________________
च०
२०॥
धातोः प्रत्ययेनाभिसंवन्धो नाकारणेति प्रत्ययाकारस्यापि दीर्घो भवति । अस्येति किम् । चिनुवः । चिनुमः । रुवः । रुमः । *आकारस्य दीर्घत्वेन विशेषणमाकारो दीर्घ एव यथा स्यात् न प्लुतः तल्लक्षणयोगेऽपीत्येवमर्थम् ॥११॥ अनतोऽन्तोऽदात्मने।४।२।११४॥ अनकारात्परस्यात्मनेपदसंबन्धिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । लुनते । लुनताम् । अलुनत । आत्मनेपदस्येति किम् । चिन्वन्ति । लुनन्ति । अनत इति किम् । *पचन्ते । पच्यन्ते ॥ ११४ ॥ शीङो रत् ॥ ४ । २ । ११५ ॥ शीङः परस्यात्मनेपदसंवन्धिनोऽन्तो रत् इत्ययमादेशो भवति । शेरते । शेरताम् । अशेरत ॥ ११५ ॥ *वेत्तेनवा ॥ ४।२।११६ ॥ वेत्तेः परस्यात्मनेपदसंवन्धिनोऽन्तो रत् इत्ययमादेशो वा भवति । संविद्रते । संविद्रताम् । समविद्रत । पले, सविदते । संविदताम् । समविदत । आत्मन इत्येव । विदन्ति । वेत्तेरिति किम् । रौधादिकस्य मा भूत् । विन्दते ॥ ११६ ॥ तिवां णवः परस्मै ॥ ४ । २ । ११७ ॥ वेतेः परेषां परस्मैपदसंवन्धिनां तिवादीनां नवानां प्रत्ययानां स्थाने परस्मैपदसंवन्धिन एव *णवादयो नवादेशा यथासंख्यं वा भवन्ति । वेद । विदतु. । विदुः । वेत्थ । विदथुः । विद । वेद । विद । विद्म । वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेद्मि । विद्वः । विद्मः ॥ ११७ ॥ बेगः पश्चानां पञ्चाहश्च ॥ ४ । २ । ११८॥
गः परेषां तिवादीनां पञ्चानां स्थाने यथासंख्यं पञ्च णवादय आदेशा वा भवन्ति तत्संनियोगे ब्रूग आह इत्यादेशश्च भवति । आह । आहतुः। आहुः। आत्थ । 'नहाहोघेतो' (२-१-८०६ ) हकारस्य तकारः । आहथुः । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीपि । ब्रूथ| पश्चानामिति किम् । बूथ ॥ ११८ ॥ 'आशिषि तुह्योस्तातङ् ॥ ४ । २ । ११९ ॥ आशिषि विहितयोस्तुह्योः स्थाने तातङ् आदेशो वा भवति । जीवताद्भवान् । जीवतु भवान् । जीवतात् त्वम् । जीव खम् । आशिपोति किम् । जीवतु । जीव । ङित्करणं "गुणनिषेधार्थम् ॥ ११९ ॥ *आतो णव औः ॥ ४ । २ । १२० ॥ वेति निवृत्तम् । आकारात्परस्य णवः स्थाने
सति आकारान्तत्व तत्र लाक्षणिकत्वात् आकारस्य न ईत्वम् । तेनाब न ईकार. ॥-आकारस्य दीर्घत्वेनेति । वृत्तावाकारो दोघी भवतीति किमर्थमुक्त यत आकारो दीर्घ एवेत्याशहा ॥न त इति । स्वमते 'सम्मत्यसूया' इत्यत सूत्रात् अन्त्य इत्यधिकारे 'प्रश्ने च'-इति शुतो न प्राप्नोति । पर केचिदनन्त्यस्यापि इच्छन्ति । तन्मतेऽपि माभूदित्यर्थः ॥-तल्लक्षणयोगेऽपीति । तस्य पुतस्य यलक्षण तद्योगेऽपीत्यर्थ ॥-अनतो-||-पचन्ते । पच्यन्ते इति । प्राच परो विधिरिति व्याख्यानेन अकारस्य स्थानिय भूतपूर्वकन्यायाद्वा ॥-शीडो-|| बलुपि व्यति शेश्यते ॥-वेत्तेः-॥ वेत्तस्तिनिशो यलुपि निवृत्यर्थश्च तेन व्यतिवेविदते ॥-तिवां--णवादय इति । अमीषा तदादेशोति न्यायात्परोक्षाकार्य न भवति ॥-आशिषि-॥-गुणनिषेधार्थमिति । इद चोपलक्षण तेन विस्करणेन तदादेशेति न्यायात्स्थानिनस्तुवो विश्व बाध्यते । तेन युतात् रुतादित्यादी विधानप्रत्ययाभावात् 'उत ओपिति '-इति नौकार । न तु शिवमपि बाध्यते । यतस्तस्यैव शितो तित्व ततो विश्वेन वित्चमेव हन्यते न तु शित्त्व ततश्च स्तात् इत्यादो विच्छति प्रत्यये 'भात्योलक्' इति लुक् सिद्ध ॥-आतो-॥-चेति निवृत्तमिति ॥ 5 वेति शितीति सबद्ध णमहणातनिवृत्ती निवृतम् । अव ओकारेणैव सिद्धे औकारकरण ददरिद्रावित्याधर्थम् । अन्यथा 'अशियस्सन् '-इत्यालोपे इद म सिध्येत् । नन्यनामादेशेन भाग्यम् , १९
॥२॥
e