SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ६ वतवान् । मनूयि , मतः। मतवान् । एपामिति किम् । शान्तः । दान्तः । तिव्गणनिर्देशाद्यङ्लुपि न भवति । वैवान्तः । तान्तः । अन्यत्र भवति । ययतः। रंरतः । नंनतः । जंगतः । जंघतः । ममतः । धुटीति किम् । यम्पते । यंयम्यते । क्डिन्तीति किम् । यन्ता । रन्ता ॥ ५५ ॥ यपि ॥ ४ ॥२॥५६॥ एपा धातूनामन्तस्य यपि परे लुग्भवति । 'वामः' (४-२-५७) इति वचनान्नान्तानामेवायं विधिः । हन् , प्रहस । मन् , प्रमत्य । वनति, प्रवत्य । तनादि, प्रतत्य । प्रसत्प । प्रक्षत्य। यपीति किम् । हन्यते । वन्यते । तन्यते ॥ ५६॥ वाम ॥ ४॥२॥५७॥ एपां मकारान्तानां यपि प्रत्ययेऽन्तस्य वा लुग्भवति । प्रयत्य । प्रयम्य । विग्त्य । विरम्य । प्रणत्य । प्रणम्य । आगत्य । आगम्य । एपामित्येव । उपशम्य ॥ ५७॥ गमां कौ ॥४।२।५८॥ एपां गमादीनां यथादर्शनं को विङति प्रत्ययेऽन्तस्य लुम्भवति । बहुवचनं प्रयोगानुसरणार्थम् । जनं गच्छति जनंगत् । कलिङ्गगत् । यम् , संयत् । वियत् । तन् , परीतत् । उपातत् । सन् , सुसत् । मन् , सुमत् । वन , सुवत् । क्षण, सुक्षत् । विक्षत् । अग्रगारेत्यौणादिको इः ॥५८॥ न तिकि दीर्घश्च ।। ४।२। ५९॥ एपां तिकि प्रत्यये लुग् दीर्घश्च न भवति । यन्ति । रन्तिः । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । क्षणिति लाक्षणिकोऽयं णकारः । तेन क्षन्तिरिति भवति । अन्यस्तोपदेशिकोऽयमिति मन्यते तन्मते क्षण्टिः । अन्तलोपे प्रतिपिद्धे 'अहन्पञ्चम'-(४-१-१०७) इत्यादिना दीर्घत्वं प्राप्त तदाप प्रतिपिध्यते । एपामित्येव । शान्तिर्भगवान् । तिकीति किम् । यतिः । रतिः । ततिः ।। ५९ ॥ आः खनिसनिजनः ।। ४ । २ । ६० ॥ खनादीनां धुडादौ पिडाते प्रत्यये परेऽन्तस्याकारादेशो भवति । खातः । खातवान् । खात्वा । खातिः। सन् , पणूयी दाने वनपण भक्ती वा । सातः । सातवान् । *सात्वा । सातिः । जन् , जातः । जातवान् । जाला । जाति । क्डिन्तीत्येव । 'चखन्ति । संसन्ति । जंजन्ति ॥६०॥ सनि ॥ ४ ॥२ । ६१ ।। खनादीनां धुडादौ सनि परतोऽन्तस्यात्वं भवति । सिपासति । खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवति । धुटीत्येव ।.सिसनिपति । 'इथ'-(४-४-४९) इत्यादिना वेट् । पिङतीत्यसंभवादिह न संवध्यते ॥ ६१॥ ये नवा ॥ ४।२ । ६२ ॥ खनादीनां ये पिङति प्रत्ययेऽन्तस्याकारो वा भवति । खायते । खन्यते । चाखायते । चंखन्यते । मखाय । प्रखन्य । सायते । सन्यते । सासायते । संसन्यते । प्रसाय | प्रसन्य । प्रसत्य । जायते । दर्शितौ इट्माप्ते । कौतु नियमाजेट ॥-जघत इति । कुटिल एत । यल्लुप् द्वित्व मुरन्त । 'अरे हिहन. '-इति घ । गत्यर्थत्वाद् पोर्न भवति ॥ केचित्तु यलुपि प्री नेच्छन्ति । तन्मते वधार्थीपि ॥-गमां को ॥-गमादीनामिति । गमादयोऽन्येऽपि बटुल शेया न तु 'यमिरमि'-इति सूत्रोका एप गमादिगणस्य तेभ्य पृथग्भूतत्वात् । अत एव सूत्रे यमामित्येव नोक्त रमिनमिहनीनामुदाहरणानि च न दर्शितानि ॥-न तिकि-॥-तेन क्षन्तिरितीति । नान्तप्रकृतणत्यबाधनाय मामिति बटुवचनात्प्रथममेव नकारः । समिति बहुवचनाम्यात्य कृतमपि वीन्ते फर्त्तव्ये निवर्चते या । अन्न सूत्रे यमादयो गमादयश्च गृयन्ते । न स्यनन्तरसूत्रोक्ता योरपि प्राप्ते सभवात् ॥-आः खनि-॥-खात इति । खायते स्म खन्यते स्मेति वा 'क'-इति वा के 'वेटोऽपत ' इऽभाव. ॥-सात्वेति । पणूयी दान इत्यस्यैवाय प्रयोग । पण भक्तापित्यस्य सनिवेव ॥ चंखन्तीत्यादि । तसि तु चहात. ससात जजात. । सनि-सिसनिपतीति । सनोते सनते 'णिस्तोरेव'-इति नियमान पत्वम् ॥-ये नवा ॥ प्रसायेत्यु भयो प्रसन्येति भक्त्यर्थस्य प्रसत्येति तु दानार्थस्य तनादित्वेन नलोपात्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy