________________
धातुभ्यः साधुत्वविशिष्टेऽयें वर्तमानेभ्योऽकः प्रत्ययो भवति। साधु प्रवते इति प्रवकः। एवं सरकः। लवकः । साधाविति किम् । पावकः । सारकः । लावकः ॥६॥ | आशिष्यकन् ॥५।१।७०॥ इष्टस्य प्रार्थनमाशीः । तस्यां गम्यमानायां धातोरकन् प्रत्ययो भवति । जीवतादित्याशास्यमानो जीवकः । एवं नन्दकः । भवकः।
आशिपीति किम् । जीविका । नन्दिका । भाविका । नकार 'इचापुंसोऽनित्स्याप्परे' (२-४-१०६ ) इत्यत्र व्युदासार्थः । तेन जीवका नन्दका भवका ॥ ७॥ | "तिक्कृतौ नाम्नि ॥५।१७१॥ आशिपि विपये संज्ञायां गम्यमानाया धातोस्तिक कृतच सर्वे प्रत्यया भवन्ति । शम्यात् शान्तिः । तन्यात् तन्तिः । सन्यात् । सन्तिः । रमतामित्येवमाशंसितः रन्तिः । कृत्, वीरो भूयादिति 'वीरभूः । मित्रभूः । किप् । अभिरस्य भूयात् 'अग्निभूतिः । देवभूतिः । अश्वभूतिः । सोमभूतिः । कुमारोऽस्य दरितानि नयताभित्याशंसितः कुमारनीतिः। मित्रमेनं वदिपीष्ट मित्रादिः। क्तिः । देवा एनं देयासुदेवदत्तः। यज्ञदत्तः। विष्णुरेनं श्रूयात इति विष्णुश्रुतः । ताशय एनं पीष्ट शर्ववर्मा । मन्। गङ्गा एनं मिद्यात् गङ्गाभिवः। वक् । वर्धिपीष्ट वर्धमानः॥७२॥ कर्मणोऽण॥१॥२॥७२॥ निर्वयविकार्यमाप्यरूपात्कर्मणः परस्मादातारण प्रत्ययो भवति। अजायपवादः। निर्वात् कुम्भकार। नगरकारः। विकार्यात् काण्डलावः। शरलावः। माप्यात् वेदाध्यायः । चर्चापार। भारहारः। सूत्रधारः। भारवाहः। द्वारपालः । उष्ट्राणायः। कमण्डलुग्राहः । आदित्य पश्यति हिमवन्तं शृणोति ग्रामं गच्छतीत्यादौ पाप्यात्कर्मणोऽनभिधानान्न भवति । महान्तं घटं करोतीति सापेक्षत्वात् 'अनाभिधानाच । तथा च बहुलाधिकारसः । निर्वसविकार्याभ्यामपि कचिन भवति । सयोगं जनयति, खजं विरचयति, वृक्षं छिनत्ति, कन्यां मण्डयति । णकारो वृद्ध्यर्थः ॥ ७२ ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः॥५।१।७३ ॥ कर्मणः परेभ्यः शीलि कामि भक्षि आचरि ईक्षि क्षम् इत्येतेभ्यो धातुभ्यो णः प्रत्ययो भवति । धर्म शीलयति धर्मशीलः । धर्मशीला । धर्मकामः । धर्मकामा । वायुभक्षः । वायुभक्षा । आङ्पूर्वश्चरिः । कल्याणाचारः। कल्याणाचारा । सुखपतीक्षः। सुखमतीक्षा । बहुक्षमः । बहुक्षमा । अल्पजन्तैः शीलादिमिर्वहुव्रीहौ सति धर्मशीलादय सिध्यन्ति । अण्वाधनार्थ तु वचनम्। अणि हि खियां ङी स्यात् तथाच धर्मशीलीत्याद्यनिष्ट रूप स्यात् । एवंप्रायेषु च बहुव्रीहाश्रयणे 'अम्भोऽतिगमेति स्यात् अम्भोतिगामी चेष्यते। कामीति ण्यन्तस्योपादानादण्यन्तादणेव पयस्कामीति । ण्यन्तस्य तु णे सति पयःकामेति भवति । अत एव च ण्यन्तनिर्देशादण्यन्तनिर्देशे कृकमिकंसेत्यादौ केवलस्यैव कमेग्रहणम् । तेन णे सति सकारादेशो न भवाते ॥७३॥ गायोऽनुपसर्गाट्टक् ॥५।११७४॥ कर्मणः परादनुपसर्गाद्वायतेष्टक् प्रत्ययो भवति । वक्र गायति वक्रगः । वक्रगी । सामगः । सामगी । अनुपसर्गादिति किम् । वक्रसंगाय । खरुसंगायः । वक्रादयो गीतविशेपाः । गायतिनिर्देशो गानिवृत्त्यर्थः ॥ ७४ ॥ “सुराशीधोः पिवः ॥५॥ १ । ७५ ॥ सुराशीधुभ्यां ॥-तिकृतौ नानि ॥-वीरभूरिति । वीरादे शब्दात् भवत्यादेातोरनेन प्रत्ययविधिः । ततो यपि साक्षात् उस्युक्तता नास्ति तथापि सज्ञाया प्रत्ययविधानात् सूचितेति 'इस्युकम्'-इति स । नाम नासा'-इति या ॥-अद्मिभूतिरिति । कृत्वात् कर्तयेव प्राप्ती बहुलाधिकारात् सबन्धादायपि प्रत्यय ॥-कर्मणोऽण् ॥-सापेक्षत्वादिति । अगमकरवमनपेक्षा सापेक्षतामागमुत्तरम् ॥-अनभिधानाचेति । विवक्षितार्थाप्रतिपादनात् । अणि हि सति महतो घटकारा प्रतीति ॥-शीलिकाभि-11-अल्भजन्तैरिति । ण्यन्तेभ्योऽलि अपान्तेभ्यस्तु पनि ॥-अम्भोतिगमेति स्यादिति । अतिगम्यते 'युपर्ण '-इत्यति बहुधीही न चैतदिष्यते । स्थिते तु अम्भ कर्म अतिगच्छति । कर्मणोऽण् ' -सुराशीधो
PrammarvasnANI