________________
श्री मश
॥ २४ ॥
लघुन्य
राम् | उच्चैस्तमाम् || ३४ ॥ क्त्वातुमम् । १ । १ । ३५ ॥ क्त्वा तुम् अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञं भवति | कृत्वा । हृत्वा । प्रकृत्य । प्रहृत्य । तुम्, कर्तुम् । हर्तुम् । अमिति णमुख्णमारुत्सृष्टानुबन्धयोर्ग्रहणं न द्वितीयैकवचनस्य क्त्वातुम्साहचर्यात् । यावज्जीवमदाद | स्वादुंकारं भुङ्क्ते ॥ ३५ ॥ गतिः । १ । १ । | ३६ || गतिसंज्ञाः शब्दा अव्ययसंज्ञा भवन्ति । अदःकृत्य । अत्राव्ययत्वे ' अतः कृकमि कंस कुम्भकुशाकर्णी पात्रेऽनव्ययस्य ( २ । ३ । ५ ) इति सकारो न | भवति ॥ ३६ ॥ अप्रयोगीत् । १ । १ । ३७ ॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा यो लौकिके शब्दप्रयोगे न दृश्यते स एयपगच्छतीति इत्संज्ञो |भवति । अप्रयोगित्वानुवादेनेत्संज्ञाविधानाच्चास्य प्रयोगाभाव सिद्ध । उपदेशस्तु धातुनाममत्ययविकारागमेषु कार्यार्थः । घातौ, एधि, एधते । शीङ्, शेते । इङित्त्वादात्मनेपदम् । यमी, यजते यजति । चिट, चिनुते चिनोति । कण्डूग्, कण्डूयते कण्डूयति । ईगित्त्वात् फलवत्यात्मनेपदम् । टुटु, दवथुः । द्वित्वादथुः । नाम्न्नि, चित्र आश्वयें । चित्रीयते । माड् मा भवान्कार्षीत् । अत्र माझ्यद्यतनी प्रत्ययो भवति । विकारे, व्याख्यातासे व्याख्यातासि । आगमे, पपिय । इत्मदेशा 'इङित कर्तरि ' ( ३ । ३ । २२ ) इत्यादयः ॥ ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८ ॥ पञ्चम्यर्थाद्विधीयमानः शब्दः प्रत्ययसंज्ञो भवति । अनन्तो न चेदन्तशब्दोच्चारणेन विहितो भवति । 'नाम्नः प्रथमैकद्विवहौ ' ( २ । २ । ३१ ) वृक्षः । वृक्षौ । वृक्षाः । 'स्त्रियां नृतोऽस्वस्रादेङीः ' (२।४।१) राज्ञी | कर्त्री । |' आत् ' (२ । ४ । १८ ) खड्डा | 'गुपौधूपविच्छिप णिपने राय ' ( ३।४।१) गोपायति । धूपायति । 'ऋवर्णव्यञ्जनाद्यण' ( ५ । १ । १७ ) कार्यम् ।
इत्यन्तेन इदमेव सूत्र संपूर्ण गृह्यते, आदिशब्देन तु धातोरनेकस्वर - इति विहितस्य वसुकानस्थानस्येति । तथा द्वरिदाचक्रवद्भिरित्यग्रामन्तस्याव्ययत्वेऽपि कुत्सिताद्यर्थे 'अव्ययस्य को दु च ' इति अक् न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासभवात् इति ॥ - उच्चैस्तरामिति ॥ कचित्स्वार्थे इति प्रकृष्टे वायें तरप् ॥ क्त्वातुमम् ॥ क्त्वेति ककारोऽसदेहार्थं ॥ अन्यथा त्या इति निर्देशे सदेह स्यात् किमय क्वाप्रत्ययस्य निर्देश किया विदित गोत्व यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्यायन्तस्येति ॥ - न द्वितीयैकवचनस्येति ॥ द्वितीयैकवचनान्तस्याव्ययस्ये 'अव्ययस्य कोऽद् च' इति अक् स्यात् ॥ तथा देवस्य दर्शन कुर्वित्यादौ तुन्नुदन्त इत्यनेन पष्ठी न स्यात् ॥ नन्वेव ह्यस्तन्यद्यतन्यमन्तस्यान्ययत्व कथ निषिध्यते । सत्यम् । द्वितीय च तदेकवचन चेति विग्रहे तस्यापि संग्रह । द्वितीयापेक्षया द्वितीय चैकवचन वस्तन्यद्यसम्योरमिति ॥ - अप्रयोगीत् ॥ प्रयोग शब्दस्योच्चारण सोऽस्यास्तीति प्रयोगी न प्रयोग अप्रयोगी इति सज्ञिनिर्देश, इदिति च सज्ञेति ॥ - लौकिक इति ॥ लोकस्य ज्ञाते 'लोक्सर्वलोकाते' इसीक्ण् ॥ अनन्तः ॥ न विद्यतेऽम्सशब्दो वाचकोऽभिधायको यस्य स तथा ॥ पञ्चमीति प्र त्योऽभिधीयते । स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते तया चार्थ इत्याह- पञ्चम्यर्थादित्यादि ॥ - शब्द इति ॥ स च शब्दो वर्णस्तत्समुदायो वा भवति शब्यत इति कृत्वा शब्दशब्देनोच्यत इति ॥ ननु नागमस्य प्रत्ययत्वे को दोष इति । सत्यम् । अनन्ददित्यादी नागमेन धातो खण्डितत्वात् नन्दधातो प्राक् अद् धातो - इत्यडागमो न स्यात् ॥ अथ अरुणदित्यादी श्रप्रत्ययवत् ' सम्मध्यपतितस्तद्ग्रहणेन गृद्यते इति भविष्यति । तर्हि अस्य न्यायस्यानित्यत्वज्ञापनार्थमन्तग्रहणम् ॥ तेन यका सका इत्यादी इत्यप्रतिषेध सार्थक । कस्य प्रकृत्यवयवत्ये स्वित्यप्राप्तिप्रसन एव न स्यात् ॥ तथाऽन्तग्रहणाभावे लाङ्ककायनिरित्यत्र 'चर्मियर्मि इत्यायनिजि कागमे तस्य प्रत्ययत्वे यादीदूत के इत्यनेन स्व स्यात् इति ॥ तथान्तग्रहणाभावे
॥ २४