________________
Recent
क्षुभितं मन्थेन । क्षुभितः समुद्रो मन्थेन । अन्यस्तु दध्यादिकं येन मध्यते स मन्धो मन्यानक इत्याइ । 'अमृतं नाम पत्सन्तो मन्त्रजिहेतु जुइति । शोभैव मन्दरसुन्धाभिताम्भोधिवर्णने इति । विपूर्वात्सौत्राद्रिभेविरिन्ध इति भवति खरो ध्वनिश्चेत् । रेभेवा इत्वस्यापि निपातनात् । विरिभितं विरेभितमन्यत् । सनेः स्वान्तमिति मनश्चेत् । मनःपर्यायः स्वान्तशब्दः। विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । अन्यत्र स्वनितो मृदङ्गः । स्वनितं मनसा घट्टितं स्पृष्टमिति यावत् । वनेः ध्वान्तमिति तमश्चेत् । तमःपर्यायो ध्वान्तशब्दः। अनालोकं गम्भीरं तमो वान्तामित्यन्ये । अन्यत्र ध्वनितं तमसा । ध्वनितो मृदङ्गः। लगेलग्नमिति सक्तं चेत् । लगितमन्यत् । म्लेच्छेलिष्टमिति अस्पष्टं चेत् । इत्वमपि निपातनात् । म्लेच्छितमन्यत् । फणेः फाण्टमिति अनायाससाध्यं चेत् । यदश्रापतमपिष्टमुदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि तदेवमुच्यते । अग्निना तप्तं यदीपदुष्णं तदफाण्टमित्यन्ये । अन्ये त्वविद्यमानायासः पुरुषोऽन्यो वा सामान्येन फाण्टशब्देनाभिधीयते । फाण्टा श्चित्रास्त्रपाणय इत्याहुः । वाहेबाढमिति भृशं चेत् । क्रियाविशेषणमेवैतत् स्वभावात् । वाढविक्रमा इति तु विस्पष्टपटुवत्समासः । वाहितमन्यत् । परिपूर्वस्य वृदेवहा परिदृढ इति प्रभुश्चेत् । हकारनलोपे ढत्वे च निपातनात् । परिवृढः प्रभुः । परिवढय्य गतः । पारिवृढी कन्या । अन्यत्र परिवृहितं परिवृहितम् । केचित्तु लग्नविरिब्धम्लिष्टफाण्टवादानि धात्वर्थस्य सक्ताद्ययंविषयभावमात्रे भवन्तीत्याहुः । तेषां लग्नं सक्तेनेत्याद्यपि भवति । यथा लोन्नि हमिति ॥ ७१ ॥ *आदितः ॥ ४॥ ४ । ७२॥ आकारानुबन्धगद्धातोः परयोः क्तयोरादिरिद् न भवति । जिमिदा, मिन्नः । मिन्नवान् । जिविदा, क्षिण्णः । विण्णवान् । त्रिविदा, स्विन्नः । खिन्नवान् । श्विता, वित्तः । चित्तवान् । आदितां धातूनां भावारम्भे वेट्त्वादन्यत्र 'वेटोऽपतः' (४-४-६३ ) इति अनेनैव नित्यमिट्मतिषेधे सिद्धे योगविभागो यदुपाधेविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् । तेन विदक् ज्ञाने विदितः । विदिनवान् । हषितः । हृषितवान् । तुष्ट इत्यर्थः । इसादि सिद्धम् ॥ ७२ ॥ नवा भावारम्भे ॥ ४ । ४ । ७३ ॥ आरम्भ आदिक्रिया । आदितो धातो वे आरम्भे च विहितयोः क्तयोरादिरिड् वा न भवति । मिन्नमनेन । मेदितमनेन । अमिन्नः । प्रमेदितः । प्रमिन्नवान् । अमेदि
मन्थन विलोढनम् । प्रस्तुते तु सचलनमानम् ॥-क्षुभित मन्थेनेति । अत्र मन्धशब्देन मन्धानक उच्यते ॥-ध्वान्तमिति । ध्वनन्त्यत्राऽपश्यन्त. साहरिका हति ‘अपांञ्चाधारे ' इति क्त । Kधन्यतेस हेयतयेति कर्मणि वा क्तः ॥-म्लच्छितमिति । म्लेच्छत्यम्यक्त भवति स व्याप्ये वा त । कूटोच्चारितमित्यर्थ ॥-चित्रास्त्रपाणय इति । चित्रास्त्राणि पाणिषु येषा 'न सप्तमीन्दा-४
दिभ्यश्च'-इति पाणिशब्दस्य न माग निपात. ॥-बाढविक्रमा इति । यय: क्रियाविशेपर्ण तत्कथमन विक्रमाभिधायी बाढशब्द इत्याशङ्कायामाह-विस्पष्टपटुवदिति । यथा तत्र क्रियाविशेषणेन समासस्तथाऽत्रापि बादशब्देन क्रियाविशेषणेन स. ॥-हकारनलोपेति । अत्रापि हलोपनिपाताऽभावे पारिवृढीत्यर्थ ॥-लोनि दृष्टमिति । यथा लोमविषये हष्ट निपात्यते प्रयोगश्च लोमभि इष्टमिति तथाऽवापीस्पर्थः ॥-आदितः ॥-योगविभाग इति ॥ आदितो नवा भावारम्भे इत्येक एवं क्रियता किम् योगविभागेनेति ॥ तदुपाधेरिति । अयमर्थ' 'नवा भावारम्भे' इत्यनेन भावारम्भविवक्षायां विभाषा इति यदा कर्मणि कर्तरि वा विवक्ष्यते कस्तदा 'वेटोऽपत ' इत्यनेनापि निषेधो न स्यात् इत्यस्य पृथगारम्भ. ॥-विदित इति । 'गमहनविट्ठ'इत्यनेन विद्लुती इत्यस्यैव वेट्त्व न विदर इत्यस्यत्यतो नित्ममिट् ॥ न वाच्य 'गमहन'-इत्यत्र विद्ल इति सानुबन्धोपादानादेव विदकित्यस्य न भविष्यतीति । यतो नाऽनुबन्धकृतानीति