________________
“श्रपिं चुरादौ पठन्ति तस्यैव थपेर्निपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते कर्मकर्तृ हविः श्रातुं चैत्रः प्रयुक्तवान् इति प्रयोजकव्यापारे णिगि श्रपितं हविश्चैत्रेणेत्येव भवति । अपरे तु सकर्मकावपि श्रातिश्रायती इच्छन्ति । तन्मते, *तयोरप्यण्यन्तयोर्निपातनं भवति । शृतं हविश्चैत्रेण । ण्यन्तयोस्तु न भवत्येव । श्रपितं हविश्चैत्रेण मैत्रेणेति ॥ १०१ ॥ वृत्सकृत् ॥ ४ । १ । १०२ ॥ वृदिति अन्तस्थास्थानानामिकारोकारऋकाराणां शास्त्रेऽस्मिन् व्यवहारः । धातोर्वृत्सकृदेकवारमेव भवति । यावत्संभवस्तावद्विधिरिति न्यायात् पुनःप्राप्तं प्रतिषिध्यते । *संवीयते । विध्यते । विच्यते । वैवीयते । वैविध्यते । वेविच्यते॥१०२॥ दीर्घमवोऽन्त्यम् ॥ ४ । १ । १०३ ॥ वेग्वर्जितस्य धातोर्वृदन्त्यं दीर्घ भवति । जीनः । जीनवान् । जिनाति । संवीतः । हूतः । शुनः । अव इति किम् । * उतः । उतवान् । अन्त्यमिति किम् । सुप्तः । उप्तः ॥ १०३ ॥ *स्वरहनगमोः सनि धुदि ॥ ४ । १ । १०४ ॥ स्वरान्तस्य धातोर्हन्तेर्गमाश्च धुडादौ सनि परे स्वरस्य दीर्घो भवति । स्वर, चिचीषति । तुतुषति । चिकीर्षति । हन्, जिघांसति । गम, जिगांस्यते । संजिगांसते । अधिजिगांस्यते माता । अधिजिगांसते सूत्रम् । गम्विति इणिकादेशस्य गमेग्रहणाद्च्छतेर्न भवति । संजिगंसते वत्सो माना । इङादेशस्यैव गमोरिच्छन्त्येके । तन्मते इण् जिगंस्यते । संजिगंसते । इक् अधिजिगं - | स्यते मातेत्येव भवति । सनीति किम् । स्तुतः। घुटीति किम् | यियविपति ॥ १०४ ॥ तनो वा ॥ ४ । १ । १०५ ॥ तनोतेर्घुडादौ सनि परे स्वरस्य दीघों वा भवति । तितसा॑ति । तितंसति । घुटीसेव । वितितनिपति । यङ्लुषि । 'तंतनिपति ॥ १०५ ॥ क्रमः क्त्वि वा ॥ ४ । १ । १०६ ॥ क्रमः स्वरस्य धुडादौ क्त्वाप्रत्यये वा दीर्घो भवति । क्रान्त्वा । कन्त्वा । घुटि इत्येव । क्रमित्वा । 'ऊदितो वा ' ( ४-४-४२ ) इति वेटू । मक्रम्येयत्र त्वन्तरमपि दीर्घत्वं वाधित्वा प्रा गेव यप् । एतच्च 'यपि चादो जग्ध् ' ( ४-४-१६ ) इस ज्ञापयिष्यते ॥ १०६ ॥ "अहन्पञ्चमस्य किक्ङिति ॥ ४ । १ । १०७ ॥ हन्वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य कौ घुडादौ च क्ङिति प्रत्यये दीर्घो भवति प्रशान् । प्रतान् । प्रदान् । प्रशामौ । प्रतामौ । प्रदामौ । किति, शान्तः । शान्तवान् । शान्त्वा । शान्तिः । एवं तान्तः । दान्तः । ङिति शंशान्तः । तन्तान्तः । दान्तः । पञ्चमस्येति किम् । ओदनपक् । पक्त्वा । अहन्निति किम् । वृत्रणि । भ्रूणहनि ।
"
।
प्रायुक्त | पाचितमित्यर्थ ॥ - श्रपि चुरादाविति । अदन्तम् । तस्य च फल हवि क्षीरादन्यत्र दृश्यम् ॥ - तयोरपीति । न केवलमऽकर्मकयो सकर्मकयोरपि तयो श्र श्रुतमिति निपातन भवति इत्यपेर्थ ॥ - वृत्सकृ- ॥ संवीयते इति । अत्र यकारस्य 'यजादिवचे ' इति वृति पुनर्वकारस्य प्राप्तमनेन निषिध्यते ॥ दीर्घम - ॥ उत इति । किपि उत् उतौ उत्त इति भाष्यम् ॥ सुप्त इति । 'ज्ञानेच्छाचार्थ ' - इति क ॥ स्वरहनगमो :- ॥ - संजिगांसते इति । समेतुमिच्छति सन् । 'सनीडव' इति गमु । गम्लु गतावित्यनेन सह इणादेशस्य गमेऽरभेदोपचाराद्गम्लकार्यमात्मनेपद प्राग्वदित्यनेन । अन्यथा सन प्राग् आत्मनेपदाऽदर्शनान्न स्यात् । उपचारे तु 'समो गमृच्छि' इति प्राक् दृष्टम् ॥ यियविपतीति । प्रथम गुण बाधित्वा दीर्घं सकृद्वते इति प्रवर्त्तते ॥-तनो वा ॥-तंतनिपतीनि । ' इवृध'- इतीटि विकल्पात्तितासति तितसतीत्यपि ॥ - अहन्पञ्च - ॥ - प्रशानिति । नादेशस्य परे असत्त्वान्नलोपाभाव । हन्वर्जनात् उपदेशावस्थाया | पञ्चमो गृहयते । तेन सुगणित्यत्र दीर्घो न ॥ - वृत्रहणीति । संज्ञायां 'पूर्वपदस्था' इति असज्ञाया तु 'कवगैक' - इति णत्वम् ॥ - कश्चित्तु आचारकाविति । स्वमते तु तस्मिन् धातुत्वाऽभावान