________________
'प्रतिज्ञायते । भिन्नवग्यामित्यत्र प्रत्ययदकारस्य परेऽसत्त्वात् सूत्रे चाश्रुतत्वान्न भवति । कथं चणिः चीर्णवानिति । च इति धात्वन्तरं चरतिसमानार्थम् "क्तक्तवतुविषयमामनन्ति ॥ ६९॥ सूयत्याद्योदितः॥ ४॥२॥ ७० ॥ सूययादिभ्यो नवभ्यो धातुभ्य ओकार इयेषां तेभ्यश्च परस्य क्तयोस्तकारस्य नकारादेशो भवति । घूडौच , सूनः । सूनवान् । दूङ्च् , दूनः । दूनवान् । दीङ्च्, दीनः। दीनवान् । धीच्, धीन। धीनवान् । मीञ्च् , मीनः। मीनवान् । रीङ्च् , रीणः। रीणवान् । लींच, लीनः । लीनवान् । डीच्, डीनः । डीनवान् । बीच , बीणः वीणवान् । इति सूयत्यादयः । ओदित् , ओ लजैङ् ओलस्जैति वा लग्नः । लग्नवान् ।
ओविजेति, उद्विग्नः । उद्विग्नवान् । ओप्पायैङ् पीनः। पीनवान् । वो चि, शूनः । शूनवान् । ओ ब्रश्वौत, वृक्णः । वृक्णवान् । एभ्य इति किम् । पीतः । पीतवान् । सूयतीति श्यनिर्देशः मूतिसुबत्योनिवृत्त्यर्थः ॥ ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ॥४ । २।७२॥ ख्याध्यावर्जितस्य धातोर्ययञ्जनं तस्मात्परा याऽन्तस्था तस्याः परो य आकारस्तस्मात्परस्य क्तयोस्तकारस्य नो भवति । स्त्यानः । स्त्यानवान् । निद्राण. । निद्राणवान् । ग्लानः । ग्लानवान् । व्यञ्जनेति किम् । यातः । यातवान् । अन्तस्थेति किम् । स्नातः । स्नातवान् । आत इति किम् । च्युनः। च्युतवान् । द्रुतः । द्रुतवान् । प्लुतः । प्लुतवान् । घातुना व्यञ्जनस्य विशेषणादिह न भवति । निर्यातः निर्यातवान् । द्विर्भावेप्यन्तस्थेत्यभेदाश्रयणाद्वहिरङ्गत्वेनासिद्धेश्च न भवति । अख्याध्य इति किम् । ख्यातः । ख्यातवान् । ध्यातः । व्यातवान् । *आतः परस्येति किम् । दरिद्वितः दरिद्रितवान् ॥ ७१ ॥ · पूदिव्यश्चनाशायूतानपादाने ॥ ४।२। ७२ ॥ पू दिव् अञ्च् इत्यतेभ्यो यथासंख्यं नाशेऽद्यूते अनपादाने चार्थे परस्य क्तयोस्तकारस्य नकारादेशो भवति । पूना यवा विनष्टा इत्यर्थः। आयूनः । परिघुनः । समनौ शकुनेः पक्षौ । संगतावित्यर्थः । नाशाद्यूतानपादान इति किम् । पूतं धान्यम् । द्यूतं वर्तते । उदक्तमुदकं कूपात् । कथं व्यक्तम् । अञ्जभविष्यति ॥ ७२ ॥ सेनासे कर्मकतरि ॥ ४।२।७३ ॥सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य ग्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारो भवति । सितो ग्रासः स्वयमेव । ग्रास इति किम् । सितं कर्म स्वयमेव । कर्मकर्तरीति किम् । सितो ग्रासो मैत्रेण । सितो गलो ग्रासेन ॥ ७३ ॥ क्षेः क्षी चाध्याथें ॥ ४।२।७४ ॥ ध्यणों भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य क्षि इत्येतस्मात्परस्य नकारो भवति तत्संनियोगे चास्य क्षी इत्ययमादेशो भवति । कतरि, क्षीणः क्षीणवान् मैत्रः । अधिकरणे, 'इदमेषां क्षीणम्' । अध्याथै इति किम् । “क्षितमस्य' भावे क्तः। क्षिप्श् हिसायामित्यस्य सानुवन्धत्वान्न ग्रहणम् । अन्यस्तु तस्यापि एकदेशो रेफो वर्णग्रहणेन न गृह्यते । कसादऽसनिधानात् । यतो दकार स्वतन्त्र एवं वर्णोऽत्राऽस्त्यऽतो रेफोऽपि स्वतन्त्र एव ग्राह्यः ॥-प्रतिज्ञायते इति । पूर्वांचायनिश्चीयते न तु लेखितु शक्यते ॥-प्रत्ययदकारस्येति । 'धुटस्तृतीयः' इति विहितस्य ॥-सूत्रे चाश्रुतत्वादिति । रदादिति धातुदकारस्यैव भणनादित्यर्थः ॥ तक्तवतुविषयमिति । तेन चर्यते स्मेति धात्वन्तरेण वाक्यम् ॥व्यञ्जनान्तस्थातोऽख्याध्य इति । ख्याश्च ध्याश्चेति कृते यदा कीबे इस्वस्तदा उसोऽत. सूत्रत्वाछुप् ॥-बहिरङ्गत्वेनेति । उपसर्गद्विपदाश्रयत्वाद्वहिरनं यकारस्य द्वित्वम् ॥-आतः परस्येति किमिति । ननु भात इति किमित्यऽनयापि च्यावृत्या सिद्ध किमऽनया । सत्यम् । तत्राकारात् विहित एव नास्ति । अन्न त्वाकाराद्विहित परमिटा व्यवहित. ॥-पूदिव्यञ्चे-॥-अनपादाने