________________
insacance
अपुप्रवत् । अपिप्लवत् । अपुप्तवत् । अचिच्यवत् । अचुच्यवत् । अन्यस्य न भवति । अनूनवत् अजूहवत् । लघुनीति किम् । अततक्षत् । अवभाणत् । अचिक्रमत , अचिकणत इत्यादी अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्त्ववाधकस्याखस्य शासनात् सन्वद्भावो भवति न तु स्वरख्यअनन्यवायेऽपि । तेन अजजागरत । णावित्येव । अचकमत । असमानलोप इति किम्। अचकथत् । दृपदमाख्यत् अददृपत् । पटुं लघु कपि हरिं वाख्यत् अपीपटत अलीलघत अचीकपत अजीहरत इत्यादौ तु वृद्धौ कृतायां सन्ध्यक्षरलोप इति असमानलोपत्वात्सन्वद्भावः । णाविति जात्याश्रयणात् वादितवन्तं प्रयोजितवान् 'अवीवदद्वीणां परिवादकेन अपीपठन्माणवकमुपाध्यायेन । अत्र णेः समानस्य लोपेऽपि भवति ॥ ६३ ॥ “लघोर्दीर्घोऽस्वरादे ॥४।१।६४ ॥ अस्वरादेर्भातोर्डपरेऽसमानलोपे णौ द्वित्वे सति पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति । अचीचरत् । अलीलवत् । अतूतवत् अबू जत् । लघोरिति किम् । आचिक्षणत् । अस्वरादेरिति किम् । औMनवत् । उरुरिवाररतीति किन्लोपे णौ औरिरवत् । लघुनीसेव । अततक्षत् । णावित्येव । अचकमत | ङ इत्येव । रिरमयिपति । असमानलोपे इत्येव । अचकथत् । अदपत् । णिजात्याश्रयणात् 'अवीवदद्वीणां परिवादकेन ॥ ६४ ॥ स्मृदृत्वरप्रथनदस्तृस्पशेरः॥४।१।६५ ॥ एपां धातूनामममानलोपे उपरे णौ द्वित्वे सति पूर्वस्याकारोऽन्तादेशो भवति । सन्बद्भावापवादः । स्मू, असस्मरत् । ह, अददरत् । अत्र परत्वादीघोऽपि न भवति । त्वर, अंतत्वरत् । प्रथ, अपप्रथत् । म्रद, अमम्रदत् । स्तृ , अतस्तरत् । स्पश् अपस्पशत् ॥ ६५ ॥ वा वेष्टचेष्टः ॥ ४ ॥ १६६॥ वेष्टचेष्टोर्धात्वोरसमानलोपे उपरे णौ द्वित्वे सति पूर्नस्य अकारोऽन्तादेशो वा भवति। अववेष्टत।।
अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥६६॥ ई च गणः ॥४।१।६७॥ गणेङपरे णौ द्वित्वे पूर्वस्येकारोऽकारश्चान्तादेशो भवति । अजीगणत् । अजगणत् । गरदन्त| त्वेन समानलोपित्वात्सन्बद्भावो दीर्घत्वं च न प्राप्नोतीतीत्वविधिः । 'भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथा ' इति प्रयोगदर्शनादन्येषामपि यथादर्शनमीत्वमिच्छन्सेके ॥६७॥ अस्यादेराः परोक्षायाम्॥४॥१६८|| धार्तोद्वित्वे सति पूर्वस्यादेरकारस्याकारो भवति । आटतुः। आदुः। आटिथ। आदतुः। आदुः। आदिथ । अस्येति
Imaowoanmassassss
पयितुमिच्छति सन् ‘णिस्तोरेय '-इति पत्वम् ॥-असमान-॥-प्रयोजितवानिति । प्रयुकवानित्यर्थ । यौजादिकस्य प्रयोगात् ॥-अबीवदत् वीणामिति । वदति वीणा ता परिवादक प्रयुक्तवान् तमऽन्य प्रयुक्तवान् णिग्वयम् । यद्यप्यन णी गेलोपोऽभूत्वापि न समानलोप । यतो णाविति जात्या एकवचन ततश्च य कश्चित् णिग् स सर्वोऽपि निमित्ततयोपात्त । अत स लुप्तोऽपि निमित्तम् । एवमऽपीपठदित्यनापीति ॥-लघो?--अचीचरदिति । ननु 'स्वरस्य '-इति परिभापया पूर्वस्मिन्नित्वे विधेये स्वरादेशस्य इस्वस्य स्थानित्वेन लघुनीत्यभायादित्व न प्राप्नोति । उच्यते । 'स्वरस्य'-इति पूर्वस्मिन् ( कालाऽपेक्षया देशापेक्षया वा ) स्थानित्वमऽत्र तु कालापेक्षया इत्वस्य परत्व यत प्रथममुपान्त्यहस्वस्तत इत्वमिति । देशापेक्षया तु परिभाषाया अनित्यता । तथाहि-पूर्वदेशे इत्व परदेशे दूरव इति परिभापासक्ति ॥-स्मृदृत्वर-॥-सन्बद्भावापवाद इति । बहुप्रयोगापेक्षयेदमुक्त यावता दीर्घस्यापि ॥-अपस्पशदिति । पशि सौत्र । पशिण् इति णिगन्तो वा । केचित्तु पपीस्थाने स्पशीति पठन्ति तस्य वा ॥-ई च गणः ॥ ननु ई वा गण इति क्रियतामदन्तत्वेन समानलोपित्वादेव पक्षेऽजगणदिति भविष्यति । सत्यम् । चुरादिभ्यो णिच् अनित्यो णिच्सन्नियोगे एवैपामऽदन्तत्व तदभावे तदृऽभावादजगणदिति न सिध्येत् । कि त्यजीगणदित्येव ॥-अस्यादेरा-॥ 'लुगस्यादेत्यपदे' इत्यस्याऽपवादः ॥