________________
| *कगेवनूजनैऋषकसत्रः॥४।२।२५॥ एषां णौ परे इस्वो भवति बिणम्परे तु णौ वा दीर्ण भवति। कगे, कगयति । अकागि । अकगि । कागंकागम् । कगंकगम् । वन् उपवनयति । उपावानि । उपावनि । अवानि । अवनि । उपवानमुपवानम् । उपवनमुपवनम् । वानवानम् । वनवनम् । जनै, जनयति । अजानि । अजनि । जानजानम् । जनंजनम् । जृष् जरयति । अजारि । अजरि । जारंजारम् । जरंजरम् । कस् , कमयति । अनासि । अनसि । नासंकासम् । नसनसम् । रन्जि, रजयति मृगान्व्याधः । अराजि । अरजि । राजराजम् । रजरजम् । णौ मृगरमणे (४-२-६१) इति नलोपः । नलोपे वचनस्य चरितार्थत्वात नलोपाभावे, अरञ्जि, रअंरक्षम् इत्यत्र वा दीघों न भवति । केचित्तु ष्णसूच निरसने इत्यस्यापीच्छन्ति । ससयति । कगे सौत्रो धातुः । एकारश्चदिकार्यार्थः । *अकगीत। वन इत्यूकारनिर्देशात वन भक्ती इत्यस्य न भवति । वानयति । अवानि । वानवानम् । इह घटादयः पठितार्था एवं गृह्यन्ते । अर्थान्तरे तदाटयति धापयति स्मारयति दारयति नाटयति लाडयति फाणयति छादयति प्रमादयति ध्वानयति स्वानयति चालयतीत्यादि । कगादीनां तु अर्थविशेपो नोपादीयते ॥ २५ ॥ अमोऽकम्यमिचमः ॥ ४॥२ । २६ ॥ कम्यमिचमिवर्जितस्यामन्तस्य धातोणों परे इस्वो भवति जिणम्परे तु णौ वा दीर्थों भवति । रमयति । अरामि । अरमि । रामरामम् । रमरमम् । दमयति । अदामि । अदमि । दामंदामम् । दमंदमम् । कथं संक्रामयति । संक्रामन्तं करोतीति शान्ताणिजि भविष्यति । अकम्यमिचम इति किम् । कामयते । अकामि । कामकामम् । आमयति । आममामम् । आचामयति । आचामि । आचाममाचामम् ॥ २६ ॥ पर्यपात्स्खदः ॥४।२ । २७ ॥ पर्यपाभ्यामेव परस्य स्खदेणौ परे इस्वो भवति जिणम्परे तु वा दीर्घ । परिस्खद यति । पर्यस्खादि । पर्यस्खदि । परिस्खादंपरिस्खादम् । परिस्खदंपरिस्खदम् । अपस्खदयति । अपास्खादि । अपास्खदि । अपस्खादमपस्खादम् । अपस्खदमपस्खदम् । अवादप्यन्ये | अवस्खदयति । स्खदेर्घटादिपाठेन सिद्धे नियमार्थ वचनम् । अन्योपसर्गपूर्वस्य माभूत । प्रस्खादयति । अन्ये तु निषेधाधिकारे 'अपपरिस्खदः' इति पठित्वा पर्यपपूर्वस्य स्खदेनिपेधमिच्छन्ति । तन्मते परिस्खादयति। पर्यस्खादि । परिस्खादंपरिस्खादम् । एवमपस्वादयतीत्यादि । पर्यपाभ्यामन्यत्र प्रस्खदयति । प्रास्खादि । प्रास्खदि । इत्यादि भवति ॥ २७ ॥ शमोऽदर्शने ॥४।२।२८ ॥ अदर्शनेऽर्थे वर्तमानस्य शमणौ परे इस्वो भवति बिणम्परे तु वा दीर्घः । शमयति रोगम् । निशमयति श्लोकान् । अशामि । अशमि । शामशामम् । शमंशमम् । अदर्शन इति किम् । निशामयति रूपम् । दर्शन एव केचिदिच्छन्ति । तेपामुदाहरणप्रत्युदाहरणयोर्विपर्ययः ॥ २८॥ यमोऽपरिवेपणे णिचि ॥-कगेवनू-||-अकगीदिति । 'व्यञ्जनादेवोपान्त्यस्यात' इत्यनेन वृद्धि प्राप्ता 'ग विजागृ'-इति एदित्वान्न भवति । एके कगे धातु सर्वधात्वथेषु मेनिरे । यथा कगति याति भुङ्क्ते सस्तात्यादि । अन्ये कगे इति नोच्यते इत्यर्थे जगु । यथा वगति न बक्तीत्यर्थ ॥ नलोपाभावे इति । मृगरमणाऽभावे नलोपाऽप्रवृत्तरित्यर्थ ॥-अर्थविशेषो नोपादीयते इति । पूर्वेण पृथग्योगादित्यर्थ ॥पर्यपात्स्खदः ॥-अन्योपसर्गपूर्वस्येति । अत्र विपरीतनियमो न भवति । " एकोपसर्गस्य'-इत्यत्र व्याझ्या एकोपसर्गग्रहणेन परिचट इत्यत्र इखविधानसामर्थ्यात् ॥-यमोऽपरिवेपणे ॥
wereococcertreatment