________________
पसर्गस्य च छदेर्घपरे णौ ह्रस्वो भवति । प्रच्छाद्यतेऽनेनेति प्रच्छदः । परिच्छदः । उपच्छदः । छाद्यतेऽनेनेति छदः । सप्त छदा अस्य सप्तच्छदः । उरसछदः उरश्छदः । एवं दन्तच्छद । एकोपसर्गस्य चेति किम् । समुपच्छादः । समुपाभिच्छादः । घ इति किम् । प्रच्छादनम् । तनुच्छादनम् ॥ ३४ ॥ उपान्त्यस्यासमानलोपिशास्वदितो डे ॥ ४ । २ । ३५ ॥ समानलोपिशा मुक्ऋदनुबन्धवर्जितस्य धातोरुपान्त्यस्य उपरे णौ ह्रस्वो भवति । अपीपचत् । अदीदपत् । अचीकरत् । अलीलवत् । अत्र 'नित्यमपि द्विर्वचनं वाधित्वा प्रागेव इस्वो भवति ओणेऋदित्करणज्ञापकात् । तद्धि मा भवानोणिणत् इत्यत्र ऋदित्वादुपान्त्यस्वत्वमतिपेधो यथा स्यादित्येवमर्थं क्रियते । यदि चात्र नित्यत्वात्पूर्वमेव द्वितीयद्वित्वं स्यात्तदानुपान्त्यत्वादेव स्वत्वस्याप्तिरिति किं तन्निवृत्त्यर्थेन ऋदित्करणेन । एवं माभवानटिटत् मा भवानशिशत् इत्यादि सिद्धं भवति । उपरे णौ इति च न धातुर्विशिष्यते कि तर्हि तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि ह्रस्वो भवति । तेन गांनावमाख्पद अजूगुनत् । केचिदौतः स्थानिवद्भावेनोपान्त्यत्वाभावाद्धस्वं नेच्छन्ति । तेनाजुगोनत् । णावित्येव । ङे उपान्त्यस्यैतावत्युच्यमाने अलीलवदित्यादावन्तरङ्गावपि वृद्ध्यावादेशावदीदपदित्यादौ प्वागमं च वाधित्वा वचनसामर्थ्यात् ण्युपान्त्यस्य स्वरस्य ह्रस्व प्रसज्ज्येत । अपीपचदिसादौ प्युपान्त्यस्वराभावान्न स्यात् । णिग्रहणानुवृत्तौ तु ङपरे णावुपान्त्यस्य ह्रस्व इति सर्वत्र ह्रस्व सिद्धो भवति । ङ इति किम् । कारयति । पाचयति । उपान्त्यस्येति किम् | अचकाङ्क्षत् । येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणम् उत्तरार्थम् । असमानलोपिशास्वदित इति किम् । राजानमतिक्रान्तवानत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । स्वाभिनमाख्यत् असस्वामत् । तादृशमाख्यत् अततादत् । मातरमाख्यत् अममातत् । यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न सिध्यतीति वचनम् । यत्र
स्वरस्यैव लोपस्तत्र स्वदेशत्वात् स्थानिवद्भावेनैव सिध्यति । मालामाख्यत् अपमालत् । मातरमाख्यत् अममात् । अशशारत् । *अशुशुरत् । ननु यत्रापि स्वरव्यअनलोपस्तत्रापि अवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेन । सत्यम् । स्थानिवद्भावस्य
॥ - उपान्त्यस्या - || – नित्यमपीति । कृताकृतेति न्यायान्नित्यत्व यथा माभवानऽटिटदित्यादी ह्रस्वत्वे कृतेऽकृते च द्वित्व प्राप्नोतीति नित्य ह्रस्वस्तु द्वित्वे कृते न प्राप्नोतीत्यऽनित्य । न केवल प्राक्तु स्वर इत्यपेरर्थं ॥ - गोनावमाख्यदिति । गौनार्यद्वा गोसहिता नौ गोनी । 'मयूरव्यसक' - इति मध्यपदलोपी समास ॥-स्थानिवद्भावेनेति । स्वमते तु 'स्वरस्य परे' इति परिभाषाया अनित्यत्वमाश्रितमिति सूत्रपर्यन्ते वक्ष्यति ॥ चचनसामर्थ्यादिति । अन्यथा यदि वृद्ध्यावादेशौ स्याता । तदा उपान्त्यत्वाभावेन ह्रस्वत्वाभावात् वचननैरर्थक्य प्राप्नोति ॥ ण्युपान्त्यस्येति रुपान्त्यस्तस्य तथाहि डि इति स्थिते ऊकार उपान्त्य ॥ अचकाङ्क्षदिति । वचनादेकेन वर्णेन व्यवधानं न खनेकेन ॥ उपान्त्यग्रहणमिति । येन नाव्यवधानमिति न्यायादेकेन वर्णेन व्यवहितोऽपि स्वरो ह्रस्वस्य स्थानी भविष्यति किमुपान्त्यग्रहणेनेत्याह- उत्तरार्थमिति । 'ऋवर्णस्य' इत्यत्रेत्यर्थ । अन्यथा तत्रान्त्यस्यापि ऋकारस्य ऋत् स्यात् । न केवलमुत्तरार्थमिहार्थं च । अन्यथालीलवदित्यत्र वचनसा
कृताया वृद्धो स्वस्यात् । न चान्तरङ्गत्वाद्वृद्धि । निरवकाशत्वादस्य वृद्धौ सावकाशत्यमिति न वाच्य यतो मुख्याभावे येन नाव्यवधानमाश्रीयेतेति ॥ - स्थानिवद्भावेन न सिध्यतीति । अयमर्थ 'स्वरस्य परे ' इति स्वदेश यानी न तु स्वरव्यञ्जनादेश ॥ अशशारत् । शारण दो असादात् णिच् ॥ अशुशुरत | शुरणि वि० अस्मादजन्तात् 'णिज्