________________
२२) इत्येव सिद्धाववर्णार्थ पदार्थं च वचनम् ॥ २॥ लत ऋल ऋलभ्यां वा ।१।२॥३॥ लतः स्थाने ऋता लुता च परेण सहितस्य यथासंख्यम् ऋलू इत्यादेशौ वा भवतः । ऋ इति स्वरसमुदायो वा स्वरव्यजनसमुदायो वा वर्णान्तरं वा। तदपोपत्स्पृष्टकरणं द्विरेफतुरीयमध्यर्धस्वरमात्रमित्येके । संवृततरं सकलरेफर्कारमर्धमात्रस्वरभक्तिकमित्यन्ये । द्विरेफश्रुतिकमध्यर्धस्वरमात्रमित्यपरे । एवम् ल इत्यपि । ऋता, ककारः । पक्षे पूर्वेण -हस्व उत्तरेण ऋकारश्च । क्लृऋकारः । कृकारः । लुना, क्लृकारः । पक्षे दीर्घत्वं -हस्वत्वं च । क्लूकारः । क्ल लकारः । लुवर्णस्य स्थानित्वमिच्छन्त्येके ॥३॥ ऋतो वा तौ च । १।२।४ ॥ ऋकारस्य स्थाने ऋता लुता च परेण सहितस्य यथासंख्यम् ऋलू इत्यादेशौ वा भवतः । तौ च-ऋकारलकारी ऋता लता च सह ऋकारस्य वा भवतः । ऋता, पितृषभः । पितृपभः । पितृऋषभः । लता, होलकारः । पक्षे होतृकारः । होत लकारः। तौ च, पितृपभः । होल्लकारः। पक्षे यथामाप्तम् । अत्रापि प्रवर्णस्य स्थानित्वमिच्छन्त्येके ॥४॥ ऋस्तयोः।।२।५॥ तयाः-पूर्वस्थानिनालंकारऋकारयोः स्थाने यथासंख्यमृता लुता च परेण सहितयोकारो द्विपात्र आदेशो भवति । कृषभः । होतृकारः ॥ ५॥ अवर्णस्येवोदिनैदोदरलू ।१।२।६॥ अवर्णस्य स्थाने इवोवर्णऋवर्णलरणः परैः सहितस्य यथासंख्यमेत् ओत् अर् अल इत्येते आदेशा भवन्ति । देवेन्द्रः । तवेहा । मालेयम् । सेक्षते । नवोदकम् । नवोढा । गङ्गोदकम् । सोढा | वृक्ष इन्द्रं त इन्द्रमित्यादौ च डी जस इकारे चैकपदाश्रयत्वेनान्तरङ्गमेत्वमेव भवति न तु परपदाश्रितं वहिरङ्गमिकारस्य दीर्घत्वम् । परमर्षिः । तवर्कारः। सर्कारेण । तवल्कारः । सल्कारेण । त्रिमात्रादेरपि स्थानिनः स्थाने दिमात्रावेदोतौ भवतः सूत्रे तयोरेव विवक्षितत्वात् । अवर्णस्येति किम् । दधीदम् । मधूदकम् । पितृषभ । क्लृकारः । इवादिनेति किम् । दण्डाग्रम् ॥ ६॥ ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार्॥१॥२७॥ प्रादीनामवर्णस्य ऋणशब्दे परे परेण ऋकारेण सहितस्यारित्ययमादेशो भवति । अरोऽपवादः। प्रगतमणं प्रार्णम् । दशानामृणं दशाणम् । दश ऋणान्यस्य द| विधानमनर्थकमिति सविशेषमादेशमाह-ऋ इति स्वरसमुदायो वेति ॥ वर्णान्तरत्वे मतभेदानाह-तदपीति ॥-द्विरेफतुरीयमिति ॥ रैफस्य तुरीयौ रेफतुरीयौ एकस्य रेफस्य चतुर्भागीकृतस्य द्वौ चतुर्थभागावित्वर्थ ॥ द्वौ रेफतुरीयावस्मिन्निति ॥ अधिकमध यस्या सा अध्यारुढाऽर्धेन वा अध्यर्धा स्वरस्य मात्रा स्वरमात्रा अध्यर्धा स्वरमात्रा ऽस्मिनिति अध्यर्धस्वरमात्रम् पादोन मात्राद्वयमित्यर्थ ॥-सकलरेफारमिति ॥ सकल परिपूर्णो रेफ ऋकारचात्र तत्तथा ॥ अर्ध मात्रा यस्या सा अर्धमात्रा, स्वरस्य भक्तिर्भाग स्वरभक्ति । अर्धमात्रा स्वरभक्तिर्यस्य तत्तथा ॥ ऋतो--होल,कार इति ॥ होतुर्नकार इति पष्ठीसमास । होत्सवधी होत्रा लिखित उच्चारितो वा लकार इत्यर्थ ॥-ऋस्तयो. ॥ अथ ऋकारनकाग्यो सजातीयत्वस्य पूर्व प्रतिपादितत्वात् 'समानाना तेन'-इत्यनेनैव द्विमात्र ऋकार सेत्स्यति किमनेन । नच वाच्य क्तऋषभ इति अत्र लकारस्य स्थानित्वात् दीर्घत्वे प्रत्यासन्नत्वात् लकार स्यादित्यादि यतो द्वयो स्थानित्वमुक्त तत्र ऋकारमेव स्थानिनमाश्रित्य दीर्घे क्रियमाणे प्रत्यासत्त्या अकार एव भविष्यति । सत्य स्यादेवम् यदि कारस्यैव स्थानित किचिनियामक स्यात् । यावता द्वयो पष्ठीततीयानिर्दिष्ट्यो स्थानित्वमिति पूर्व पर पा लकाररूप स्थानिनमाश्रित्य दी क्रियमाणे लकारोऽपि स्यात् । अकार एव चेष्यते इत्येतदर्थमस्यारम्भ इति ॥ ऋणे-॥-दश ऋणानि अस्येति ॥ वर्णानुपूर्वीविज्ञानार्थ