________________
हेमश० ॥१३॥
च ॥ ४ । २ । २९ ॥ अपरिवेषणे वर्तमानस्य यमेर्णिच्यणिचि च णौ परे वा इस्वो भवति विणम्परे तु णौ वा दीर्घः । यमयति । अथामि । अयमि । यामैयामम् | यमंयमम् । अपरिवर्षेण इति किम् । यामयति अतिथीन् । यामयति चन्द्रमसम् । यमः परिवेपण इत्यन्ये । तन्मते उदाहरणमत्युदाहरणयोर्व्यत्यास । 'णानिति सिद्धे अस्य णिचि चेति वचनात् अन्येषां णिचि न भवति । स्यमिण वितकें, स्यामयते । अस्यामि । स्यामंस्यामम् । शमिण आलोचने । निशामयते । न्यशामि । निशामंनिशामम् ॥ २९ ॥ मारणतोषणनिशाने ज्ञश्च ॥ ४ । २ । ३० ॥ एष्वर्थेषु वर्तमानस्य जानातेणिचि अणिचि चणौ इस्वो भवति विणम्परे तु वा दीर्घः ॥ चकारो णिचि चेत्यस्यानुकर्षणार्थः । मारणे, "संज्ञपयति पशून् । तोपणे, ज्ञपयति गुरून् । विज्ञपयति राजानम् । निशाने, ज्ञपयति शरान् प्रज्ञपयति शखम् । अज्ञापि । अज्ञपि । ज्ञापंज्ञापं, ज्ञपंज्ञपम् । निशानं तेजन तीक्ष्णीकरणम् । अन्ये तु निशामन इच्छन्ति । निशामनम् आलोचन प्रणिधानमाह । इह पूर्वत्र च सूत्रे चिणचि च णौ रूपसाम्येऽप्यर्थभेदः । * एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापार ॥ ३० ॥ चहणः शाठ्ये ॥ ४ । २ । ३१ ॥ चहेशौरादिकस्य शाख्येऽर्थे वर्तमानस्य णिचि णौ परे ह्रस्वो भवति निणम्परे तु वा दीर्घः । चयति । चाहिष्यते । चहिष्यते । चाचाहम् । २ । णित्करणादौवादिकस्य न भवति । चाहयति । अचाहि । चाचाहम् । शाठ्य इति किम् | अचहि । चचम् | चहयतीत्येतददन्तत्वात्सिद्धम् । दीर्घार्थं वचनम् ॥ ३१ ॥ ज्वलललग्लास्नावनूवमनमोऽ नुपसर्गस्य वा ॥ ४ । २ । ३२ ॥ एषामनुपसर्गाणां णौ परे ह्रस्वो वा भवति । ज्वलयति । ज्वालयति । इलयति । द्वालयति । ह्मलयति । झालयति । ग्लपयति । ग्लापयति । त्रपयति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अज्वालि । अज्वलि । ज्वालंज्वालम् । ज्वलंज्वलम् । इत्यादिषु 'दीर्घविकल्पः सिद्ध एव । अनुपसर्गस्येति किम् । प्रज्वलयति । प्रलयति । पालयति । मग्लापयति । प्रस्नापयति । प्रवनयति । प्रवमयति । प्रणमयति । ग्लानो |राप्ते शेषाणां तु प्राप्ते विभाषा ॥ ३२ ॥ छरिस्मन्त्रकौ ॥ ४ । २ । ३३ ॥ छदेरिस्मन्त्रकिप्परे णौ ह्रस्वो भवति । इसि छदि । मनि, छद्म । त्रटि, छञ्चम् । छञ्ची | किपि, उपच्छत् । धामच्छत् । त्रडिति किम् | त्रे माभूत् | छात्रः ॥ ३३ ॥ एकोपसर्गस्य च घे ॥ ४ । २ । ३४ । एकोपसर्गस्यानु
परिवेषणे इति । परिवेषणमिह भोजनविपथि परिवेपण सूर्यादिवेष्टन च गृह्यते ॥ यामयत्यतिथीनिति । परिवेपणक्रियया तान् व्याप्नोतीत्यर्थ ॥ णाविति सिद्धे इति । अधिकारानुमिते इत्यर्थं ॥ मारणतोषण - ॥ चकारो णिचि चेत्यस्येति । धात्वाकर्षणे पूर्वेण सिद्धे फलाभावात् प्रकृतेरपि स्थित प्रत्ययमाकपति । स्वरूपाख्यानमिद यावताऽधिकारायातमेव चकारेणानुम ॥ एकत्र स्वार्थ इति । स्वायें प्रथममेव मारणे वर्त्तते । अन्यत्र यते । अन्यथा चानुकुष्ट नोचस्त्रेति स्यात् ॥ संज्ञपयतीति । आदेशादागम इति न्यायात् स्यात्प्रागेव प्यागम मरणे ततो मारणे इत्यर्थ ॥ चहणः शाठये । नन्यदन्तस्य चहण भौवादिकस्य च चहे सर्वाण्यपि सेस्यन्ति किमनेन । सत्यम् । सूत्र विना चाहिष्यते इति न सिध्यति । तथाहि - भौयादिकस्य स्वरान्तस्याभावाद 'स्वरग्रह' इति जिए नायाति । चौरादिकस्य तु निटि सत्यपि अदन्तत्वादृषभावे न सिध्यति । अथ णिगि सति भौवादिकस्य साध्यते । तर्हि प्रयोक्तृव्यापार आयातस्तस्मिन् सति अर्थभेद स्यात् अत सूत्र कार्यम् ॥ ज्वलहल - ॥ दीर्घविकल्पः सिद्ध एवेति । अनेन वाह्रस्वविधानात्तेन त्रिणम्परे इति नानूयते
च० ॐ०
॥१३॥