________________
भूपयति भूषणः । हृप्यति दर्पणः । जल्पति जल्पनः । बहुवचनमाकृतिगणार्थम् ॥ ५२ ॥ ग्रहादिभ्यो णिन् ॥ ५ । १ । ५३ ॥ ग्रहादिभ्यो नामगणदृष्टेभ्यो णिन् प्रत्ययो भवति । ग्राही । स्थायी । उपस्थायी । मन्त्री । संमदीं । उपावाभ्यां रुधः, उपरोधी । अवरोधी । अपाद्राधः, अपराधी । उद: सहिदहि (सि) भासिभ्यः, उत्साही । उदाही ( सी ) । उद्भासी । नेः श्रशीविशवसवपरक्षिभ्यः, निशृणोति निश्रावी । निशायी। निवेशी | निवासी । निवापी । निरक्षी । नत्रो व्याहसंव्याहसंव्यवहृयाचित्रजवदवसिभ्यः, न व्याहरति अव्याहारी । असंव्याहारी । असंव्यवहारी । अयाची । अत्राजी । अवादी । अवासी । नञ्पूर्वात्स्वरान्तादचित्तवक| र्तृकात् । अकारी धर्मस्य वालातप । अहारी शीतस्य शिशिर । चित्तवत्कर्तृकान्न भवतेि । अकर्ता कटस्य चैत्रः । केचिदन पूर्वादिच्छन्ति । कारी । हारी । व्यभिभ्यां भुवत | भवति विभावी । अभिभावी । विपरिभ्यां भुवो ह्रस्वश्च वा । विभवति विभावी। विभवी । परिभावी । परिभवी । वेः शीङ्क्षिगोदेशे हस्त्रश्च । गुणैश्चित्ते विशेते विसिनोति वा विशयी विषयी च प्रदेशः । निपातनात्पत्वम् । ग्रहादिराकृतिगणः ॥ ५३ ॥ *नाम्युपान्त्यप्रीकृगृज्ञः कः ॥ ५ । १ । ५४ ॥ नाम्युपान्त्येभ्यो धातुभ्यः श्रीकृगृज्ञा इत्येतेभ्यश्च कः प्रत्ययो भवति । ककारः कित्कार्यार्थः । विक्षिषः । विलिखः । बुध । 'युवः । कृशः । वितुदः । मीणातीति मियः । किरतीति किरः । उत्किरः । गिलतीति गिलः । निगिलः । जानातीति ज्ञः । काठभेद इति परत्वादण् ॥ ५४ ॥ गेहे ग्रहः || ५ | १ | ५५ ॥ गेहेऽभिधेये ग्रहेः को भवति । गृहम् । गृहाणि । गृहाः पुंसि बहुवचनान्त एव । उपचाराद्दारा गृहाः ॥ ५५ ॥ उपसर्गादातो डोऽयः ॥ ५ । १ । ५६ ॥ उपसर्गात्परात् श्यैङ्वर्जितादाकारान्ताद्धातोर्डः प्रत्ययो भवति । आह्वयतीति आइः । प्रह' । संव्यः । परिव्यः । प्रज्यः । अनुज्यः । प्रस्यः । मुग्लः । सुम्लः । सुत्रः । व्यालः | सुरः । केनैव सिद्धे डविधानं निषेधार्थम् । उपसर्गादिति किम् । णे, दायः । धायः । आत इति किम् । आहर्ता । अश्य इति किम् । णे अवश्यायः । प्रतिश्यायः । ' पूर्वेऽपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति णो बाध्यते नान् तेन गोसंदाय वडवासंदाय इत्यणेव ॥ ५६ ॥ व्याघ्राघ्रे प्राणिनसोः ॥५।१/५७॥ व्याघ्र आघा इत्येतौ शब्दौ जिघतेर्यथासंख्यं प्राणिनि नासिकायां चार्थे मत्ययान्तौ निपात्येते । विविधमाजिधति व्याघ्रः प्राणी । आजिघ्रति आम्रा नासिका । शस्यापवादः ॥ ५७ ॥ घ्राध्मापाद्धेदृशः शः ॥ ५ । १ । ५८ || एभ्यः शः प्रत्ययो भवति । घ्रा, जिघ्रतीति त्रिः । विजिघ्रः । उज्जिघ्रः । ध्या, धमः । विधमः । उद्धमः । श्रादिसाहचर्यात्पा इति पिवतेर्ग्रहणं न पातेः । पिवः । निपिवः । उत्पिवः । पायतेस्तु लाक्षणिकत्वान्न भवति । दुधे, धयः । विधय । उद्धयः । शू, पश्यः । विपश्यः । उत्पश्यः । वेष्टकारो ङयर्थः । उद्धयी । विधयी। उपसर्गादेवेच्छन्त्यन्ये । शकारः शित्कार्यार्थ ॥ ५८ ॥ साहिसातवेद्युदेजिधारिपा|रिचेतेरनुपसर्गात् ॥ ५ । १ । ५९ ॥ एतेभ्य उपसर्गरहितेभ्यो ण्यन्तेभ्यः शः प्रखयो भवति । साहि, साहयतीति साहयः । सातिः सौत्रो धातुः । सावयः ।
निरुपयदुपपदोपसर्गा. पवन्ते ते तथा गृह्यन्ते इत्यर्थ ॥ - नाम्युपान्त्य - ॥ युध इति । युध्यते । योधवाचकस्तु गिगि योधयतीति अचि ॥ - गिलः ॥ - निगिल इति । ' नवा स्वरे ' इत्यत्र व्यवस्थितविभापाश्रयणान्नित्स्य लत्वम् ॥ गेहे ॥ बहुवचनान्त एवेति । दुर्गस्वेकवचनान्तमेवाह ॥ व्याघ्राने व्यात्र इति । अनेकार्थत्वाच्छिनपूर्वके हिसने वर्त्तते ।