन्तर्भूतण्यों ण्यन्तश्च गृह्यते । वलि दाम्पति दमयति वा बलिदमः कृष्णः। | पं० : अरिदमः । सह, शत्रुसहः । एतौ राजानौ । नाम्नीति किम् । कुटुम्बं विभर्ति कुटुम्बभारः । केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोऽपीच्छन्ति ॥ ११२ ॥ धारधर् च ॥५।१।११३ ॥ कर्मणः पराद्धारयतेः संज्ञायां खः प्रत्ययो भवति घर इत्पयमादेशश्च । वसु धारयति वसुंधरा पृथ्वी । युगंधरः । सीमंधरः। तीर्थकरावेतौ । संज्ञायामित्येव । छन्त्रधारः ॥ ११३ ॥ पुरंदरभगंदरी ॥५।१।१२४ ॥ एती संज्ञायां खपत्यपान्तौ निपात्येते । पुरो दारयति पुरंदरः शक्रः । भगं दारयति भगंदरो व्याधिः। दारयतेईस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥ ११४ ॥ वाचंयमो व्रते ॥५। १ । ११५ ॥ व्रतं *शाखितो नियमः । वस्मिन्गम्यमाने वाचः कर्मण. पराधमेर्धातोः खो वाचश्चामन्तता निपात्यते । बाचं यच्छति नियमयति वा वाचंयमो व्रती । व्रत इति किम् । वाग्यामोऽन्यः ।। ११५॥ मन्याणिन् ॥५।१।११६ । कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते वन्धु पडितमानी बन्योः । दर्शनीयां मन्यते भार्या दर्शनीयमानी भार्यायाः । श्यनिर्देश उत्तरार्थः ॥११६॥ कर्तुः खश् ॥५।१।१२७॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् प्रत्ययो भवति । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयवादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः । पण्डितमात्मानं मन्यते पाण्डतमन्यः। पट्टीमात्मानं मन्यते पढ़िपन्या । विद्वन्मन्यः । विदुषिमन्या । असरूपत्वाणिन्नपि । पण्डितमात्मानं मन्यते पण्डितमानी । पटुमानिनी । विद्वन्मानी । विद्वन्मानिनी । कर्तुरिति किम् । दर्शनीयमानी चैत्रस्य । पूर्वेगात्र णिन्नेव । शकार शिकार्यार्थः ॥ ११७ ॥ एजेः॥५।१ । १२८ ॥ कर्मणः परादेजयतेः खश् भवति । अङ्गान्येजयति अङ्गमेजयः । जनमेजयः । अरिमेजयः ॥ ११८ ॥ "भुनीस्तनमुन्नकूलास्य पुष्पात् धेः ॥५। १ । ११९॥ एभ्यः कमभ्यः परात् धेः खश् भवति । शुनी धपति शुनिधयः । स्तनंययः । मुझंश्यः । कूलंधयः । आस्पंधयः । पुष्पधयः । मुजादिभ्यः केविदेवेच्छन्ति । ट्वेटफारो ङयर्थः । शुनिययो । स्तनधयी सजानिः ॥११९॥ नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ॥५।१।१२० ॥ एभ्यः कपभ्यः पराद्धमतेष्ट्धेश्व खश् भवति । नाडी धपति धयति वा नाडिंधमः । नायियः । घटिंधमः । घटिधयः । खरिधमः । खरिंधयः । मुष्टिधमः । मुष्टिधयः । नासिकंधमः । नासिकंधयः । वातंधमः । वातंघयः। ङयन्तनिर्देशस्तदभावे खश्मत्ययनित्यथः । नाडि शमति धयति वा नाडि-मः । नाडियः। घटःमः । घटधः। खरमः । खरधः ॥ १२० ॥ पाणिकरात् ।।५।१।१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् प्रययो भवति । पाणि धमति पाणिंधमः । करंधमाः । पाणिकरात् धेरपीति कश्चित् । पाणिधयः । करंधयः। पाणिधमाः करंधमाः नाडिधमाः इति ॥-पुरंदरभ-|-पुरशब्दपूर्वस्येति । निपातनस्थेष्टविषयत्वात् ॥-वाचंयमो-॥-शास्त्रिनो नियम हो । शास्त्र सजातनप उपदेशकतया । शास्तु. सकाशात् इत. प्राप्तो वा । यद्वा शास्तार कर्मतापनमित. प्रातः ॥-मन्या-1-उत्तरार्थ इति । मनुतेनिवृत्यर्वत्र ॥-शुनीस्तन-1-गुनिधयोति । क्रियावाचक यात् जातिद्वारा दीने प्राप्त इति टकरणम् ॥-पाणिकरात्-॥-पाणियमा इति । पाणिधमपुरुपयोगात् पया ताच्छन्नम् ॥ अधिकरणे वा 'बहुलम्' इति खश् इति पारायगम्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy