________________
•
च० प.
१२१॥
भवति । अविभयुः । अजुवुः । अविभरुः । ऐयरुः । अजागरुः । पु, अर्पयति । रेपयति । व्लेपयति । इपयति । क्रोपयति । नाम्यन्तस्येत्येव । अनेनिजुः । मापयति । दापयति ॥ ३ ॥ *लघोरुपान्त्यस्य ॥ ४ । ३ ॥ ४ ॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति प्रसये परे गुणो भवति । भत्ता । गोप्ता । वर्तिता । भेदनम् । गोपनम् । वर्तनम् । वेत्ति । दोग्धि । ननर्ति । लघोरिति किम् । ईहते । उहते । उपान्त्यस्येति किम् । भिनत्ति। रुणद्धि । तृणत्ति । कृणत्ति । अक्ङितीत्येव । भिन्नः। भिन्नवान् । वेभिद्यते । मरीमृज्यते ॥ ४ ॥ मिदः श्ये ॥४॥३॥५॥ मिदेरुपान्त्यस्य श्ये परे गुणो भवति । मेद्यति। मेद्यतः। मेद्यन्ति ॥५॥ *जागुः किति ॥ ४ ।३।६ ॥ जागर्तेः किति प्रत्यये परे गुणो भवति । जागरितः । जागरितवान् । जागर्यते । जागर्यात् । को, जाग. । जजागरतुः । जजागरुः । कितीति किम् । जागृतः । जाग्रति । जाग्रत् । जागृयात् । जागृविः । इह कस्मान्न भवति जजागृवानिति । जागर्नेः कसुरनभिधानाद्भापायां नास्तीत्येके । गुणमेवेच्छन्त्येके । जजाग| वान् । अपरे तु कसुकानयोगुणप्रतिषेधमेवाहुः । *जजागृवान् । व्यतिजजाग्राणः । क्ङिति प्रतिषेधे प्राप्ते वचनम् । अविङति तु पूर्वेणैव गुणः । जागरिता ॥ ६ ॥ ऋवर्णदृशोङि ॥ ४ । ३।७ ॥ ऋवर्णान्तानां धातूनां दृशश्वाङि प्रत्यये परे गुणो भवति । मा भवानरत् । असरत् । असरताम् । अजरत् । अजरताम् । अदर्शत् । अदर्शताम् ॥ ७ ॥ स्कृच्छृतोऽकि परोक्षायाम् ॥ ४ । ३ । ८॥ स्कृऋछ इत्येतयोकारान्तानां च धातूनां नामिनः परोक्षायां परतो गुणो भवति अकि ककारोपलक्षितायां कसुकानरूपायां न भवति । स्कृ, संचस्करतुः । संचस्करु । ऋङ्, आनर्छ । आनर्छतुः । आनछुः । ऋत्, कृ, विचकरतुः । विचकरुः । तृ, तेरतुः । तेरुः । शृ. विशशरतुः । विशशरुः । दु, विददरतुः । विददा पृ, निपपरतुः । निषपः। स्कृ इति कृगः सस्सट उपादानादिह न भवति । चक्रतुः । चक्रुः । उत्तरेणैव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोग परिग्रहार्थम् । विचकार निजगारेत्यादौ परत्वाद्वृद्धिरेव । अकीति किम् । संचस्कृवान् । संचस्क्राणः । आनृच्छ्वान् । विचिकीर्वान् । वितितीर्वान् । विततिराणः । विशिशीर्वान् । “विशशिराणः । निपुपूर्वान् । निपपुराणः । काने पूर्व द्वित्वम् पश्चादिरादिः स्वमपनीय प्रत्ययत्वे कृते 'नामिनो गुण.' इत्यनेनैव गुण सेत्स्यति । आगमत्वे तु पोर्धातुग्रहणेन ग्रहणात् अर्पयतीत्यत्रैव गुण सिद्धयति रेपयतीत्यादौ तु गुरूपान्त्यत्वान्न सिद्धयति । प्रत्ययत्वे तु पो सर्वत्र सिध्यति । सत्यम् । पो प्रत्ययत्वे कृतेऽरीरिपत् अदीदपदित्यादावुपान्त्यत्वाभावात् 'उपान्त्यस्यासमानलोपि'-इत्यनेन इवत्व न स्वादिति ॥-लघोरिति । गनु 'नामिना गुण - इत्यनेनान्त्यविधानसामध्यांदनेनोपान्त्यस्यैव भविष्यति किमुपास्यग्रहणेन । न च वाच्य पूर्वेणाडिति गुणोऽनेन तु फ्टित्यपि गुणो भवत्येतदर्थम् । 'जागु किति' 'प्रवर्गश'-इति सूत्रद्रयकरणात् । न । लघोरिति सति जागतं. कित्येव गुण इति विपरीतनियमाशा स्यात् , अनामिनो वा गुण स्यात् इति सदेहनिरासार्थमुपास्यग्रहणम् ॥-जागुः किति ॥-जजागृवानितीति । एके सर्वथापीद न मन्यन्तेऽत परमतेन दर्शितम् ॥-स्कृच्छतो-|-परिग्रहार्थमिति । तेन सस्क्रियते सचेस्कीयते सरिकयात् इत्यादो 'क्यदाशीये' इति गुणो न भवति । 'सयोगा| रत ' इति इट् न विकल्पेन ।-विततिराण इति । व्यतिहारे कर्मण्यात्मनेपदम् ॥-विशशिराण इति । विशशरे 'ऋ. शून ' इत्यनेन नवा करत्वे विबे इति वा वाक्ये 'तन सु'
cadeeo
॥२२॥