________________
Dee.28
२०१०
recreCeeroecove
रिट् भवति । घस् , जक्षिवान् । एकस्वर, आदिवान् । आशिवान् । द्वित्वदीर्घत्वयोः कृतयोरेकरवरत्वम् । ऊचिवान् । अनुचिवान् । ति दीर्घत्वे चैकत्वरत्वम् । शकिवान् । पेचिवान् । उपसेदिवान् ।इणोऽतेश्च द्विवचने कृतेऽपि समानदीपत्वे 'अरादेशे च सत्येकस्वरसावेनेटः प्राप्तिसद्भावात् इट् नित्य एवेति पूर्वमेव भवति । तेन इंयिवान, समीयिवान् , आरिवान् । आत् , पपिवान् । ययिवान् । तस्थिवान् । जग्लिवान् । घसेकस्वरात इति किम् । विभिवान् । चिच्छिद्वान् । बभूवान् ।। उपशुश्रुवान् । नित्यत्वात् द्वित्वे कृतेऽनेकस्वरत्वम् । विहितविशेषणं चेह नाश्रीयते । कसोरिति किम् । विभिदिय । विभिदिम । वमयोनियमो न भवति । घस्याद्रहणमनेकस्वरार्थम् । इटि हि सत्याकारलोप उपान्त्यलोपश्च भवति । दरिद्रातेस्त्वामा भवितव्यम् । दरिद्राचकृवान् । पूर्वेणैव मिद्धे नियमार्थ बचनाम् । एभ्य एव कसोरादिरिद् भवति नान्येभ्य इति ॥ ८३ ॥ गमहनविद्लविशदृशो वा ।। ४ । ४ । ८४ ॥ एभ्यः पररय कसोरादिरिट् वा भवति । गम्, जग्मिवान् । जगन्वान् । हन् , जन्निवान् । जघन्वान् । विद्लू, विविदिवान् । विविद्वान् । विश् , विविशिवान् । विविश्वान् । दृश्, ददृशिवान् । ददृश्वान् , लकारी लाभार्थस्य विदेहणार्थः । तेन ज्ञानार्थस्य विविद्वानित्येव भवति । सत्ताविचारणार्थयोस्त्वात्मनेपदित्वात् कसुर्नास्त्येव ॥ ८४ ॥ सिचोऽझेः ॥ ४ । ४ । ८५ ॥ अजेः परस्य सिच आदिरिड् भवति । आञ्जीत् । आअिष्टाम् । आजिषुः । सिच इति किम् । अङ्क्ता । अञ्जिता । औदित्त्वाद्विकल्पे प्राप्ते नित्यार्थ वचनम् ॥ ८५ ॥ *धूम्सुस्तोः परस्मै ॥ ४।४।८६॥ एभ्यः परस्य सिच आदिरिड् भवति परस्मैपदे परतः । अधावीत् । अधाविष्टाम् । अधाविषुः । सु इति सुमात्रस्य ग्रहणम् ।। असावीत् । असाविष्टाम् । असाविषुः । स्तु, अस्तावीत् । अस्ताविष्टाम् । अस्ताविपुः । परस्मा इति किम् । अघोष्ट । अधविष्ट । *असोष्ट । अस्तोष्ट । धूगो विकल्पे ॥-अरादेशे च सतीति । इटोनित्यत्वभावनामिरथ प्रक्रिया दर्शिता न वेव रूपसिद्धिविधीयते । यतोऽवर्णस्पेयर बाधित्वाऽल्पाधितत्वेन इवांदेरिति रत्वमेव ॥-इट नित्य एवेतीति । द्वित्वमपि कृताऽकृतप्रसङ्गित्वेन नित्य कि विट् परश्चेति तयो स्पर्दै परत्वारपूर्वमिडेव ॥-ईयिवानिति । ऐन इयाय अगात् वेयिवदिति साधु ॥-आरिवानिति । आर वसु अनेनेट् । द्वित्वे 'ऋतोऽत्' । 'अस्यादेरा '-इत्यात्वम् । एकस्य स्थाने भवन् अल्पानित इत्यवर्णस्येत्यर बाधित्वा 'इवर्णादे '-इति रत्वादेश एवं ॥-विहित. विशेषणमिति । कुतो हेतो घस्ग्रहणात् । अन्यथा विहितविशेषणत्वे एकस्वरत्वात् घस इट् सिद्ध एव ॥-दरिद्राचरुवानिति । 'वत्तस्याम् ' इत्यव्ययत्ये 'अव्ययस्य ' इति सेलुपि ' ती मुम'-इत्यनुस्वार सिद्ध । अन्यथा 'नाम् '-इत्यन्त्य एव स्यात् ॥-नियमामिति । विपरीतनियमस्तु न भवति घसादीनामनुस्वारेतकरणात् । तद्धि अनिढर्थ तय कसोरेवेत्यनेनैव नियमेन सिद्धम् ॥-गमहनविद्ल-॥-विदेओहणार्थ इति । अथ विद इत्युक्तेऽपि अदायनदाद्योरिति न्यायात् लाभार्थस्यैव ग्रहण भविष्यति सत्ताविचारार्थयोरनदादित्वेऽप्यात्मनेपदित्वात् कसोरऽसभवात् । नैवम् । निरनुबन्धपरिभाषया तौदादिकस्य ग्रहणाऽसभवादुभे येते वचने परस्परविरोधिनी नैवाऽत्र प्रवर्तते । तस्मायेन प्रकारेण निर्विशङ्का लाभार्थस्य ग्रहणमुपपद्यते स प्रकारो वृत्तो | दर्शित इति । अथ विशिना तीदादिकेन साहचर्या लाभार्थस्यैव ग्रहण भविष्यति किम्लकारकरणेन । नैवम् । यथा विशिना साहचर्य तथा हन्तिनापि साहचर्षशङ्कर स्यात्ततश्चाऽदादरेव ग्रह M स्यात् ॥-धूगसुस्तो-||-असोप्टेति । सुमात्रस्येत्युक्तेपि पुश इत्यस्पाय प्रयोग । सु प्रसवैश्वर्ययोरित्यस्य तु आत्मनेपद न स्पात कत्तरि । भावकर्मणोस्तु सभवेऽपि निच् स्यात् ततश्चाऽसावि
PSC/P
॥४०॥
vi