________________
owneecheerestreamsuneeeeeeeroen
क्षिपश् हिंसायामित्येतस्य न भवति । पक्षित्य । अस्यापि ग्रहणमियन्ये ॥ ८९ । क्षय्यजय्या शक्ती ॥ ४ । ३ । ९० ॥ क्षि जि इत्येतयोः शको गम्पमानायां यप्रययेऽयन्तादेशो निपात्यते । शक्यः क्षेतुं क्षय्यो व्याधिः । शक्यं क्षेतुं क्षय्यं वटुना । शक्यः जेतुम् जय्यः शत्रुः । शक्यं जेतुं जय्यं राज्ञा । शक्ताविति किम् । हे क्षेयम् , जेयम् ।। ९० ॥ क्रय्यः क्रयार्थे ॥४।३। ९१ ॥ क्रीणातेर्यप्रत्ययेऽयन्तादेशो | निपासते ‘क्रयार्थ' क्रयाय चेत्यसारितोऽभिधेयो भवति । क्रय्यो गौः । क्रय्यः कम्बल. । क्रयाथै इति किम् । केयं नो धान्यम् न चास्ति प्रसारितम् ॥ ११॥ *सस्तस्सि ॥४॥ ३॥ ९२ ॥ अशितीयनुवर्तते । धातोः सकारान्तस्याशिति सकारादौ प्रत्यये विषयभूते तकारोऽन्तादेशो भवति । वस् वत्स्यति । अवत्स्यत् । अवात्सीत् । वत्सीष्ट चैत्रेण । व्यतिवत्सीष्ट । विवत्सति । अद् जिघत्सति । घर , घत्स्यति । व्यतिघत्सीष्ट । स इति किम् । यक्षीष्ट । यक्ष्यति । सीति किस् । वसिपीष्ट । वसिप्यते । आशतीयेव । आस्से । वस्से । विपयसप्तमीविज्ञानात् 'अवात्ताम् अवात्तेत्यत्र भागेव सस्य तकार ॥ ९२ ॥ दीय दीङः क्ङिति स्वरे ॥४ । ३ । ९३ ॥ दीङ ङिसशिति स्वरे परे दीयादेशो भवति । उपदिदीये । उपदिदीयाते । उपदिदीपिरे । उपदिदीयिध्वे । उपदिदीयिट्वे । उपदिदीयानः । दीडो डित्करणं यलुनिवृत्यर्थम् । उपदेधितः । विडतीति किम् । उपदानम् । स्वर इति किम् । उपदेदीयते । परोक्षायामिति सिद्धे पिङति स्वरे इत्युत्तरार्थम् ।।९३ । 'इडेत्पुसि चाता लुक् ॥४ । ३ । ९४ ॥ क्ङिस्यशिति स्वरे इटेि एकारे पुति च परे आकारान्तस्य धातारन्तस्य लुम् भवति । पपतुः । पपुः । डिच, अदधत् । आहत । संस्था । प्रपा । इद् , पपिथ, तस्थिय । यङ्लुपि, दादितुम् । दादितव्यम् । एत् , व्यतिरे । व्यतिले । पुस् , उदगुः । अदुः । अयुः। अरुः । अलुः। क्ङिन्तीत्येव । दानम् । ददौ । अशितीत्येव । यान्ति । वान्ति । व्यत्परे । व्यत्यले । स्वर इत्येव । ग्लायते । अक्ङिदथै शिदर्थं चेडादिग्रहणम् ॥ ९४ ॥ संयोगा। देवाशिष्येः ॥४।३।९५ ॥ धातोः संयोगादेराकारान्तस्य विङत्याशिपि परेऽन्तस्यैकारादेशो वा भवति । ग्लेयात् । ग्लायात् । म्लेयात् । म्लायात् । अपच्छायादित्यत्र तु छकारस्य द्वित्वे सति संयोगादित्वस्प लाक्षणिकखान्न भवति । संयोगादेरिति किम् । यायात् । धातोरियेव । नियोयात् । विडतीत्येव । ग्लासीष्ट ।। आशिपीति किम् । ग्लानः । म्लानः ॥ ९५ ॥ गापास्थासादामाहाकः॥४।३।९६ ॥ एषामन्तस्य क्ङियाशिष्येकारो भवति । गै, गेयात् । गास्थोमध्ये पाठाद् भौवादिकयोः पै पा इसेतपोः पाशब्देन ग्रहणम् । पेयात् । पे इत्यस्प नेच्छन्सन्ये । आदादिकस्य पायात् । स्था, स्थेयात् । सो से वा, अवस्यात् । से क्षये इत्यस्य नेच्छन्त्यन्ये । दासंज्ञ, देयात् । धेयात् । माक् मेयात् । हांक हेयात् । हाकः ककारो यङ्लुप्निदृत्त्यर्थः । जहायात् । शेषाणां यङ्लुप्यपि भवति । जागेयात् । पापेयात् । तास्थयात् । अवसासेयात् । दादेयात् । दाधेयात् । मामेयात् । एपामिति किम् । यायात् । क्डिन्तीत्येव । गासीष्ट । पासोष्ट ॥ ९६ ॥
॥-सस्तः सि॥-अवात्तामिति । न च सिचो लुपः स्थानित्यादविप्यति इति वाच्यम् । यत सकारे त उक्त सस्प वर्णविधित्वात् ॥-इडेत्पुसि-॥-प्रपेति । प्रपीयत इति 'उपसर्गादात 'इत्यङ् । यदा तु प्रपिबन्त्यस्यामिति वाक्ये स्थादिभ्य' कस्तदा किद्वारमेव ॥-गापास्था-॥ गाड्मेमादा यङ्लुयन्ताना ग्रह । अन्यथामीपामात्मनेपदित्वात् किदाशीन सभवति ॥-नेच्छन्त्यन्ये इति ।