________________
पाक्यम् | अनन्त इति किम् । अन्तशब्दोचारणेन विहितस्यागमस्य माभूत् । यथा 'उदितः स्वरान्नोऽन्तः' (४ । ४ । ९२) इत्यादि । प्रत्ययपदेशाः 'प्रत्यये च' (१।३।२) इत्यादयः ॥ ३८ ॥ इत्यतु संख्यावत् ।।१।३९ ॥ डतिप्रत्ययान्तमतप्रत्ययान्तं च नाम संख्याबद्भवति । एकद्यादिका लोकप्रसिद्धा संख्या, तत्कार्य भजत इत्यर्थः । कतिभिः क्रीतः कतिकः। 'संख्याडतेश्चाशत्तिष्टेः कः' (६।४। १३०) इति कः । कतिभिः प्रकारैः कतिधा । संख्याया धा' (७।२।१०४) इति धा । कति वारा अस्य कतिकृत्वः । 'वारे कृत्यस्' (७।२।१०९) इति कृत्वम् । एवं यतिकः । यतिधा । यतिकत्वः । ततिकः । ततिधा । ततिकृत्वः । अतु, यावत्कः । यावद्धा । यावत्कृत्वः । तावत्कः । तावद्धा । तावत्कृत्वः । कियकः। कियद्धा। कियत्कृत्वः ॥ ३९ ॥ वहगणं भेदे । १।१।४०॥ बहु गण इत्येतौ शब्दो भेदे वर्तमानौ संख्यावद्भवतः । भेदो नानात्वमेकत्वप्रतियोगि। बहकः। बहुधा । बहुकृत्वः । गणक । गणधा । गणकृत्वः । भेद इति किम् । वैपुल्ये संघे च संख्याकार्य माभूत् । बहुगणौ न नियतावधिभेदाभिधायकाविति संख्याप्र
सिद्धेरभावाद्वचनम् । अत एव भूर्यादिनिवृत्तिः ॥ ४०॥ कसमासेऽध्यर्धः।१।१।४१॥ अध्यर्धशब्दः कमत्यये समासे च विधातव्ये संख्यावद्भवति । * अध्यर्दैन क्रीतम् अध्यर्धकम् । 'संख्याडतेश्वाशत्तिष्टेः कः' (६।४ । १३० ) इति कः । अध्यर्थेन शूर्पण क्रीतम् अध्यर्धशूर्पम् । अत्र संख्यापूर्वत्वेन द्विगुत्वे * क्रीतार्थस्येकणः ' अनाम्न्यद्विः प्लुप् ' (६ । ४ । १४१ ) इति लुप् । कसमास इति किम् । धादिप्रत्ययविधौ न भवति ॥ ४१ ॥ अर्धपूर्वपदः पूरणः ॥
१॥ ४२ ॥ समासावयवभूते पदे पूर्वपदमुत्तरपदं चेति प्रसिद्धि । अर्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः कमत्यये समासे च विधातव्ये संख्यावद्भवति । अर्धपञ्चम्याद्विधायमानत्वेनागमस्यापि प्रत्ययत्वे 'प्रत्ययाप्रत्यययो प्रत्ययस्यैव' इति न्यायात प्रेग्वनमित्यादावेव 'वोत्तरपदान्त' इत्यनेन णत्व स्यात् नतु मद्रबाहुणा कुलेमेत्यादी 'अनामस्वरे' इति षष्ठयन्ताद्विधीयमानस्य प्रत्ययत्वाभावादिति ॥ अपर च, 'ऋतृपमृप' इत्यत्र श्रथुइ शैथिल्ये इत्यस्य प्रत्ययाप्रत्यययोरिति न्यायेन नागमस्य प्रत्ययत्वे सत्यस्यैव ग्रहण स्यात् न तु श्रथर मोचनप्रतिहर्षयोरित्यस्य ॥ तस्मादन्तग्रहणमवश्य विधेयमिति ॥ उभयथापि पञ्चम्या सभवन्त्या ‘पर ' इति परिभाषया प्रत्ययो नियन्त्र्यते प्रकृते पर एवेति ॥ तहि स्वरात्पूर्वो नोऽन्त इत्यपि कथ न लभ्यते इति चेत् । सत्यम् । 'नो व्यञ्जनस्य'-इत्यत्रानुदित इति भगनात् ॥ अन्यथोपान्त्यत्वाभावात्प्राप्तिरेव लोपस्य नास्तीति ।-डत्यतु-॥ वत्करणाभावे 'कृत्रिमाकृत्रिमयो '-इति न्यायात् एकड्यादीनामकृत्रिमाणा न स्यात् इति ॥-बहु-॥-वैपुल्ये-इति ॥ यथा रजोगणः रज सघात इत्यर्थ ॥ अथ बहुगणशब्दयोर्मेदवचनत्वात् सख्यात्वमस्त्येष यतो भेद परिगणन सख्येति, ततश्चकन्यादीनामिव पहुगणशब्दयोरपि लोकादेव सख्यात्यसिद्री किमनेनातिदेशवचनेन । अतिदेशो हि अन्यत्र प्रमिदस्यान्यत्र प्रसिद्धिप्रापणार्थ इत्याइ-बहुगणावित्यादि ॥ लोके टेकव्यादीना