________________
।
क्षायां वृन्न भवति । वौ । वविथ । अय इति किम् । * उवाय । उवयिथ ॥ ७४ ॥ अविति वा ॥ ४ । १ । ७५ ॥ वेगोऽयकारान्तस्याविति परोक्षायां परतो वृद्वा न भवति । वतुः । ववुः । ऊचतुः । ऊबुः । द्वित्वे कृते परत्वाद्धातोरुवादेशे सति पश्चात् पूर्वस्य समानस्य दीर्घः । अय इति किपू । ऊयतुः । ऊयुः ॥ ७५ ॥ ज्यश्च यपि ॥ ४ । २ । ७६ ।। ज्या इत्येतस्य वेगथ यपि परे वृन्न भवति । प्रज्याय । उपज्याय । प्रवाय । उपवाय ॥ ७६ ॥ व्यः || ४|१| ७७ ॥ व्येगो यपि परे य्वृन्न भवति । प्रव्याय । उपव्याय । योगविभाग उत्तरार्थः ॥ ७७ ॥ संपर्वा ॥ ४ । १ । ७८ ॥ संपरिभ्यां परस्य व्येगो यपि परे वृद्वा न भवति । संव्याय । संवीय । परिव्याय । परिवीय । निरपेक्षत्वेनान्तरङ्गत्वात् प्रागेव वृतो दीर्घत्वम् न तु तोऽन्तः । समो नेच्छन्से के । तेन नित्यं संव्याय ॥ ७८ ॥ यजादिवचे: किति ||४|१| ७९ || "नेति निवृत्तम् । यजादीनां धातूनां वचेश्च संस्त्ररान्तस्था किति प्रत्यये परे वृत् भवति । यजी, ईजतुः। ईजुः। इज्यते । इज्यात् । इष्टः । इष्टवान् । ईजिवान् । इष्ट्वा । “इष्टिः। वेग्, ऊयतुः । ऊयुः। 'अविति वा' (४-१-७५) इति वचनात् ववतुः। ववुः। ऊवतुः। ऊवुः। ऊयते । ऊयात् । उतः । उतवान् । व्येंग्, संविव्यतुः । संवियुः । संवीयते । संवीयात् । संवीतः। संवीतवान् । हेग्, हूयते । हूयात् । हूतः । हूतवान् । वर्षीी, ऊपतुः। उपुः। उप्यते । उप्यात् । उप्तः । उप्तवान् । वही, ऊहतुः। ऊहुः। उद्यते । उह्यात् । ऊढः । ऊढवान् । वि, शुयते । शुयात् । शुनः । शूनवान् । वद, ऊदतुः । ऊदुः । उद्यते । उदितः। उदितवान् । वसं, ऊपतुः । ऊपुः । उष्यात् । उषित' । उषितवान् । वचिति वच्क् ब्रूगादेशो वा । ऊचतुः । ऊचुः । उच्यते । उच्यात् । उक्तः । उक्तवान् । यौजादिकस्य तु न भवति । वच्यते । कितीति किम् । इयाज । यक्षीष्ट । वावच्यते । वक्ता ॥ ७९ ॥ स्वपेर्यङ्ङे च ॥ ४ । १ । ८० ॥ स्वधैर्यङि ङे किति च प्रसये सस्वरान्तस्था यवृत् भवति । सोसुप्यते | सोपुपीति । यङ्लुपि नेच्छन्सन्ये । सास्वप्ति । णिमन्तरेण उस्यासंभवात् स्वपितिर्ण्यन्तो लभ्यते । “असुषुपत् । ङे य्वृव गुणो ह्रस्वत्वं द्वित्वं पूर्वस्य दीर्घत्व - त्यत्र क्रमः । किति, सुषुपतुः । सुप्यते । सुप्यात् । सुषुप्तति । एष्विति किम् । स्वपिति । घनन्तादपि कोचिदिच्छन्ति । स्वापमकरोत् *असुषुपत् ॥ ८० ॥ * ज्याव्यधः क्ङिति ॥ ४ । १ । ८१ ॥ जिनातेर्विध्यतेश्च सस्वरान्तस्था किति ङिति च प्रत्यये परे वृत् भवति । जिज्यतुः । जीयते । जीयात् । प्राप्नोति ॥ — उवायेति । अन्न वयादेशे किदऽभावात् 'यजादिवचे ' इत्यस्याप्रवृत्तौ द्वित्वे 'यजादिवश्' इति पूर्ववकारस्य वृत् ॥ - अविति वा ॥ - ववतुरिति । द्वित्वात्प्रागेव 'यजादिवचे.'इत्यनेन प्राप्तमनेन विकल्प्यते । द्वित्वे तु कृते पूर्वस्य 'यजादिवश ' इति प्राप्त 'वेरय.' इत्यनेन निषिध्यते ॥ ऊवतुरिति । अत्र पूर्वम् वृत्ततो दिख नृत्सकृदिति न्यायात्पञ्चाद्वकारस्य न य्वृत् ॥–यजादिवचेः॥-नेति निवृत्तमिति । प्राप्तेरभावात् ॥ - इष्टिरिति । ' आस्यटि ' - इति क्यप्समावेशार्थम् श्वादिकत्वात् ति ॥ - उत इति । विपि तु उत् उतौ उत इति । परमते तु ऊ उवौ उव । ते ' दीर्घमवोऽन्त्यम्' इत्यत्र अव इति न कुर्वते ॥ - यौजादिकस्य तु न भवतीति । नित्याणिजन्तैर्यजादिभि. साहचर्यादित्यर्थ ॥ - स्वपेर्यङ्डे च ॥असूपुपदिति । न च वाच्य प्राक् तु स्वरे इति न्यायात् द्वित्वमेव भविष्यति न णिगाश्रितो गुण । यतो यदि तेनैव द्वित्वनिमित्तेन प्रत्ययेन जन्यते स्वरविधिस्तदैव न स्यादत्र तु द्वित्वनिमित्तप्रत्ययाऽजन्य इति ॥ असुषुपदिति । स्वमते तु असस्वापदिति ॥ - ज्यान्यधः ॥ प्रत्यय इति विशेष्य क्डितीति विशेषणम् अतो धातुनिमित्तयोर्यथासंख्यं न भवति