SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीहेमश०१९ पञ् च भवति । यबविडतीति किम् । दीनः । उपदीयते । उपदेदीयते । सानुबन्धनिर्देशायङ्लुपि न भवति । उपदेदेति ॥७॥"मिग्मीगोऽखलचलि॥४॥२८॥ ॥१२॥ मिनोतिमीनात्योर्यपि खलचल्वजितेऽक्छिति च प्रत्यये विपये विषयभूत आकारान्तादेशो भवति। -निमाय । निमाता। निमातुम् । निमातव्यम् । न्यमासीत् । मीग्, प्रमाय । प्रमाता । ममातुम् । प्रमातव्यम् । मामासीत् । अखलचलीति किम् । ईपन्निमयः । दुष्प्रमयः । अचि, मय'| आमयः। अलि, निमयः। प्रमयः। सानुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थः । निममेति । प्रमेमेति । यवङितीत्येव । निमितः । प्रमीत । निमेमीयते । प्रमेमीयते । मिग्मीग इति किम् । मीङ् हिसायामिति *देवादिकस्य माभूत् । मेता । मेतुम् । अस्याप्यात्वमिच्छन्त्यन्ये । माता । मातुम्॥८॥ लीलिनोवा।।४।२।९॥ लीयतेलिनातेश्च यपि खलचल्वर्जितेऽङिगते प्रत्यये च विषयभूते आकारोऽन्तादेशो वा भवति । विलाय । विलीय । विलाता । विलेता । विलास्यते । विलेप्यते । विलास्यति । विलेष्यति । व्यलासीत् । व्यलपीत् । अखलचलीत्येव । ईपदिलया। विलयः। विलयो वर्तते । यवक्तिीत्येव । 'लीनः। विलीन लीयते । लेलीयते । लिनाति । डिल्लुपतिवोर्निर्देशाद्यङ्लपि न भवति । लेलेति । ली द्रवीकरण इति यौजादिकस्य च न भवति । विलयति ॥५॥णौ क्रीजीडा४।२।१०॥ क्रीम् जि इङ इत्येतेपां णौ परे आकारोऽन्तादेशो भवति । कापयति । जापयति । अव्यापयति ॥१०॥ "सिध्यतेरज्ञाने ॥४॥२॥२१॥ पिधूच संसद्धाविसस्याज्ञाने वर्तमानस्य णौ परत 'स्वरस्याकारो भवति । मन्त्रं साधयति । तपः साधयति । अन्नं साधयति *साधर्मिकेभ्यो दातुम् । अज्ञान इति किम् । तपस्तपस्विनं सेधयाते । सिध्याते जानीते तपस्वी ज्ञानविशेषमासादयति त तपः प्रयुङ्क्ते इत्यर्थः । स्वान्येवैनं 'कर्माणि सेधयन्ति । अस्य अनुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् । पिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति । तपः सेधयति । साधेिनैव सिद्धे ।। सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थ वचनम् ॥ ११॥ चिस्फुरोर्नवा ॥४।२।१२ ॥ चिनोने: स्फुरतेश्च णौ परे स्वरस्गात वा भवति । चापयति । चाययति । स्फारयति । स्फोरयति ॥ १२ ॥ वियः प्रजने ॥ १।२।१३ ॥ प्रजनो जन्मन उपक्रमो गर्भग्रहणम् । तस्मिन् वर्तमानस्य वी इसेतस्य णौ परे आ इति महाभाष्येऽभापिष्ट ॥-यश्च भवतीति । ननु घर कथमाकारान्तलक्षणत्वमादन्तेभ्योऽप्यन्यत्रापि सामान्धेन तस्य विधानात् । उच्यते । घजोप्पाकारान्तलक्षणय सामान्यमऽस्ति । यत आकाराऽभावे ईदन्तत्वादऽल् स्यात् ॥-मिग्मीगो-1-निमायेति । तृविपये आत्वे 'तन्व्यधी'-इति णे निमाय इति विसर्गान्तमपि । तर्हि निमातेति कथम् । उच्यते । असरूपत्यानुचपि ॥१९१ देवादिकस्येति । उपलक्षणत्वामीणगतावित्यस्यापि ॥-लीइलिनोर्वा ॥णे विलाय इत्यपि सिद्धम् ॥-लीन इति । 'पाल्वादे '-इति कियादिकस्य देवादिकस्प 'सूपत्यायो'-इति नत्वम् ॥ सिध्यतेर-॥-स्वरस्याकार इति । सध्यक्षरप्रस्तावात् स्वरस्येति लभ्यतेऽन्यथा 'पठ्या अन्त्यस्य ' इति न्यायात धकारस्पेव स्यात् ॥-साधर्मिकेभ्य इति । समानो धर्म सधर्म स प्रयोजनमेषां 'प्रयोजनम् ' इतीकण् । समानो धर्मोऽस्येति बहुमीही तु 'द्विपदादर्मादऽन्' स्यात् ॥-कर्माणि सेधयन्तीति । सिध्यति अनुभवविशेषमासादयति तमेन तपस्विन कर्माणि प्रयुञ्जते ॥अनुभवविशेषमिति । अनुभव साक्षात्कार' स च ज्ञानमेव ॥-चिस्फुरो- स्फरस्फलत् स्फुरणे इत्यनेनैव सिद्दे स्फुरेरास्ववचन प्रयन्तात्सनि पुस्फारयिपतीत्येवमऽर्थम् ॥-वियः प्र-॥ प्रजनन ANNA
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy