________________
श्रीइमश०
७२६॥
जन्यते । जाजायते । जंजन्यते । मजाय । मजन्य । श्ये तु 'जा ज्ञाजनोत्यादौ ' ( ४-२-१४ ) इति नियं जादेशः । जायते । य इत्यकारान्त निर्देशादिह न भवति । खन्यात् । सन्यात् । अन्यथा यीति क्रियेत । केचित्रापीच्छन्ति । खायात् । सायात् । क्ङितीत्येव । सान्यम् | जन्यम् || ६२ ॥ तनः क्ये || ४ | २ | ६३॥ तनोतेरन्तस्य क्ये परे आकारो वा भवति । तायते । तन्यते । क्य इति किम् । तन्तन्यते ॥ ६३ ॥ तौ सनस्तिकि ॥ ४ । २ । ६४ ॥ सनियेतस्य तिकि प्रत्यये परे तौ लुगाकारौ वा भवतः । पणू, सतिः । सातिः । सन्तिः । पण् भक्तौ । सतिः । सातिः । सान्तिः ॥ ' अहन्यञ्चम- ' ( ४-१-१०७ ) इत्यादिना दीर्घः ॥ ६४ ॥ *वन्याड्पञ्चमस्य ॥ ४ । २ । ६५ ॥ धातोः पञ्चमस्य वनि मत्यये परे आकारो भवति । आङिति * आकारान्तरम श्लेपादननुनासिकोऽनुनासिकश्चायमादेशः । अन्यथा 'लि लौ' (१–३–६६ ) इति ज्ञापकादननुनासिक एव स्यात् । जन् विजावा । खन् विखावा । क्रम् दधिक्रावा । गम् अग्रेगावा | घुणू ध्वावा । घूर्ण घूरावा । ओण अवावा । इवु व्याप्तौ च । वनि, 'वोः प्वय्व्यञ्जने लुक्' ( ४-४-१२२ ) इति वलोपे नकारस्यात्वे यावा । पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । ङित्करणं ध्वावेत्यादौ गुणनिषेधार्थम् ॥ ६५ ॥ अपाञ्चायश्चिः क्तौ ॥ ४ । २ । ६६ ।। अपपूर्वस्य चायतेः क्तिमत्यये चिरादेशो भवति । अपचिति ॥ ६६ ॥ ह्लादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ हादतेः क्तक्तवत्वोः क्तौ च परतो हद् आदेशो भवति । हुन्न । उन्नवान् । महन्नवान् । उत्तिः । महत्ति । क्तयोश्चेति किम् । खादित्वा ॥ ६७ ॥ *ऋल्वादेरेषां तो नोऽप्रः ॥ ४ । २ । ६८ || ध्रुवर्जितादृकारान्ताद्धातोर्वादिभ्यश्च परेपामेषां क्तिक्तक्तवतूनां तकारस्य नकार आदेशो भवति । नृ तीर्णिः । तीर्णः । तीर्णवान् ॥ कृ, कीर्णिः । कीर्णः । कीर्णवान् । गृ गौणिः । गीर्णः । गीर्णवान् । ल्वादि, लुनिः । लून. । लूनवान् । धृनिः । धूनः । धूनवान् । लीनि । लीन'। लीनवान् । अम इति किम् । पूर्तिः । पूर्णिरिसपि कश्चित् । पूर्त. । पूर्तवान् । स्वादिषु ये ऋकारान्ता स्तुप्रभृतयस्तपाग्रग्रहणेनैव सिद्धे तत्र पाठः प्वादिकार्यार्थः । क्राद्यन्तर्गणो ल्वादिः ॥ ६८ ॥ - रदादमूर्च्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९ ॥ मूच्छिमदिवर्जिताद्रफदकारान्ताद्धातोः परस्य क्तयोः क्तक्तवत्वोस्तकारस्य तत्संनियोगे धातुदकारस्य च नकारो भवति । पूरै, पूर्णः । पूर्णवान् । गुरै, गुर्ण । गूर्णवान् । भिद्, भिन्नः । भिन्नवान् । छिद्, छिन्नः । छिन्नवान् । रदादिति किम् । चितः । चितवान् । अमूर्च्छमद इति किम् । मूर्तः । मूर्तवान् । मत्तः । मत्तवान् । कृतस्यापत्यं कार्तिरिसत्र ' 'असिद्धं बहिरङ्गमन्तरङ्गे ' इति न भवति । क्तयोरिति किम् । पूर्तिः । भित्तिः । कथं चूर्णिः । चुरेरौणादिको णिः । रदस्येति किम् । चरितम् । उदितम् । इटा व्यवधाने न स्यात् । कृत कृतवानित्यत्र तु वर्णैकदेशानां वर्णग्रहणेनाग्रहणान्न भवति । रेफात्परेण स्वरभागेण व्यवधानाद्वा । ऋकारस्य हि मध्येऽधमात्रां रेफः अग्रे पश्चाच्च तुरीयः स्वरभागः ॥-वन्याङ्——-आकारान्तरप्रश्लेषादिति । आवाऽसावाद् च यद्वा आश्श्र आश्र तयोरनुबन्धी ड् इति ॥ ऋल्वादे - |- पूर्णिरित्यपीति । ते युत्तरसूत्रेऽम इति कुर्वन्ति । नन्न च सूत्रे तयोरेव नत्वनिषेध । तो तु 'ऋल्वादे. - इति भवत्येव । नतु ऋकारान्तानामिरादेशे रेफान्तत्वादुत्तरेण भविष्यति कि ऋग्रहणेन । सत्यम् । उत्तरेण तयोर्भवति । अनेन तु तिक्तक्तवतुषु । अथ यत्यर्थम् ऋता सावित्युच्येत । तर्हि ऋता सावेव स्यात् कयोस्तूत्तरेणापि न स्यात् ॥ - रदादमूर्छ - - असिद्ध बहिरङ्गमिति । आररूपमित्यर्थं ॥ वर्णग्रहणेनाऽग्रहणादिति । ऋकारलक्षणो वर्ण तस्य
च० अ०
॥१६॥