________________
श्रीहमा० कर्मभ्यां परादनुपसर्गात पिवतेष्टक भवति । सुरां पिबति सुरापः । सुरापी । सीधुपः । सीधुपी । सुराशीधोरिति किम् । क्षीरपा वाला । पित्र इति किम् ।।
सुरां पाति सुरापा। 'कथं संज्ञायां सुरापा सुरापीति । पातिपिबत्योभविष्यति । न च धात्वर्यभेदः। संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् ।। ७५ ॥ "आतोडोडहावामः ॥६।२१७६॥ कर्मणः परादनुपसगोद दावामावर्जितादाकारान्तादातोर्डः प्रययो भवति । गा ददाति गोदः । कम्बलदः। पाणित्रम् । अङ्कलित्रम् । ब्रमज्यः । वपुर्वीतवान् वपुर्व्यः। अहावाम इति किम् । स्वर्गहायः। तन्तुबायः । 'धान्यमायः । अणेव । कथं मित्रहः । 'कचित् । (५-१-२७१ ) इत्यनेन ड । अनुपसर्गादित्येव । गोसदायः । बडवासंदायः । उपसर्गः अव्यवधानतैव इत्यण् ।७६ ॥ समः ख्यः ॥५।१।७७॥ कर्मणः परात्संपूर्वात ख्या इत्येतस्मात डो भवति । गां संख्याति संचष्टे वा गोसंख्यः । पशुसंख्यः । उपसर्गार्थ वचनम् ॥ ७७ ॥ दश्चाङः॥५।१।७८ ॥ कर्मणः परादापर्वाददातेः ख्या इसेतस्माच डो भवति । दायमादत्ते दायादः । स्त्रियमाचष्टे खयाख्य । मियाख्यः । इदमुत्तरं चोपसर्गार्थं वचनम् ।। ७८ ॥ प्राज्ज्ञश्च ॥५॥१॥७९॥ कर्मणः परात्प्रपूर्वाजानातेर्दारूपाच डो भवति । पथिप्रज्ञः । प्रपापदः । इह पूर्वसूत्रे च दारूपं गृह्यते न सज्ञा ज्ञाख्यासाहचर्यात् । पूर्वस्त्रे तु दाग एव ग्रहणम् । तस्यैवाडा योगात् । तेन स्तनौ प्रधयति स्तनप्रधायः ॥ ७९ ॥ आशिषि हनः॥५॥१।८०॥ आशिपि गम्यमानायां कर्मणः पराद्धन्तेडौं भवति । शत्रु वध्यात् शत्रुहः । पापहः । दुःखहः । गतावपीति कश्चित् । क्रोश हन्ति क्रोशहः ॥ ८॥ क्लेशादिभ्योऽपात् ॥५॥१॥ ८१ वेशादिभ्यः कर्मभ्यः परादपपूर्वाद्धन्तेडों भवति । अनाशीरर्थ आरम्भः । लेशमपदन्ति केशापहः । तमोपहः । दुःखापहः । ज्वरापहः । दापहः । दोषापहः । रोगापहः । वातपित्तकफापहः । विपानिदर्पापहः । बहुवचनाबधादर्शनमन्येभ्योऽपि भवति । 'कथं दाघाटः चा घाटः । 'घटतेराण संज्ञायां भविष्यति । चारु आहन्तीति चार्वाधातो इन्तेरेव । दार्वाधातोऽपि तर्हि स्यात् । असंज्ञायामिष्यत एव । एवमसंज्ञायां संपूर्वाभ्यां पटिहनिभ्यां वर्णसंघाटः वर्णसंघातः पदसंघाटः पदसंघात इखादि सिद्धम् । हन्तेरेव वा पृपोदरादित्वाद्वर्णविकारः॥ ८१ ॥ कुमारशीर्षाणिन् ॥ ५॥१॥ ८२ ॥ कुमारशीर्षाभ्यां कर्मभ्यां पराद्धन्तेणिन् प्रत्ययो भवति । कुमारं हन्ति कुमारघाती । शीर्षघाती । अत एव निपातनाच्छिरसः शीर्षशब्दोऽकारान्तः प्रकृयन्तरं वा । तथा च शीर्षे स्थित पृष्ठत इति ॥ ८२ ॥ 'अचित्ते टक् ॥ ५ । १ । ८३ ।। कर्मणः पराद्धन्तेरचित्तप्रति कतीरे टङ्ग प्रन्ययो ?
भवति । वातं हन्ति वातघ्नम् तैलम् । पित्तघ्नं घृतम् । श्लेष्मनं मधु । रोगघ्नमौषधम् । जायानाः 'तिलकालकाः । पतिघ्नी पाणिरेखा । सर्वकर्मनी ४॥-कथमिति । अत्र डीविकल्प कथमित्याशवा ॥-आतो डो-॥ अनिर्दिष्टार्थाविष्वपि कालेषु भवन्तीति वपुष्पइत्यत्र भूतेऽपि ड ॥-तन्तुवाय इति । वातिवायरपो ४६ स्कर्मकत्वान्न ग्रहणम् ॥-धान्यमाय इति । धान्य माति मिमीते मयते वा ॥ अव्यवधानतैवेति । नन्वणपि न प्राप्नोति कर्मण उपसर्गेण व्यवहितत्वादित्याह-इत्यण
इति । एतत् कुतो लभ्यते । 'गायोऽनुपसर्गाटक' सूत्रे उपसर्गवर्जनात् । अन्यथा कर्मण परात् उपसर्गव्यवधाने न प्रामोत्येव ॥-प्राज्ञश्च ॥-दारूप गृह्यते इति । तेन दाउदैवोरपि ग्रहस्तेन केदारप्रदो भाजनप्रदश्चेति सिद्धम् ॥-केशादिभ्यो-||-कथ दाघाट इत्यादि । दारावाडो हन्तेरण अन्तस्य च ८ सज्ञाया चारी तु इति परेपा सूत्रद्वयमत्र तत् स्वमते कथमित्याह-घटतेरणीति । दारुः सारस । चारुस्तु जीवभेदस्तमाघटते सयाति ॥-अचित्ते टक् ॥-तिलकालका इति । तिलाना तुल्यास्तिलका अलका इवाल
an