________________
च० अ०
किक्ङिति इति किम् । गन्ता । रन्ता । धुटीत्येव । यम्यते । ययम्यते । *कश्चित्त्वाचारकावपि दीर्घत्वमिच्छति । कमिवाचरति कामति । एवं शम् , शामति । किम् , कीमति । इदम् , इदामति ॥ १०७ ॥ अनुनासिके च कवः शूट ॥ ४ ॥ १। १०८ ॥ अनुनासिकादौ को धुडादौ प्रत्यये च धातोश्छकारवकारयोर्यथासंख्यं श् उट् इत्येतावादेशौ भवतः । प्रश्नः । विश्नः । छस्य "द्वि-पाठात् 'योरपि शकारः । कि, शब्दमाद् । शब्दमाशौ । गोविट् । गोविशौ । धुट् पृष्टः। पृष्टवान् । प्रष्टा । मष्टुम् । स्योमा । स्योनः सिवनि प्रखये औणादिके च ने लघूपान्त्यगुणात्पूर्वमूट क्रियते निसत्वात् । तत्र कृतेऽल्पाश्रितत्वेनान्तरगत्वायत्वं न तु गुणः। 'अक्षयूः । हिरण्यद्यः । 'असिद्धं बहिरङ्गमन्तरङ्गे' इति स्वरानन्तये नेष्यते तेन यत्वं भवति । द्यूतः । द्यूतवान् । दुयूपति । वकारस्य विकल्पेनानुनासिकत्वादन कनिपोः सुस्योवा, सुस्यवी, पक्षे, सुसेवा, मुसित्वेत्याप सिद्धम् । धातोरित्येव । दिवेरौणादिकडिप्रत्ययान्तस्य युभ्याम् , युभिः। यदा तु दिवेः किम् तदा धातुत्वात् अ॒भ्यां धूभिरिति । यङ्लुपि तु देद्योति देयोपि, सेप्योति सेप्योपि, देद्यूतः। सेप्यूतः। अन्ये तु देदेति, देदेपि, सेसेति, संपेषीत्येवेच्छन्ति । तन्मतपरिग्रहार्थ क्डिन्तीयनुवर्तनीयम् । यजादिसूत्रे च च्छग्रहणं विधेयम् । टकार 'ऊटा' (१-२-१३) इसत्र विशेषणार्थः॥१०८॥ मव्यविधिविज्वरित्वररुपान्त्येन ॥४।१।१०९ ॥ शकारस्य स्थानी छ इह न संभवतीत्यूडेवानुवर्तते । मव्यादीनामनुनासिकादौ को धुडादौ च प्रत्यये वकारस्योपान्त्येन सहोड् भवति । मन् , मोमा । मूः। मुवौ । मुवः । मूतिः। यङ्लुपि, मामोति । मामूतः । अत् , ओम् , औणादिको म् । ओमा । ऊः । उवौ । उवः । ऊतिः। श्रि , श्रोमा । श्रूः। श्रुवौ । श्रुवः। श्रूतः । श्रूतवान् । श्रुतिः । शेश्रोति । शेश्रूतः । ज्वर, जूर्मा । जूः। जूरौ । जूरः। जूनिः। जाजूर्ति । जाजूतः। त्वर, तूर्मा । तूः । तूरौ । तूरः। तूर्णः। तूर्णवान्। तूर्तिः। तातूर्ति । तातूर्तः। ज्वरत्वरोरुपान्त्यो चकारात्परः श्रिव्यविमवां तु पूर्वः॥१०९॥ रालुक् ॥४।१।१२०॥ रेफात्परयोर्धातो छकारवकारयोरनुनासिकादौ कौ धुडादौ च प्रत्यये लुग्भवति शूटोऽपवाद । मुर्छा, हुई, मोर्मा । होर्मा । मू! मुरौ । मुर। हूः । हुरौ। हुरः। मूर्तः। मूर्त गन् । हूर्गः । इर्णवान् । हूर्तिः।
मोमोति । जोहोति । तुर्वे, धुई । तोर्मा । धोर्मा । तूः । तुरौ । तुः । धूः। धुरौ । धुरः। तुणे। तूर्णवान् । तूर्तिः। धूर्णः। धूर्णवान् । धृतिः । “धूर्त इति लोणादिकः। दीर्घ ॥-अनुनासिके च-॥-द्विःपाठादिति । द्वित्यापनस्य छस्थेत्यर्थ ॥-द्वयोरपीति । अपिशब्दास्केचलस्य । तेन चाछु इच्छायामित्यस्य वान् वाशी वाश इति सिद्धम् । न च वाच्य सूने द्विच्छकारपाठात् केवलस्य न प्रासोतीति ह च ए चेति कृते 'पदस्य' इत्येकलोपे निमित्ताभाव इत्यनेन चस्प उत्ये 'अवापे प्रथम '-इति पूर्वस्त्र चस्ये च इति साधितत्वात् । यहा पूर्व दि छकार द्वितीयस्तु लघु तत छ् च छ चेति कृते ‘पदस्य ' इति लघुछकारस्प लुक् ता निमित्ताभार इत्यादि ग क्रियते ॥अक्षयूरिति । साऽनुवन्धत्वादूटि कृते 'उ' पदान्तेऽभूत् ' इति न भवति ॥-विकल्पेनाऽनुनासिकत्वादिति । म्लेच्छेषलुपि यसि 'अनुनासिके च' जाते उस्म शत्ये मेम्लेश्व । निरनुनासिकत्वे तु मेम्लेच्छ इति ॥-डितीत्यनुवर्तनीयमिति । तर्हि प्रष्टेत्येतत् छस्य शरवाऽभावे 'यजसूज '-इति पत्याऽभावे न सेत्स्यतीत्याह -यजादी गादि ॥-राल्लुक् -मोमोति । अत्र गुणे कर्तव्ये 'म्वादेनोमिन. '-इति शासमसदिति गुण । एव धोमत्यत्रापि ॥-धूर्ण इति । यद्यन णकारस्तत्कथ धूत इत्याह-धूचे इतीति ।।