________________
॥ अथ द्वितीयः पादः ॥
आत्संध्यक्षरस्य॥ ४।२।१॥ धानोः सन्ध्यक्षरान्तस्याकारो भवति "निनिमिचः। व्यग् , संव्याता | देंङ् दाता । मलैं म्लाता। अनैमित्तिकत्वादात्वस्य प्रागेव कृतत्वादाकारान्तलक्षणः प्रत्ययो भवति । मुग्लः । मुम्लः। सुग्लानम् । सुम्लानम् । धातोरित्येव । गोभ्याम् । नौभ्याम् । संध्यक्षरस्येति किम् । कर्ता । इह लाक्षणिकत्वान्न भवति । चेता । स्तोता ॥१॥न शिति ॥ ४।२।२॥ धातोः संध्यक्षरान्तस्य शिति प्रत्यये विपयभूते आकारो न भवति । भलायति । म्लायति । संव्ययति ॥ २॥ व्यस्थवणवि ॥ ४ ॥ २ ॥३॥ व्ययतेस्थवि णवि च विषयभूते आकारो न भवति । संविव्ययिथ । संविव्याय । अहं सविव्यय । थव्णवीति किम् । संव्याता । संव्यातुम् । केचित्तु परोक्षामाने आत्वमतिपेधमिच्छन्तो व्यगो विधि विकल्पयन्ति । त्वक्त्रैः संविव्ययुदेहान् इति सिद्धम् । तदपरे पाठभ्रम एवायमिति मन्यन्ते । त्वक्त्रै संविव्युरगानि इति तु सम्यक्पाठः। एवं 'संविव्ययुर्वसनचारु चमूसमुत्थं पृथ्वीरज करभकण्ठकडारमाशाः' इत्यत्रापि संविव्युरम्बरविकासि चमूसमुत्थामति सत्पाटः॥ ३॥ स्फुरस्फुलोजि ॥ ४।२।४॥ स्फुरस्फुलोजि संध्यक्षरस्याकारो भवति । विस्फारः। विस्फाल । विष्फारः । विष्फालः । 'वे': (२-३-५५) इति वा पत्वम् । घजीति किम् । विस्फोरकः ॥ ४॥ वापगुरो णमि ॥ ४ । २।५॥ अपपूर्वस्य गुरैति इत्यस्य धातोः संध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा भवति । 'अपगारमपगारम् । अपगोरमपगोरम् । आभीक्ष्ण्ये रुणम् द्वित्वं च । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्ते । ' द्वितीयया' (५-४-७८) इति णम् ॥ ५॥ दीङः सनि वा ॥ ४ । २।६॥ दीङः सनि परे आत्वं वा भवति । दिदासते । दिदीपते । उपदिदासते । उपदिदीषते ॥६॥ यवक्ङिति ॥४॥२७॥ दीडो यपि अक्ङिति च प्रत्यये विपयभूते आकारोऽन्तादेशो भवति । उपदाय । उपदाता । अवदाय । उपदातुम् । उपदातव्यम् । उपादास्त । विपयसप्तमीनिर्देशात्पूर्वमेवात्वे सति ईपदुपादानः उपादायो वर्तते इत्यत्र आकारान्तलक्षणोऽनः
॥-आत्सध्यक्ष-|-निनिमित्त इति । उत्तरेण सह पृथग्योगात् ॥-न शिति ॥-ग्लायतीति । गुण इति सान्वयसज्ञासमाश्चयणादन गुणाऽभाव । यत सतो विशेषाधान गुण । अत्र स्वकारस्य एकारे कर्त्तव्ये न तथा । समासान्तागमेति न्यायाद्वा न गुण । गुण इति हि सज्ञा ॥-वापगु-1-अपगारमपगारमिति । अभीक्ष्णमपगृय अपगुरण पूर्व वा । ननु रणम्प्रत्ययेनैव आभीक्ष्ण्यस्योक्तत्वात् द्वित्व न प्रामोति । न । शब्दशक्तिस्वाभाव्यात् केवलख्णम् आभीण्य न द्योतयतीति द्वित्वमपेक्षते ॥-यवक्डिति ॥-ईपदुपादान इति । ईपदऽनायासेनोपादीयते 'शासयुधि'-इत्यन ॥-उपदायो वर्तत इति । यदा उपदानमिति भावविवक्षा तदा 'युवर्ग'-इत्यल्विपये आत्वे भावाऽकॉन् । यदा तु उपदीयते इति कर्तृविवक्षा तदाऽपि णकविपये आत्वे ' तन्व्यधी'-इति ण । एतदपि विषयव्याख्याफलम् । ननु ण बाधित्वा उपसर्गाद्विशेषेण 'उपसर्गादात '-इति डो भविष्यतीति वाच्य यतस्तसिन् कर्तव्ये बाहुलकादास्व नेप्यते