________________
च० अ०
श्रीहेमश०१
*सन्वकार्य न वाध्यते ॥ ४८ ॥न हाको लुपि ॥४।१।४९ ॥ ओहांक खागे इत्यस्य द्वित्वे सति पूर्वस्य यो लुप्याकारो न भवति । जहाति । जइति । ॥४॥
लुपीति किम् । जहीयते ॥ ४९ ॥ "वञ्चस्रन्सध्वन्सभ्रंशकसपतपदस्कन्दोऽन्तो नीः ॥४।१।५०॥ एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवो भवति । वनीवन्यते । वनीवश्चीति । सनीस्रस्यते । सनीखंसीति । दनीध्वस्यते । दनीध्वंसीति । वनीभ्रश्यते । वनीभ्रंशीति । चनीकस्यते । चनीकसीति । पनीपत्यते । पनीपतीति । पनीपद्यते । पनीपदीति । चनीस्कद्यते । चनस्किन्दीति । दीर्घविधानाद्रस्वो न भवति ॥ ६० ॥ "मुरतोऽनुनासिकस्य ॥ ४॥१॥५१ ॥ अकारात्परो योऽनुनासिकस्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तो भवति । वम्भण्यते । वम्भणीति । तन्तन्यते । तन्तनीति । जङ्गम्यते । जङ्गमीति । यलवानामनुनासिकत्वे तन्तयते । तन्तयः । चंचलॅयते । चञ्चलः । ममव्यते । अननुनासिकत्वे, तातथ्यते । तातयः । चाचल्यते । चाचलः । मामव्यते । मामवः । अत इति किम् । तेतिम्यते । जोघुण्यते । “वाभाम्यते । अनुनासिकस्येति किम् । पापच्यते ॥ ५१ ॥ *जपजभदहशभञ्जपशः ॥ ४ ॥ १। ५२॥ एषा यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । जंजप्यते । जंजपीति । जंजभ्यते। जंजभीति । दंदवते । दंदहीति । ददश्यते । देदशीति । वम्भज्यते । वम्भजीति । पशिति सौत्रो धातुः । पंपश्यते । पंपशीति । दशिति लुप्तनकारनिर्देशात यङो लुप्यपि दंशेनेलोपो भवति । अन्यस्तु नलोपं नेच्छति । तेन दंदेशीति ॥ ५२ ॥ चरफलाम् ॥ ४।१।५३ ॥ चरफलजिफला इसेपां यडन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । चंचूयते । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । बहुवचनं त्रिफलाविशरणे इसस्यापि परिग्रहार्थम् ॥ ५३ ॥ *ति चोपान्त्यातोऽनोदः ॥ ४॥१॥५४॥ "यङन्तानां चरफलां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशो भवति ‘स चानोत् ' तस्य गुणो न भवति । चंचूर्यते । चंचुरीति । पंफुल्यते । पंफुलीति । चूचिः । ब्रह्मचूर्णिः । प्रफुल्लिः । प्रफुल्लः । प्रफुलवान् । अत इति किम् । चारयतेः फालयतेश्च किप् । तत आचारे किम् । ततो यङ् चंचायते । पंफाल्यते । अत्रैकदेशविकृतस्यानन्यत्वात्माप्नोति । अनोदिति किम् । चंचूर्ति । पंफुपूर्वस्यैव प्राप्मुत आगुणौ ॥-सन्वत्कार्यमिति । सन्वत्कार्यबाधे त्वचाकरदित्यनिष्ट स्यात् ॥-वञ्चत्रंस-॥ युतादिव्यंस्साहचर्यात् ससूड् इत्यस्यैव युतादिवसो ग्रह ससुइ प्रमादे इत्यस्य तु सासस्यत इति भवति । अाशिरपि भ्रशंडिति स्वादिरेव गृह्यते भ्वादिध्वस्साहचर्यात् । भुशुच् भ्रशूच् इत्यस्य तु बानश्यत इत्येव ॥-मुरतो--बाभाम्यते इति । भामि क्रोधे इत्यत्य रूपम् । ये त्वनुनासिकान्तस्य धातोत्वेि सति पूर्वस्याऽत इति विशेपण मन्यन्ते तन्मते बभाम्यत इति तन्मतसग्रहायाऽत इति षष्ठी व्याख्यया ॥-जपजभ-॥ पस इति दन्त्यान्त न्यासकारादयो मेनिरे । भोजस्तु तालव्यान्तम् ॥-जंजभीति । आगमशासनमनित्यमिति 'जम स्वरे' इति नागमाऽभाव ॥-लुप्तनकारेति । 'गृलुप'-इत्यत्रापि ज्ञापित पर द्विर्षद सुयद् भवतीत्यत्रापि ज्ञापितम् ॥-ति चोपान्त्या-॥-यङन्तानामिति । द्वित्वे सति ज्ञातव्य न पूर्वस्य उपान्त्याऽकारस्य ग्रहणात् ॥-चञ्चर्यते इति । द्वित्वे सतीत्यधिकारान्न पूर्वमुत्वम् । चूर्तिरित्यत्र तु द्वित्वाऽसभवात् द्वित्वाभावेऽपीति दृश्यम् ॥-चूतिरिति । चरण 'समज'-इति समावेशार्थत्वात् 'श्वादिभ्य' क्तिः ॥-प्रफुल्ल इति । जिफलेल्यस्य यदा फलति सेति वाक्ये तस्तदा 'आदित.' इति नित्यमिढऽभाव । फलितुमारब्ध इति आरम्भे के तु 'नवा भावारम्भे' इति वेद । फल निष्पत्ताविस्यस्य तु नित्यमिट् ॥-चञ्चायत इति । चरन्त प्रयुक्त णिग् वृद्धि चारयतीति कि
।