________________
О
९॥
तवान् | आदित इसेव । विदितमनेन । प्रविदितः । मविदितवान् । भावारम्भ इति किम् । मिन्नः । मिन्नवान् । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ॥ ७३ ॥ शकः कर्मणि ॥ ४ । ४ । ७४ ॥ शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरेिड् वा न भवति । शक्तः शकितो वा घटः कर्तु चैत्रेण । कर्मणि क्तवतुर्नास्तीति नोदाह्रियते । कर्मणीति किम् । शक्तः कटं कर्तुम् चैत्रः ॥७४॥ णौ दान्तशान्तपूर्ण दस्तस्पष्टछन्नज्ञसम् ||४ |४| ७५ || णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते । दम्, दान्तः दमितः । शम्, शान्तः । शमितः । पूरै, पूर्णः। पूरितः । एषु णिलुग् निपात्यते । दाट, दस्तः। दासितः। स्पश्, *स्पष्टः । स्पाशितः। छद छन्नः । छादितः । एषु ह्रस्वश्च । ज्ञा ज्ञतः । ज्ञापितः । संज्ञपितः । संज्ञप्तः अत्र कचिद्रस्वथ । इडभावः सर्वत्र ॥ ७५ ॥ श्वसजपवमरुषत्वरसंधुषास्वनाम || ४|४|७५॥ एभ्यः परयोः क्तयोरादिरिड् वा न भवति । श्वस्तः । श्वसितः प्रस्वस्तः । श्वसितः। आश्वस्तः। आश्वसितः । आश्वस्तवान् । आश्वसितवान् । विश्वस्तः विश्वसितः। विश्वस्तवान् । विश्वसितवान् । व्याभ्यामेव केचिद्विकल्पमिच्छन्ति । तन्मते श्वसितः । श्वसितवान् । विश्वासितः। विश्वसितवान् । उच्छसितः । उच्छुसितवान् । प्राङ्घ्रिभ्यो नियमि निषेध इत्यन्ये । प्रश्वस्तः । आश्वस्तः । विश्वस्तः । श्वः कर्तर्ययं निषेधो भावेऽधिकरणे च नित्यमेवेट् । श्वसितं निश्वसितम केचित् । जप्, जप्तः । जप्तवान् । जपितः । जपितवान् । वमू, वान्त । वान्तवान् । वमितः । वमितवान् । जपिवम्पोनित्यमिनिषेधः जप्त. जप्तवान् वान्तः वान्तवान् इत्यन्ये । रुष्, रुष्टः । रुष्टवान् । रुषितः । रुषितवान् । वेदत्वादुपेर्नित्यं प्रतिषेधे प्राप्ते वचनम् । त्वर, तूर्णः । तुणवान् । त्वरितः । त्वरितवान् । संधु, संधुष्टं संधुपितं वाक्यम् । संघुष्टौ, संघुषितौ दम्यौ । संघुष्टवान् संघुषितवान् वाक्यम् | आस्वन्, आस्वान्तः, आस्वनितश्चैत्र । संधुपास्वनिभ्यां परत्वात् * अयमेव विकल्प । तेनाविशब्दनेऽपि संघुष्टा रज्जुः । संघुषिता रज्जुः मनस्यपि, आस्वान्तं मनः, आस्वनितं मन इति भवति । अम्, अभ्यान्तः । अभ्यान्तवान् । अभ्यमितः अभ्यमितवान् ॥ ७६ ॥ *हृषेः केशलोमविस्मयप्रतिघाते ॥ ४ । ४ । ७७ ॥ *केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते । हृपेः केशादिष्वर्थेषु वर्तमानात्परयोः क्तयोरादिरिड्डा भवति । हृष्टाः केशाः । हृषिताः केशाः । हृष्टं हृषितं केशैः । हृष्टानि हृषितानि लोमानि । हृष्टं हृषितं लोमभिः । हृष्टः हृपितक्षेत्रः । विस्मत इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । केशादिष्विति किम् । हृष्टो मैत्र इसलीकार्थस्य हृपितश्चैस्तुष्ट्यर्थस्य ॥ ७७ ॥ अपचितः ॥ ४ ॥ ४ ॥ ७८ ॥ अपपूर्वस्य चायतेः क्तान्तस्येडभावञ्चिरादेशश्च वा निपात्यते । अपचितः । अपचायितः । चिनोतिः पूजार्थो नास्तीति इदं निपातनम् ॥ ७८ ॥ सृजिदृशि - स्कृस्वरात्त्वत्तस्तृज्नित्यानिटस्थवः ॥ ४ । ४ । ७९ ॥ सृजिदृशिभ्यां सरसटः कृगः स्वरान्तादकारवतथ तृचि निसानिटो धातोर्विहितस्य यव आदिरि वा न न्यायादनुबन्धवशाद्वैरूप्य नानास्वरत्व भिन्नवर्णस्व च न भवतीति ॥ - णौ दान्तशान्त - ॥ स्पष्ट इति । पपी बाधने इत्यस्य स्थाने स्पशीति केचित्पठन्ति । स्पशि सौत्रो वा स्पशन्त प्रयुङ्क्ते णिग् स्पशिणु ग्रहणे इति चुरादिव ॥ अत्र कचिदिति । कचिदिति कोऽर्थ इत इत्यत्र सारणाद्यर्थानामभावेऽपि ह्रस्व इत्यर्थ । अभावश्च तेषां पाक्षिके शापित इत्यन्न हस्वाऽभावदर्शनान्निश्रीयते ॥ श्वसजप॥ - अयमेव विकल्प इति । न तु 'घुषेरविशन्दे' 'क्षुब्धविरख्ध'- इत्याभ्या नित्य प्रतिषेधः । हृषेः ।। क्रेशलोसविषया उद्धपणादिका क्रिया केशलोमशब्देनोच्यत इत्याह- केशलोमेति ॥ सृजिदृशि -
11
VGA
च० अ०
॥३९॥