________________
D
o
orchoda.commad
aeeeeeeeeeeeeeeee
O
कित आदिरिः न भवति । युतः। युतवान् । युत्वा । लून:। लूनवान् । लूत्वा । कित इसेव । यविता । लविता ॥ ५९॥ ग्रहगुहश्च सनः ॥ ४।४ । ६०॥ ग्रहिगुहिभ्यामुवर्णान्ताच्च धातोर्विहितस्य सन आदिरिट् न भवति । ग्रह, जिघृक्षति । गुहौ, जुघुक्षति । रुरूपति । तुतूपति । लुलूपति । पुपूषति । यौतेस्तु 'इबृध'-1 (४-४-४७ ) इत्यादिना विकल्पः । यियविपति । युयूपति । गुहेरिटमपीच्छत्यन्यः । जुगूहिषन् मत्तगजोऽभ्यधावत् ।। ६० ॥ स्वार्थे ।। ४ । ४ । ६१ ॥ स्वार्थ विहितस्य सन आदिरिट् न भवति । जुगुप्सते । तितिक्षते । चिकित्सति । शीशांसते । दीदांसते । मीमांसते । वीभत्सते । स्वार्थे इति किम् । पिपठिषति ॥ ६१ ॥ ङीय व्यदितः क्तयोः।। ४ । ४ । ६२॥ डीयतेः श्वयतेरेदिद्भ्यश्च धातुभ्यः परयोः क्तयोरादिरिद् न भवति । डीनः । डीनवान् । उडीनः । उड्डीनवान् । शूनः। शूनवान् । ऐदितः, ओ लज, लग्नः । लग्नवान् । विजे, उद्विमः । उद्विग्नवान् । यते, यत्तः। यत्तवान् । त्रसे, त्रस्तः । वस्तवान् । दीपे, दीप्तः । दीप्तवान् । ङीयेति श्यनिर्देशात् । इयतोरडेव । डयितः । डयितवान् । क्तयोरिति किम् । डयिता । श्वयिता । लज्जिता । उद्विजिता । कृतैनृतघ्तै इत्येतेषां वेट्त्वेन क्तयोरिदमातिषेधे सिद्ध ऐदित्वं यङ्लयर्थम् ।। तेन चरीकृत्तः । चरीकृत्तवान् । नरीनृत्तः । नरीनृत्तवान् । चरीवृत्तः । चरीवृत्तवान् इत्यत्रानेकस्वरत्वेऽपीट्युतिषेधः ॥ ६२॥ वेटोऽपतः ॥ ४। ४ । ६३ ।। पतिवजितायत्रकचिद्विकल्पितटो धातारेकस्वरात्परयो क्तयोरादिरिद न भवति । रघौ, रद्धः । रद्धवान् । अञ्जो, अक्तः । अक्तवान् । गुहौ, गूढः । गूढवान् । शमू, शान्तः । शान्तवान् । असू , अस्त । अस्तवान् । केचिदस्यतेभावे क्ते नित्यामिटामिच्छन्ति । असितमनेन । सह, सोढः। सोढवान् । अपत इति किम् । पतितः। पतितवान् । सनि वेट्त्वात्माप्त प्रतिषेधः। एकस्वरादित्येव । दरिद्रितः। दरिदितवान् । कथं भोणुतः प्रोणुतवान् । 'ऋवणे यूगुंग. कितः (४-४-५८) इत्यनेन भविप्पति ॥ ६३ ॥ संनिवरदः॥ ४।४।६४ ॥ संनिविपूर्वाददतेः परयोः क्तयोरादिरिट न भवति । 'समणः । समण्णान् । न्यणः । न्यण्णवान् । व्यणः । व्यण्णवान् । संनिवेरिति किम् । अदितः । प्रार्दितः। कश्चित्केवलादपीच्छति । अण्णः । अण्णवान् ॥ ६४ ॥ अविदूरेऽभेः ॥ ४ । ४ । ६५ ॥ विदूरमतिविप्रष्टम् । ततोऽन्यदविदूरम् । अभिपूर्वादः परयोः क्तयोरविदृरेऽर्थे आदिरिद न भवति । अभ्यर्णम् । अविदूरमित्यर्थः । अभ्यर्णा सरित् । अभ्यणे शेवे । अविदूर इति किम् । अभ्यदितो कृपलः शीतेन । बाधित इत्यर्थः ॥६५॥ वतवृत्तं ग्रन्थे ॥ ४ । ४ । ६६ ॥ तेण्यन्तात्क्ते वृत्तमिति ग्रन्थविषये निपात्यते । गुणाभावेदप्रतिषेधौ *णिलुक् च निपातनात् । 'वृत्तो गुण छात्रेण । वृत्तं पारायणं चैत्रेण । वृतेरन्तभूतण्यर्थस्यैतत् सिध्यति । वर्तेस्तु ग्रन्थविषये वर्तितमिति प्रयोगनिवृत्त्यर्थ वचनम् । ग्रन्थ इति किम् । वर्तितं कुकुमम् । अन्ये तु ग्रन्थेऽपि वर्तितमिति प्रयोगमाद्रियन्त ॥६६ ॥ धृषशसः प्रगल्भे ॥ ४।४।६७॥ प्रगल्भो जितसभः।
अविनीत इत्यन्ये । धृपिशसिभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थे इट् न भवति । धृष्टः । विशस्तः। प्रगल्भ इत्यर्थः । प्रगल्भ इति किम् । धर्षितः । विशसितः । धृषः ॥-वेटोऽपतः॥-कथं वञ्चितः वचिण प्रलम्भने इत्यस्य भविष्यति ॥-संनिवेर-॥-समर्ण इति । 'रदादमूर्छ'-इति न रपृवर्ण'-इति ण. 'तवर्गस्य श्चवर्ग'-इति कनस्य णत्वम् ॥-अविदूरेऽभेः॥ 'सवताऽर्थप्रतीतेरऽभावान दर्शितम् ॥-वत्तवृत्तम्-॥-णिलुक्वेति । 'सेटूक्तयो.' इति नियमात 'णेरनिटि' इति न प्रामोतीत्याह ॥-वृत्तो गुण इति । उपचाराद्गुणप्रकरण गुण. ॥-वृषशसः
.
.
..
...
.